________________
८२
समातनजैनग्रंथमालायां
विकल्पकः परं कर्ता विकल्पः कर्म केवलं ।
न जातु कर्तृकर्मत्वं सविकल्पस्य नश्यति । ९६ ।
यः करोति स करोति केवलं यस्तु वेत्ति स तु वेत्ति केवलं ।
यः करोति न हि वेत्तिस क्वचित् यस्तु वेत्ति न करोति स कचित् ॥९७॥
ज्ञप्तिः करोतौ न हि भासतेंतः ज्ञप्तौ करोतिश्च न भासतेंतः ।
ज्ञप्तिः करोतिश्च ततो विभिन्ने ज्ञाता न कर्तेति ततः स्थितं च । ९८ ।
कर्ता कर्मणि नास्ति नास्ति नियतं कर्मापि तत्कर्तरि द्वंद्वं विप्रतिषिध्यते यदि तदा का कर्तृकर्मस्थितिः । ज्ञाता ज्ञातरि कर्म कर्माणि सदा व्यक्तेति वस्तुस्थितिर्नेपथ्ये वत नानटीति रभसा मोहस्तथाप्येष किं । ९९| अथवा नानाव्यतां तथापि
कर्ता कर्ता भवति न यथा कर्म कर्मापि नैव ज्ञानं ज्ञानं भवति च यथा पुद्गलः पुद्गलोपि । ज्ञानज्योतिर्ज्वलितमचलं व्यक्तमंतस्तथेोच्चैश्चिच्छक्तीतां निकरभरतोऽत्यंतगंभीरभेतत् ॥१००॥ इति जीवाजीवौ कर्तृकर्मवेषविमुक्तौ निष्क्रांतौ । इति समयसारव्याख्यायामात्मख्यातौ द्वितीयोऽकः ।
तात्पर्यवृत्तिः - अथानंतरं निश्चयेनैकमपि पुद्गलकर्म व्यवहारेण द्विपदीभूतपुण्यपापरूपेण प्रविशति कम्ममसुहं कुसीलं इत्यादि गाथामादिं कृत्वा क्रमेणैकोनविंशतिसूत्रपर्यंतं पुण्यपापव्याख्यानं करोति । तत्र यद्यपि पुण्यपापयोर्व्यवहारेण भेदोऽस्ति तथापि निश्चयेन नास्ति इति व्याख्यानमुख्यत्वेन सूत्रषट्कं तदनंतरमध्यात्मभाषायाः शुद्धात्मभावनां विना आगमभाषया तु वीतरागसम्यक्त्वं विना व्रतदानादिकं पुण्यबंधकारणमेव नच मुक्तिकारणं । सम्यक्त्वसहितं पुन: परंपरया मुक्तिकारणं च भवति इति मुख्यतया परमहो खलु, इत्यादिसूत्रचतुष्टयं । ततः परं निश्चयव्यवहारमोक्षमार्गमुख्यत्वेन जीवादी सद्दहणं, इत्यादिगाथानवमं कथयतीति पुण्यपापपदार्थाधिकारसमुदायपातनिका । तद्यथा ब्राम्हण्याः पुत्रद्वयं जातं तत्रैक उपनयनवशाद्ब्राम्हणो जातः द्वितीयः पुनरुपनयनाभावाच्छूद्र इति । तथैकमपि निश्चयनयेन पुद्गलकर्म शुभाशुभ जीवपरिणामनिमित्तेन व्यवहारेण द्विधा भवतीति कथयति ।
आत्मख्यातिः - अथैकमेव कर्म द्विपात्रीभूय पुण्यपापरूपेण प्रविशति - तदथ कर्म शुभाशुभभेदतो द्वितयतां गतमैक्यमुपानयन् । ग्लपितनिर्भरमोहरजा अयं स्वयमुदेत्यवबोध सुधाप्लवः । १०१ ।
को दूरात्यजति मदिरां ब्राम्हणत्वाभिमानादन्यः शूद्रः स्वयमहमिति स्नाति नित्यं तयैव । द्वावप्येतौ युगपदुदरान्निर्गतौ शूद्रिकायाः शूद्रा साक्षादथ च चरतो जातिभेदभ्रमेण ॥ १०२ ॥ कम्ममसुहं कुसीलं सुहकम्मं चावि जाण सुहसीलं । किह तं होदि सुसीलं जं संसारं पवेसेदि ॥ १५५॥
कर्माशुभं कुशीलं शुभकर्म चापि जानीत सुशलिं । कथं तद्भवति सुशीलं यत्संसारं प्रवेशयति ।। १५५ ।।
तात्पर्यवृत्तिः – कम्मममुहं कुमीलं सुहकम्मं चावि जाण मुहमीलं कर्माशुभं कुत्सितं
-
कुशीलं हेयमिति । शुभकर्म सुशीलं शोभनमुपादेयमिति केषां चिद्व्यवहारिणां पक्षः सन् निश्चयरूपेण पक्षांतरेण बाध्यते । कि तं होदि सुसीलं जं संसारं पत्रे सेदि निश्चयवादी ब्रूते कथं तत्पुण्यकर्म सुशीलं
1
१ रागादिरूपचिक्कणतायां २ मिथ्यात्वाद्यशुद्धपरिणामपरिणत जीवः ३ ज्ञानाववणादिपुद्रपिंडे