________________
समयप्राभृतं । शुभाशुभसंकल्पविकल्परहितत्वेन स्वकीयशुद्धात्मभावनोत्पन्ननिर्विकारसुखामृतरसस्वादेन तृप्तीभूत्वा शुभाशुभ कर्मणि मा रज्यस्व रागं मा कुर्विति । एवं यद्यप्यनुपचरितासद्भूतव्यवहारेण द्रव्यपुण्यपापयोर्भेदोऽस्ति अशुद्ध निश्चयेन पुनस्तद्वयजनितेंद्रियसुखदुःखयोर्मेदोऽस्ति तथापि शुद्धनिश्चयतयेन नास्ति इति व्याख्यानमुख्य त्वेन गाथाषट्कं गतं । अथ विशुद्धज्ञानशब्दवाच्यं परमात्मानं मोक्षकारणं कथयति ।
___ आत्मख्याति:-य: खलु रक्तोऽवश्यमेव कर्म वनीयात् विरक्त एव मुच्येतेत्ययमागमः स सामान्येन रक्तवनिमित्तत्वाच्छुभमशुभमुभयकर्माविशेषेण बंधहेतुं साधयति तदुभयमपि कर्म प्रतिषेधयति ।
कर्म सर्वमपि सर्वविदो यधुंधसाधनमुशन्त्यविशेषात् । तेन सर्वमपि तत्प्रतिषिद्धं ज्ञानमेव विहितं शिवहेतुः । १०४॥ निषिद्धे सर्वस्मिन् सुकृतदुरिते कर्मणि किल प्रवृत्ते नैष्कर्म्य न खलु मुनयः सत्यशरणाः ।
तदा ज्ञाने ज्ञानं प्रतिचरितमेषां हि शरणं स्वयं विन्दन्त्येते परमममृतं तत्र निरताः ॥ ५ ॥ अथ ज्ञानहेतुं साध्यति
परमहो खलु समओ सुद्धो जो केवली मुणी णाणी। तमिहिदा सभावे मुणिणो पावंति णिवाणं ॥ १६१ ॥
परमार्थः खलु समयः शुद्धो यः केवली मुनिर्ज्ञानी ।
तस्मिन् स्थिताः स्वभावे मुनिनः प्राप्नुवंति निर्वाणं । १६९ । तात्पर्यवृत्तिः-परमहो खलु समओ उत्कृष्टार्थः परमार्थः स कः ? परमात्मा अथवा धर्मार्थकाममोक्षलक्षणेषु परमार्थेषु परम उत्कृष्टो मोक्षलक्षणार्थः परमार्थः सोऽपि स एव । अथवा मतिश्रुतावधिमनःपर्यय केवलज्ञानभेदरहितत्वेन निश्चयेनैकः परमार्थः सोऽपि परमात्मैव खलु स्फुटं समओ सम्यगयति गच्छति शुद्धगु
पर्यायान् परिणमतीति समयः । अथवा सम्यगयःसंशयादिरहितो बोधो ज्ञानं यस्य भवतिस समयः। अथवासमि त्यकत्वेन परमसमरसीभावेन स्वकीयशुद्धस्वरूपे अयनं गमनं परिणमनं समयः सोऽपि स एव शुद्धो रागादिभाव कर्मरहितो यः । सोऽपि सएव केवली परद्रव्यरहितत्वेनासहायः केवली सोऽपि स एव मुणी मुनिः । प्रत्यक्षज्ञानी । सोऽपि परमात्मैव । तमिंद्विदा सहावे मुणिणो पावंति णिव्वाणं । तस्मिन् परमात्मस्वभावे स्थिता वीतरागस्वसंवेदनज्ञानरता मुनयस्तपोधना निर्वाणं प्राप्नुवंति लभंत इत्यर्थः ॥
अथ तास्मन्नेव परमात्मनि स्वसंवेदनज्ञानरहितानां व्रततपश्चरणादिकं पुण्यबंधकारणमेवेति प्रतिपादयति
आत्मख्यातिः–ज्ञानं मोक्षहेतुः, ज्ञानस्य शुभाशुभकर्मणोरबंधहेतुत्वे सति मोक्षहेतुत्वस्य तथोपपत्तेः तत्तु सकलकर्मादिजात्यंतरविविक्तविजातिमात्रः परमार्थ आत्मेति यावत् स तु युगपदेकीभावप्रवृत्तज्ञानगमन तया समयः। सकलनयपक्षासकीर्णैकज्ञानतया शुद्धः । केवलचिन्मात्रवस्तुतया केवली। मननमात्रभावमात्रतया मुनिः स्वयमेवज्ञानतया ज्ञानी । स्वस्य भवनमात्रतया स्वस्वभावः स्वतश्चितो भवनमात्रतया सद्भावो वेति शन्दभेदेऽपि न च वस्तुभेदः । अथ ज्ञानं विध्यापयति
परमम्मिय अठिदो जो कुणदि तवं वदं च धारयदि । तं सव्वं वालतवं वालवदं विति सव्वह्व ॥ १६२ ॥
परमार्थे चास्थितः करोति तपो व्रतं च धारयति । तत्सर्व वालतपो नालव्रत विदंति सर्वज्ञाः ॥१६॥