________________
समयप्राभृतं । पखस्य वेतभावो यथा नश्यति मलविमेलनाच्छन्नः । अज्ञानपकावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यं ॥ १५८ ॥ पत्रस्य श्वेतभावो यथा नश्यति मलविमेलनाच्छन्नः।
कषायमळावच्छन्नं तथा चारित्रमपि ज्ञातव्यं ।। १६९ ।। तात्पर्यवृत्तिः-वस्त्रस्य श्वेतभावो यथा नश्यति मलविमेलना, मलस्य विशेषेण मेलना संबंधस्तेन छन्नः । तथैव मिथ्यात्वमलेनोच्छन्नो मोक्षहेतुभूतो जीवस्य सम्यक्त्वगुणो नश्यतीति ज्ञातव्यं । वस्त्रस्य श्वेत भावो यथा नश्यति मलविमेलना, मलस्य विशेषेण मेलना संबंधस्तेनच्छन्नः । तथैवाज्ञानमलेनोच्छन्नो मोक्षहेतुभूतो जीवस्य ज्ञानगुणो नश्यतीति ज्ञातव्यं । वस्त्रस्य श्वेतभावो यथा नश्यति मलविमेलना, मलस्य विशेषेण मेलना संबंधस्तेनच्छन्नः । तथा कषायकर्ममलेनोच्छन्नो मोक्षहेतुभूतो जीवस्य चारित्रगुणो नश्य तीति ज्ञातव्यं । इति मोक्षहेतुभूतानां सम्यक्त्वादिगुणानां मिथ्यात्वाज्ञानकषायप्रतिपक्षैः प्रच्छादनकथनरूपेण गाथात्रयं गतं ।
भय कर्म स्वयमेव बंधहेतुं कथं मोक्षकारणं भवतीति कथयति
आत्मख्यातिः-ज्ञानस्य सम्यक्त्वं मोक्षहेतुः स्वभावः, परभावेन मिथ्यात्वनाम्ना कर्ममलेनावच्छन्नत्वात तिरोधीयते । परभावभूतमलावच्छिन्नश्वेतबस्त्रस्वभावभूतश्वेतस्वभाववत् । ज्ञानस्य ज्ञानं मोक्षहेतुः स्वभावः, परभावेनाज्ञाननाम्ना कर्ममलेनावच्छन्नत्वात्तिरोधीयते । परभावभूतमलावच्छन्नश्वेतवस्त्रस्वभावभूतश्वेतस्वभाववत् । ज्ञानस्य चारित्रं मोक्षहेतुः स्वभावः, परभावेन कषायनाम्ना कर्ममलेनावच्छन्नत्वात्तिरोधीयते । परभावभूतमलावच्छिन्नश्वेतवस्त्रस्वभावभूतश्वतस्वभाववत् । अतो मोक्षहेतुतिरोधानकरणात् कर्म प्रतिषिद्धं । अथ कर्मणः स्वयं बंधत्वं साधयति
सो सव्वणाणदरसी कम्मरयेण णियेण उच्छण्णो । संसारसमावण्णो णवि जाणदि सव्वदो सव्वं ॥१७॥
स सर्वज्ञानदर्शी कमरजसा निनावच्छिन्नः ।
संसारसमापन्नो न विजानाति सर्वतः सर्वे ।। १७० ॥ सो सव्वणाणदरसी कम्मरयेण णियेण पच्छण्णो-स शुद्धात्मा निश्चयेन समस्तपरिपूर्णज्ञानदर्शनस्वभावोऽपि निजकर्मरजसोच्छन्नो झंपितःसन् । संसारसमावण्णो णवि माणदि सव्वदो सव्वं । संसारसमापनः, संसारे पतितः सन् नैव जानाति सर्व वस्तु, सर्वतः सर्वप्रकारेण । ततो ज्ञायते कर्म कर्तृजीवस्य स्वयमेव बंधरूपं कथं मोक्षकारणं भवतीति । एवं पापवत्पुण्यं बंधकारणमेवेति कथनरूपेण गाथा गता । अथ पूर्व मोक्षहेतुभूतानां सम्यक्त्वादिजीवगुणानां मिथ्यात्वादिकर्मणा प्रच्छादनं भवतीति कथितं-इदानीं तद्गुणाधारभूतो गुणी जीवो मिथ्यात्वादिकर्मणा प्रच्छाद्यते-इति प्रकटीकरोति
आत्मरूयातिः–यतः यमेव ज्ञानतया विश्वसामान्यविशेषज्ञानशीलमपि ज्ञानमनादिस्थपुरुषापराधप्रवर्तमानकर्ममलावच्छन्नत्वादेव बंधावस्थायां सर्वतः सर्वमप्यात्मानमविजानदज्ञानभावेनैवेदमेवमवतिहते । ततो नियतं स्वयमेव कर्मैव बंधः । अतः स्वयं बंधत्वात्कर्म प्रतिषिद्धं । भथ कर्मणो मोक्षहेतुतिरोधायिभावत्वं दर्शयति
सम्मत्तंपडिणिवद्धं मिच्छत्तं जिणवरे हि परिकहिदं । तस्सोदयेण जीवो मिच्छादिहित्ति, णादव्वो ॥१७१॥ माणस्स पडिणिवद्धं अण्णाणं जिणवरे हि परिकहिदं ।