________________
समयप्राभृतं ।
८.३
शोभनं भवति ! यज्जीवं संसारे प्रवेशयति । हेतुस्वभावानुभवबंधरूपाश्रयाणां निश्चयेनाभेदात् कर्मभेदो बास्तीति । तथाहि हेतुस्तावत्कथ्यते शुभाशुभपरिणामो हेतुः । स च शुद्धनिश्वयेनाशुभत्वं प्रति, एक एव द्रव्यं पुण्यपापरूपं पुद्गलद्भव्यस्वभावः । सोऽपि निश्चयेन पुद्गलद्रव्यं प्रति, एक एव तत्फलं सुखदुःखरूपं स च फलरूपानुभवः । सोप्यात्मोत्थनिर्विकारसुखानंदापेक्षया दुःखरूपेणैक एव आश्रयस्तु शुभाशुभबंधरूपः । सोऽपि बंधं प्रत्येक एव इति हेतुस्वभावानुभवाश्रयाणां सदाप्यभेदात् । यद्यपि व्यवहारेण भेदोऽस्ति तथापि निश्वयेन शुभाशुभकर्मभेदो नास्ति इति व्यवहास्त्रादिनां पक्षो बाध्यत एव । अथोभयं कर्म, अविशेषेण बंघकारणं साधयति.
आत्मख्यातिः - शुभाशुभजीव परिणाम निमित्तत्वे सतिः कारणभेदात् शुभाशुभपुद्गल परिणाममयत्वे सति स्वभावभेदात् शुभाशुभफलपाकत्वे सत्यनुभवभेदात् शुभाशुभमोक्षबंधमार्गाश्रितत्वे सत्याश्रयभेदात् चैकमपि कर्म . किंचिच्छुभं किंचिदशुभमिति केषां चित्किल पक्षः, स तु प्रतिपक्षः । तथाहि शुभोऽशुभो वा जीवपरिणामः केवलाज्ञानत्वादेकस्तदेकत्वे सति. कारण भेदात् एकं कर्म । शुभोऽशुभा वा पुद्गलपरिणामः केवल पुद्गलमयत्वादेकस्तदेकत्वे सति स्वभावाभेदादेकं कर्म । शुमोऽशुभो वा फलपाकः केवलपुद्गलमयत्वादेकस्तदेकत्वे सत्यनुभवाभेदादेकं कर्म । शुभाशुभौ मोक्षबंधमार्गौ तु प्रत्येकं केवलजीवपुद्गलमयत्वादनेकौ तदनेकत्वे सत्यपि केवलपुद्गलमयबंधमार्गाश्रितत्वेनाश्रय़ाभेदादेकं कर्म ॥
हेतुस्वभावानुभवाश्रयाणां सदाप्यभेदान्नहि कर्मभेदः ।
तद्वंधमार्गाश्रितमेकमिष्टं स्वयं समस्तं खलु बंधहेतुः । १०३ ।
अथोभयं कर्माविशेषेण बंधहेतुं साधयति -
सौवणिय णिलं वंधदि कालायसं च जह पुरिसं । बंधदि एवं जीवं सुहमसुहं वा कदं कम्मं ।। १५६ ॥ araणकमपि निगळं बध्नाति कालायसमपि च यथा पुरुषं । नात्येवं जीवं शुभमशुभं वा कृतं कर्म । १५६ ।
तात्पर्यवृत्ति:: - यथा सुवर्णनिगलं कोहनिगलं च. अविशेषेण पुरुषं बध्नाति तथा शुभमशुभं वा कृतं कर्म अविशेषेण जीवं बनातीति । किंच । भोगाकांक्षानिदानरूपेण रूपलावण्य सौभाग्यकामदेवे - न्द्राहमिंद्रख्यातिपूजालाभादिनिमित्तं यो व्रततपश्चरणदानपूजादिकं करोति स पुरुष: तक्रनिमित्तं रत्नविक्रयवत्, भस्मनिमित्तं.रत्नराशि द्रहनवत, सूत्रनिमित्तं हारचूर्णवत्, कोद्रव क्षेत्रवृत्तिनिमित्तमगुरुवनच्छेदनवत्। वृथैव व्रतादिकं नाशयति । यस्तु शुद्धात्मभावनासाधनार्थ बहिरंगवत तपश्चरणदानपूजादिकं करोति स परं परया मोक्षं लभते इति भावार्थ: ।
अथोभयकर्म विशेषेण मोक्षमार्गविषये निषेधयति
आत्मख्यातिः- शुभमशुभं च कर्माविशेषेणैव पुरुषं बध्नाति बंधत्वाविशेषात् कंचनकालायसनिगलवत्अथोभयं कर्म प्रतिषेधयति -
तादु कुसीलेहिय रायं माकाहिं माव संसग्गं ।
साधीणो हि विणासो कुसीलसंसग्गरायेण ॥ १५७ ॥ तस्मात्तु कुशीलैरागं मा कुरु मा वा संसर्ग । स्वाधीनो हि विनाशः कुशीलसंसर्गरागाभ्याम् । १५७ ।
१ सूवर्णैः ।