________________
समयप्राभृतं । • भेदोन्मादभ्रमरसभरान्नाटयत्पीतमोहं मूलोन्मूलं सकलमपि तत्कर्म कृत्वा वलेन । . हेलोन्मीलत्परमकलया सार्धमारद्धकोल ज्ञानज्योतिः कवलिततमः प्रोज्जजम्भे भरेण ॥ ४ ॥
इति पुण्यपापरूपेण द्विपात्रीभूतमेकपात्रीभूय कर्म निष्क्रांतं ॥ इति समयसारव्याख्यायामात्मख्याती तृतीयोंकः ॥
- तात्पर्यत्तिः -अंथ. प्रविशत्याश्रवः । यत्र सम्यग्भेदभावनापरिणतः कारणसमयसार-.. रूपः सवरो नास्ति तत्राश्रवो भवतीति संवरविपक्षद्वारेण चतुर्दशगाथापर्यंतमाश्रवव्याख्यानं करोति । तत्रादौ भेदज्ञानात्-शुद्धात्मोपलाभो भवति इति संक्षेपव्याख्यानभुख्यत्वेन उवओगे-इत्यादि गाथात्रयं । तदनंतरं भेदज्ञानात्कथं शुद्धात्मोपलाभो भवतीति प्रश्ने परिहाररूपेण जहकणयमाग्गि इत्यादि गाथाद्वयं । ततः परं शुद्धभावनया पुनः शुद्धो भवतीति मुख्यत्वेन सुद्धं तु वियाणंतो इत्यादि गाथैकं । ततः परं केन प्रकारेण संवरों भवतीति पूर्वपक्षे कृते सति परिहारमुख्यतया अप्पाणमप्पणा इत्यादि गाथात्रयं । अथात्मा परोक्षस्तस्य ध्यानं कथं क्रियेतेति पृष्टे सति देवतारूपदृष्टांतेन परोक्षेऽपि ज्ञायत इति परिहाररूपेण उवदेसेण इत्यादि गाथाद्वयं । तदनंतरं, अथोदयप्राप्तप्रत्यामतानां रागाद्यध्यवसानानाम भावे सति जीवगतानां रागादिभावाश्रवाणामभावो भवतीत्यादि संवरक्रमाख्यानमुख्यत्वेन तेसिं हेद इत्यादि गाथात्रयं । एवं संवरविपक्षद्वारेणाश्रवव्याख्याने समुदायपातनिका । तद्यथा प्रथमतस्तावच्छुभाशुभकर्मसंवरस्य परमोपायभूतं निर्विकारस्वसंवेदनज्ञानलक्षणं भेदज्ञानं निरूपयति.
आत्मख्यातिः-अथ प्रविशति संवरः। आसंसारविरोधिसंवरजयैकांतावलिप्तास्रवः न्यक्कारात्प्रतिलब्धनित्यविजयं संपादयत्संवरं। न्यावृत्तं पररूपतो नियमितं सम्यक् स्वरूपे स्फुरज्ज्योतिश्चिन्मयमुज्वलं निजरसप्रारभारमुज्मृम्भते १ तत्रादावेव सकलकर्मसंवरणस्य परमोपायभेदविज्ञानमभिनंदतिः
उवओगे उवओगो कोहादिसु णत्थि कोवि उवयोगो । कोहे कोहो चेव हि उवओगे णस्थि खलु कोहो ॥१७॥ अठवियप्पे कम्मे णोकम्मे चावि णत्थि उवओगो । उवओगलिय कम्मे णोकम्मे चावि णो अत्थि ॥१७५॥ एदं तु अविवरीदं गाणं जइया दु होदि जीवस्स । तइया ण किंचि कुवदि भाव उवओगसुद्धप्पा ॥१७६।।
उपयोगे उपयोगः क्रोधादिषु नास्ति कोप्युपयोगः । क्रोधे क्रोधश्चैव हि उपयोगे नास्ति खलु क्रोधः ॥१७॥ अष्टविकल्पे कर्मणि नोकमणि चापि नास्त्युपयोगः । उपयोगेऽपि च कर्म नोकर्म चापि नो अस्ति ॥१७५|| एतत्वविपरीतं ज्ञानं यदा भवति जीवस्य ।
न किंचित्करोति भावमुपयोगशुद्धात्मा ॥१७६।। + यासां खलु गाथानां समुल्लेखः, आत्मख्यातिकारैः संवरप्रकरणे कृतस्तासामेव तात्पर्यवृत्तिकारैः, आस्रवप्रकरण, तत्र संवरप्रतिपक्ष आस्रवइति संवरत्यागपक्षं मुख्यतया कुक्षीकृत्य तात्पर्यवृत्ती संवरस्थाने अखबः आस्वस्थाने च संबर इति विज्ञेयं । २ गाथामेकामित्यपि क. पुस्तके पाठ