________________
सयति
सनातनजैनग्रंथमालाया___तात्पर्यवृत्तिः -परमहम्मिय अविदो जो कुणदि तवं वदं च धारयदि तस्मिन्नेव पूर्वसूत्रोक्तपरमार्थलक्षणे परमात्मस्वरूपे अस्थितो सहितो यस्तपश्चरणं करोति व्रतादिकं च धारयति तं सब्बं चालतवं. वाळवदं विंति सबह-तत्सर्व वालतपश्चरणं वालवतं त्रुघंति कथयंति के ते ! सर्वज्ञाः । कस्मात् ! इति चेत् पुण्यपापोदयजनितसमस्तेंद्रियसुखदुःखाधिकारपरिहारपरिणताभेदरत्नत्रयलक्षणेन विशिष्टानंदज्ञानेन रहितस्वात् इति ॥
अथ स्वसंवेदनज्ञानं तथैवाज्ञानं चेति यथाक्रमेण मोक्षबंधहेतू दर्शयति
आत्मख्यातिः-ज्ञानमेव मोक्षस्य कारणं विहितं परमार्थभूतज्ञानशून्यस्याज्ञानकृतयोततपःका मणोः बंधहेतुत्वाद्वालन्यपदेशेन प्रतिषिद्धत्वे सति तस्यैव मोक्षहेतुत्वात् ॥ अथ ज्ञानाज्ञानमोक्षबंधहेतू नियमयति
वदणियमाणिधरता सीलाणि तहा तवं च कुवंता। परमट्टवाहिरा जेण तेण ते होंति अण्णाणी ॥ १६३ ॥
व्रतनियमान् धारयंतः शीलानि तथा तपश्च कुर्वाणा:।
परमार्थबाह्या पेन तेन ते भवन्त्यज्ञानिनः ॥१३॥ तात्पर्यवृत्तिः-बदणियमाणि धरंता सीलाणि तहा तवं च कुव्वंता त्रिगुप्तसमाधिलक्षणा:भेदज्ञानाद् बाह्या ये ते व्रतनियमान् धारयंतः, शीलानि तपश्चरणं च कुर्वाणा अपि मोक्षं न. लभंते. कस्मादितिचेत् परमवाहिरा जेण तेण ते होति अण्णाणी येन कारणेन पूर्वोक्तभेदज्ञानाभावात् परमार्थबाह्याः स्तेन कारणेन ते भवंत्यज्ञानिनः । अज्ञानिनां तु कथं मोक्षः ? ये तु परमसमाधिलक्षणभेदज्ञानसहितास्ते तु व्रतनियमानधारयन्तोऽपि शीलानि तपश्चरणं बाह्यद्रव्यरूपमकुर्वाणा अपि मोक्षं लभते । तदपि कस्मात् ! येन कारणेन पूर्वोक्तभेदज्ञानसभावात् परमार्थादबाह्यास्तेन कारणेन ते च ज्ञानिनो भवंति । ज्ञानिनां तु, मोक्षो भवत्येवेति ।
किंच विस्तरः व्रतनियमशीलबहिरंगतपश्चरणादिकं विनापि यदि मोक्षो भवति । तर्हि संकल्पविकल्परहितानां विषयव्यापारेऽपि पापं नास्ति तपश्चरणाभावेऽपि मोक्षो भवति इति सांख्यशैवमतानुसारिणो. वदन्तीति तेषामेव मतं सिद्धमिति । नैवै निर्विकल्पत्रिगुप्तिसमाधिलक्षणभेदज्ञानसहितानां मोक्षो भवतीति विशेषेण बहुधा भणितं तिष्ठति । एवंभूतभेदज्ञानकाले शुभरूपा ये मनोवचनकायव्यापाराः परंपरया मुक्ति, कारणभूतास्तेऽपि न संति । ये पुनरशुभविषयकवायव्यापाररूपास्ते विशेषेण न संति । न हि चित्तस्थे रागभावे विनष्टे सति बहिरंगविषयव्यापारो दृश्यते । तंदुलस्याभ्यंतरे तुषे गते बहिरंगतुष इव । तदपि कस्मात् इतिचेत् निर्विकल्पसमाधिलक्षणभेदज्ञानविषयकषाययोद्वयोः परस्परं विरुद्धत्वात शीतोष्णवदिति ।।
___ अथ वीतरागसम्यक्त्वरूपां शुद्धात्मभावनां विहाय पुण्यामेवैकां, तेन मुक्तिकारणं ये वदंति तेषां, प्रतिबाधनार्थ पुनरपि दूषणं ददाति
आत्मख्यातिः-ज्ञानमेव माक्षहेतुस्तदभावे स्वयमज्ञानभूतानामज्ञानिनामन्तव्रतनियमशीलतपः प्रभृतिशुभकर्मसद्भावेऽपि मोक्षाभावात् । अज्ञानमेव बंधहेतुः, तदभावे स्वयं ज्ञानभूतानां ज्ञानिनां बहिर्वतनियम शीलतपः प्रभृतिशुभकर्मासद्भावेऽपि मोक्षसद्भावात् ॥
यदेतद्ज्ञानात्मा ध्रुवमचलमाभाति भवनं शिवस्यायं हेतुः स्वयमपि यतस्तच्छिव इति । अतोन्यबंधस्य स्वयमपि यतो बंध इति तत् ततो ज्ञानात्मत्वं भवनमनुभूतिर्हिविहितं ॥ १०६ ॥
अथ पुनरपि पुण्यकर्मपक्षपातिनः प्रतिबोधनायोपक्षिपति१ आत्मख्यातौ तु णिब्वाणं ते ण विंदति इत्यपिपाठः ।