________________
सनातनजैनग्रंथमालायांनिश्चयसम्यक्त्वं । तेषामेव सम्यकपरिच्छित्तिरूपेण शुद्धात्मनो भिन्नत्वेन निश्चयः सम्यग्ज्ञानं । तेषामेव शुद्धात्मनौ भिन्नत्वेन निश्चयं कृत्वा रागादिविकल्परहितत्वेन स्वशुद्धात्मन्यवस्थानं निश्चयचारित्रमिति निश्चयमोक्षमार्गः । अथ निश्चयमोक्षमागहेतोः शुद्धात्मस्वरूपात् यदन्यच्छुभाशुभमनोवचनकायव्यापाररूपं कर्म तन्मोक्षमार्गो न भवति इति प्रतिपादयति
आत्मरूयाति:-मोक्षहेतुः किल सम्यग्दर्शनज्ञानचारित्रं । तत्र सम्यक्दर्शनं तु जीवादिश्रद्धानस्वभावेन ज्ञानस्य भवनं । जीवादिज्ञानस्वभावेन ज्ञानस्य भवनं ज्ञानं । रागादिपरिहरणस्वभावेन ज्ञानस्य भवनमापातं । ततो ज्ञानमेव परमार्थमोक्षहेतुः । अथपरमार्थमोक्षहेतोरन्यत् कर्म प्रतिषेधयति
मोत्तूण णिच्छयह ववहारे ण विदुसा पवट्ठति । परमट्टमस्सिदाण दु जदीण कम्मक्खओ होदि ॥१६॥
मुक्त्वा निश्चयार्थ व्यवहारे, न विद्वांसः प्रवर्तते ।
परमार्थमाश्रितानां तु यतीनां कर्मक्षयो भवति ॥ १६६ ।। तात्पर्यवृत्तिः-मोत्तूण णिच्छयहं ववहारे निश्चयाथै मुक्त्वा व्यवहारविषये ण विदुसा पपट्ठति विद्वांसो ज्ञानिनो न प्रवर्तते । कस्मात् । परमट्ठमासिदाण दु जदीण फम्मक्खओ होदि सम्यग्दर्शज्ञानचारित्रकाग्यपरिणतिलक्षणं निजशुद्धात्मभावनारूपं परमार्थमाश्रितानां तु यतीनां कर्मक्षयो भवतीति यतः कारणादिति । एवं मोक्षमार्गकथनरूपेण गाथाद्वयं गतं । ___अथ मोक्षहेतुभूतानां सम्यग्दर्शनज्ञान चारित्राणां जीवगुणानां वस्त्रस्य मलेनेव मिथ्यात्वादिकर्मणा प्रतिपक्षभूतेन प्रच्छादनं दर्शयति
आत्मख्याति:-यः खलु परमार्थमोक्षहेतोरतिरिक्तो व्रततपःप्रभृतिशुभकर्मा केषांचिन्मोक्षहेतुः स र्वोऽपि प्रतिषिद्धस्तस्य द्रव्यान्तरस्वभावत्वात् तत्स्वभावेन ज्ञानभवनस्याभवनात् । परमार्थमोक्षहेतोरेवैकद्रव्यखभावत्वात् तत्स्वभावेन ज्ञानभवनस्य भवनात् ।
वृत्तं ज्ञानस्वभावेन ज्ञानस्य भवनं सदा एकद्रव्यस्वभावत्वान्मोक्षहेतुस्तदेव तत् ॥ १०७ ॥ वृत्तं कर्मस्वभावेन ज्ञानस्य भवनं न हि द्रव्यांतरस्वभावत्वान्मोक्षहेतुर्न कर्म तत् ॥ १०८ ॥ मोक्षहेतुतिरोधानाद्वंधत्वात्स्वयमेव च मोक्षहेतुतिरोधायि भावत्वात्तन्निषिध्यते ॥ १०९ ॥ अथ कर्मणो मोक्षहेतुतिरोधानकरणं साधयति
वत्थस्य सेदभावो जह णासेदि मलविमेलणाच्छण्णो । मिच्छत्तमलोच्छण्णं तह सम्मत्तं खु णादव्वं ॥१६७॥ वस्थस्स सेदभावो जह णासेदि मलविमेलणाच्छण्णो । अण्णाणमलोच्छण्णं तह णाणं होदि णादव्वं ॥१६८॥ वत्थस्स सेदभावो जह णासेदि मलविमेलणाच्छण्णो। तह दु कसायाच्छण्णं चारित्तं होदि णादव्वं ।।१६९॥
वस्त्रस्य श्वेतमावो यथा नश्यति मलविमेलनाच्छन्नः । मिथ्यात्वमलावछन्नं तथा च सम्यक्त्वं खलु ज्ञातव्यं ॥ १६७ ।।