________________
४
सनातमजैनग्रंथमालायांतात्पर्यवृत्तिः-तम्हादु कुसीलेहिय रायं मा काहि माघ संसरगं तस्मात् कारणात् कुशीलैः कुत्सितैः शुभाशुभकर्मभिः सह चित्तगतरागं मा कुरु। बहिरंगवचनकायगतसंसर्ग च मा कुरु कस्मात् ? इति चेत् । साधीणो हि विणासो कुसीलसंसग्गरायण कुशीलसंसर्गरागाभ्यां स्वाधीनो नियमेन विनाशः निर्विकल्पसमाधिविघातरूपः स्वार्थभ्रंशो हि स्फुटं भवति अथवा स्वाधीनस्यात्मसुखस्य विनाश इति ।
अथोभयकर्म प्रति निषेधं स्वयमेव श्रीकुन्दकुन्दाचार्यदेवा दृष्टांतदाष्टाताभ्यां समर्थयंति
आत्मख्य ति:-कुशीलशुभाशुभकर्मभ्यां सह रागसंसौ प्रतिषिद्धौ बंधहेतुत्वात् कुशीलमनोरमाऽमनोरमकरेणुकुट्टिनीरागसंसर्गवत् । अथोभयं कर्म प्रतिषेध्यं स्वयं दृष्टांतेन समर्थयते
जहणाम कोवि पुरिसो कुच्छियसीलं जणं वियाणित्ता। वजेदि तेण समयं संसग्गं रायकरणं च ॥ १५८ ॥ एमेव कम्मयपडी सीलसहावं हि कुच्छिदं णादु । वजति परिहरंति य ते संसग्गं सहावरदा ॥ १५९ ॥
यथा नाम कश्चित्पुरुषः कुत्सितशीलं जनं विज्ञाय । वर्जयति तेन समकं संसर्ग रागकरणं च । १५८ । एवमेव कर्मप्रकृतिशीलस्वभावं च कुत्सितं ज्ञात्वा ।
वर्जयंति परिहरंति च तत्संस स्वभावरताः । १५९ । तात्पर्यवृत्तिः यथा नाम स्फुटमहो वा कश्चित्पुरुषः कुत्सितशीलं जनं ज्ञात्वा वजेदि तेण समय मंसगं रायकरणं च तेन समकं सह बहिरंगवचनं कार्यगतं संसर्ग मनोगतं रागं च वर्जयतीति दृष्टांत: एमेव कम्पपयडी सीलसहावं हि कुच्छिदं णादु एवमेव पूर्वोक्तदृष्टान्तन्यायेन कर्मणः प्रकृतिशीलं स्वभावं कुत्सितं हेयं ज्ञात्वा वज्जति परिहरंति य तं संसगं सहावरदा इह जगति वर्जयन्ति तत्संसर्ग वचनकायाम्यां परिहरन्ति मनसा रागं च तस्य कर्मणः के ते? समस्तद्रव्यभावगतपुण्यपापपरिणामपरिहारपरिणताभेदरत्नत्रयलक्षणनिर्विकल्पसमाधिस्वभावरताः साधव इति दार्टीतः ।
अथोभयकर्म शुद्धनिश्चयेन केवलं बंधहेतुं न केवलं बंधहेतुं प्रतिषेभ्यं चागमेन साधयति
आत्मख्याति:-यथा खलु कुशलः कश्चिद्वनहस्ती स्वस्य बंधाय उपसर्पन्तीं चटुलमुखीं मनोरमा ममनोरमां वा करेणुकुट्टिनी तत्त्वतः कुत्सितशीला विज्ञाय तया सह रागसंसर्गों प्रतिषेधयति । तथा किलात्माऽरागो ज्ञानी स्वस्य बंधाय उपसर्पती मनोरमाममनोरमां वा सर्वामपि कर्मप्रकृति तत्त्वतः कुत्सितशीलां विज्ञाय तया सह रागसंसर्गौ प्रतिषेधयति ॥ अथोभयकर्महेतुं प्रतिषेध्यं चागमेन साधयति--
रत्तो बंधदि कम्मं मुंबदि जीवो विरागसपण्णो । एसो जिणोवदेसो तमा कम्मेसु मारजः ॥ १० ॥
रक्तो बनाति कर्म मुच्यते जीवो विरागसम्पन्नः ।
एष जिनोपदेशः तस्मात् कर्मसु मारण्यस्व । १६० । तात्पर्यवृत्तिः रत्तो बंधदि कम्मं मुंचदि जीवो विरागसंपण्णो यस्मात् कारणात् रक्तः स कर्माणि: बनाति। मुच्यते जीवः कर्मजनितभावेषु विरागसंपन्नः एसो जिणोवदेसो तह्मा कस्मेसुमारज्ज एष प्रत्यक्षीभूतो जिनोपदेशः कर्ता, किं करोति ! उभयं कर्म बंधहेतुंन केवलं बंधहेतुं प्रतिषेध्यं हेयंच कथयति तस्मात्कारणतां