________________
सनातमजैनग्रंथमालायोतस्सोदयेण जीवो अण्णाणी होदि णादव्वो ॥१७॥ चारित्तपडिणिवद्धं कसायं जिणवरे हि पण्णत्तं । तस्सोदयेणजीवो अच्चरिदो होदि णादवो ॥१७॥
सम्यक्त्वप्रतिनिबद्धं मिथ्यात्वं जिनवरैः परिकथितं । तस्योदयेन जीवो मिथ्यादृष्टिरिति ज्ञातव्यः ॥ १७१ ।। ज्ञानस्य प्रतिनिबद्धं अज्ञानं जिनवरैः परिकथितं । तस्योदयेन जीवोऽज्ञानी भवति ज्ञातव्यः ॥ १७२ ।। चारित्रप्रतिनिबद्धं कषायो जिनवरैः पज्ञप्तः ।
तस्योदयेन जीवोऽचारित्रो भवति ज्ञातम्यः ॥ १७३ ॥ तात्पर्यवत्तिः सम्यक्त्वप्रतिनिबद्धं प्रतिकूलं मिथ्यात्वं भवतीति जिनवरैः परिकथितं तस्योदयेन जीवो मिथ्यादृष्टिर्भवतीति ज्ञातव्यः । ज्ञानस्य प्रतिनिबद्ध प्रतिकूलमज्ञानं भवतीति जिनवरैः परिकथित सस्योदयेन जीवश्चाज्ञानी भवतीति ज्ञातव्यः । चारित्रस्य प्रतिनिबद्धः प्रतिकूल: क्रोधादिकषायो भवतीति जिनवरैः परिकथितः तस्योदयेन जीवोऽचरित्रो भवतीति ज्ञातव्यः । एवं मोक्षहेतुभूतो योऽसौ जीवो गुणी तत्प्रच्छादनकथनमुख्यत्वेन गाथात्रयं गतं । इति सम्यक्त्वादिजीवगुणा मुक्तिकारणं तद्गणपरिणतो वा जीवो मुक्तिकारणं भवति तस्माच्छुद्धजीवाद्भिनं शुभाशुभमनोवचनकायव्यापाररूपं, तद्व्यापारेणोपार्जितं या शुभाशुभकर्म मोक्षकारणं न भवतीति मत्वा हेयं त्याज्यामिति व्याख्यानमुख्यत्वेन गाथानवकं गतं । द्वितीयपातनिकाभिप्रायेण पापाधिकारव्याख्यानमुख्यत्वन गतं । अत्राह शिष्यः । जीवादी सहहणमित्यादि व्यवहाररत्नत्रयव्याख्यानं कृतं तिष्ठति कथं पापाधिकार इति । तत्र परिहारः-~यद्यपि व्यवहारमाक्षमार्गो निश्चयरत्नत्रयस्योपादेयभूतस्य कारणभूतत्वादुपादेयः परंपरया जीवस्य पवित्रताकरणात् पवित्रस्तथापि बहिद्रव्यालंबनत्वेन पराधीनत्वात्पतति नश्यतीत्येकं कारणं । निर्विकल्पसमाधिरतानां व्यवहारविकल्पालंबनेन स्वरूपात्पतितं भवतीति द्वितीयं कारणं । इति निश्चयनयापेक्षया पापं । भथवा सम्यक्त्वादिविपक्षभूतानां मिथ्यात्वादीनां व्याख्यानं कृतमिति वा पापाधिकारः ।
इतिसमयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ स्थलत्रयसमुदायेनैकोनविंशतिगाथाभिश्चतुर्थः पुण्यपापाधिकारः समाप्तः ।
तत्रैव सति व्यवहारनयेन पुण्यपापरूपेण विभेदमपि कर्म निश्चयेन श्रृंगाररहितपात्रवत्पुद्गलरूपेजैकीभूय निष्क्रांतं ॥
आत्मख्याति:-सम्यक्त्वस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकं किल मिथ्यात्वं, तत्तु स्वयं कर्मैव तदुदयादेव ज्ञानस्य मिथ्यादृष्टित्वं । ज्ञानस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकमज्ञानं तत्तु स्वयं कर्मैव तदुदयादेव झानस्याज्ञानत्वं । चारित्रस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकः किल कषायः सतु स्वयं कर्मैव तदुदयादेव झानस्याचारित्रत्वं । अतः स्वयं मोक्षहेतुतिरोधायिभावत्वात्कर्म प्रतिषिद्धं ।
सन्यस्तव्यमिदं समस्तमपि तत्कर्मैव मोक्षार्थिना सन्यस्ते सति तत्र का किल कथा पुण्यस्य पापस्य वा । सम्यक्त्वादिनिजस्वभावभवनान्मोक्षस्य हेतुर्भवन्भेष्कर्म्यप्रतिबद्धमुद्धतरसं ज्ञानं स्वयं धावति ॥१॥ यावत्पाकमुपैति कर्मविरतिर्ज्ञानस्य सम्यङ् न सा कर्मज्ञानसमुच्चयोऽपि विहितस्तावन्न काचित्क्षतिः । किंवत्रापि समुल्लसत्यवशतो यत्कर्म बंधाय तन्मोक्षाय स्थितमेकमेव परमं ज्ञानं विमुक्तं स्वतः ॥२॥ मनाः कर्मनयावलम्बनपरा ज्ञानं न जानंति ये मना ज्ञाननयैषिणोऽपि यदतिस्वच्छंदमंदाधमाः । निशस्योपरि ते तरंति सततं ज्ञानं भवंतः स्वयं ये कुर्वति म कर्म जात न बनं बांति प्रमाटमा - n