________________
समयप्राभृतं । परमट्टवाहिरा जे ते अण्णाणेण पुण्णमिच्छति । संसारगमणहेदुं विमोक्षहे, अयाणंता ॥ १६४ ॥
परमार्थवाला ये ते अज्ञानेन पुण्यमिच्छति ।
संसारगमनहेतुं विमोक्षहेतुमजानंतः ॥१६॥ तात्पर्यवृतिः-इह हि केचन सकलकर्मक्षयमोक्षमिच्छंतोऽपि निजपरमात्मभावनापरिणताभेदरसत्रयलक्षणं परमसामायिक पूर्व दीक्षाकाले प्रतिज्ञायापि चिदानंदैकस्वभावशुद्धात्मसम्यक्श्रद्धानपरिज्ञानानुष्ठान सामर्थ्याभावात्पूर्वोक्तपरमसामायिकमलभमानाः परमार्थबाह्याः संतः संसारगमनहेतुत्वेन बंधकारणमप्यज्ञानभा वेन कृत्वा पुण्यमिच्छति । किं कुर्वन्तः ? अभेदरत्नत्रयात्मकं मोक्षकारणमजानंतः । अथवा द्वितीयव्याख्यानं बंधहेतुमपि पुण्यं मोक्षहेतुमिच्छंति । किं कुर्वन्तः ? पूर्वोक्तमभेदरत्नत्रयात्मकपरमसामायिकं मोक्षकारणमजानंतः संतः इति । किं च निर्विकल्पसमाधिकाले व्रताव्रतस्य स्वयमेव प्रस्तावो नास्ति । अथवा निश्चयव्रतं तदेवेत्यभिप्रायः।
इति वीतरागसम्यक्त्वरूपां शुद्धात्मोपादेयभावनां विना व्रततपश्चरणादिकं पुण्यकारणमेव भवति तद्भावनासहितं पुनर्बहिरंगसाधकत्वेन परंपरया मुक्तिकारणं चेति व्याख्यानमुख्यत्वेन गाथाचतुष्टयं गतं ।
एवं गाथादशकेन पुण्याधिकारः समाप्तः ॥ अथ सविकल्पत्वात्पराश्रितत्वाच्च निश्चयेन पापाख्यानमुख्यत्वेन, अथवा निश्चयव्यवहारमोक्षमार्गमुख्यत्वेन जीवादीसहहणमित्यादिसूत्रद्वयं । तदनंतरं मोक्षहेतुभूतो योऽसौ सम्यक्त्वादिजीवगुणस्तत्प्रच्छादनमुख्यत्वेन । वत्थस्ससेदभावो इत्यादि गाथात्रयं । ततः परं पापं पुण्यंच बंधकारणमेवेतिमुख्यतया । सोसवणाण इत्यादि सूत्रमेकं । ततश्च मोक्षहेतुभूतो योसौ जीवो गुणी तत्प्रच्छादनमुख्यतया सम्मत्त इत्यादि गाथात्रयमिति समुदायेन सूत्रनवकपर्यंतं तृतीयस्थले व्याख्यानं करोति । तद्यथा
अथ तेषामज्ञानिनां निश्चयमोक्षहेतुं दर्शयति
आत्मख्यानिः-इह खलु केचिन्निखिलकर्मपक्षक्षयसंभावितात्मलाभं मोक्षमभिलषंतोऽपि तद्धेतुभूतं सम्यग्दर्शनज्ञानचारित्रस्वभावपरमार्थभूतज्ञानभवनमात्रमैकाग्यलक्षणं समयसारभूतं सामायिक प्रतिज्ञायापि दुरंतकर्मचक्रोत्तरणक्लीवतया परमार्थभूतज्ञानानुभवनमात्रसामायिकमात्मस्वभावमलभमानाः प्रतिनिवृत्तस्थूल तमसक्केशपरिणामर्मतया प्रवृत्तमानस्थूलतमविशुद्धिपरिणामकर्माणः कर्मानुभवगुरुलाघवप्रतिपत्तिमात्रसंतुष्टचेतसः स्थूललक्ष्यतया सकलं कर्मकांडमनुन्मूलयंतः स्वयमज्ञानादशुभकर्म केवलं बंधहेतुमध्यास्य एवं व्रतनियमशीलतपःप्रभृतिशुभकर्मबंधहेतुमप्यजानंतो मोक्षहेतुमभ्युपगच्छति । अथ परमार्थमोक्षहेतुस्तेषां दर्शयति
जीवादी सद्दहणं सम्मत्तं तसिमधिगमो णाणं । रागादी परिहरणं चरणं एसो दु मोक्खपहो ॥ १६५ ॥
जीवादिश्रद्धानं सम्यग्दर्शनं तेषामधिगमो ज्ञानं ।
रागादिपरिहरणं चाग्निं एष तु मोक्षपथः ॥१५॥ . जीवादीसहहणं सम्मत्तं जीवादिनवपदार्थानां विपरीताभिनिवेशरहितत्वेन श्रद्धानं सम्यग्दर्शनं तेपिमधिगमो णाणं तेषामेव संशयविमोहविभ्रमरहितत्वेनाधिगमो निश्चयः परिज्ञानं सम्यग्ज्ञानं रागादी परिहरणं चरणं तेषामेव संबधित्वेन रागादिपरिहारश्चारित्रं एसोदु मोक्खपहो इत्येव व्यवहारमोक्षमार्गः । अथवा तेषामेव भूतार्थेनाधिगतानां पर्दाथानां शुद्धात्मनः सकाशात् भिन्नत्वेन सम्यगवलोकनं