________________
समयप्राभूतं ।
४९
जीवगुणे कर्म च तथैवानंतज्ञानादिजीवगुणान्न करोति अण्णोष्णनिमित्तेण दु परिणामं जाण दोहपि यप्युपादानरूपेण न करोति तथाप्यन्योन्यनिमित्तेन घटकुंभकारयोरिव परिणामं जानीहि द्वयोरपि जीवपुद्गलयोरिति । अथ - एदेण कारणेण दु कत्ता आदा सएण भाषेण एतेन कारणेन पूर्व सूत्रद्वयव्याख्यानरूपेण तु निर्मलात्मानुभूतिलक्षणपरिणामेन शुद्धोपादानकारणभूतेनाव्यावाधानंतसुखादिशुद्धभावानां कर्ता । तद्विलक्षणेनाशुद्धोपादानकारणभूतेन रागाद्यशुद्धभावानां कर्ता भवत्यात्मा । कथं । यथा मृत्तिकाकलशस्वेति पुग्गलकम्पकदाणं ण दु कत्ता सव्वभावाणं पुद्गलकर्मकृतानां न तु कर्ता सर्वभावानां ज्ञानावरणादिपुद्गलकर्मपर्यायाणामिति । एवं जीवपुद्गलपरस्परनिमित्तकारणव्याख्यानमुख्यत्वेन गाथात्रयं गतं । अथ तत एतदायाति - जीव स्वपरिणामैरेव सह निश्चयनयेन कर्तृकर्मभावो भोक्तृभोग्य भाषश्च भवति ।
आत्मख्यातिः - यतो जीबपरिणामं निमित्तीकृत्य पुद्गलाः कर्मत्वेन परिणमंति पुद्गलकर्मनिमित्तीकृत्य जीवोपि परिणमतीति जीवपुद्गलपरिणामयोरितरेतरहेतुत्वोपन्यासेपि जीवपुद्गलयोः परस्परं व्याप्य व्यापकभावाभावाज्जीवस्य पुद्गलपरिणामानां पुद्गलकर्मणोपि जीवपरिणामानां कर्तृकर्मत्वासिद्धौ निमित्तनैमित्तकभावमात्रस्याप्रतिषिद्धत्वादितरेतरनिमित्तमात्रीभवनेनैव द्वयोरपि परिणामः । ततः कारणान्मृत्तिकया' कलशस्येव स्वन भावेन स्वस्य भावस्थ करणाज्जीवः स्वभावस्य कर्त्ता कदाचित्स्यात् । मृत्तिकया वसनस्येव स्वेन भावेन परभावस्य कर्तुमशक्यात्वात्पुद्गलभावानां तु कर्ता न कदाचिदपि स्यादिति निश्चयः । ततः स्थितमेतज्जीवस्य स्वपरिणामैरेव सह कर्तृकर्मभावो भोक्तृभोग्यभावश्च ।
णिच्छयणयस्य एवं आदा अप्पाणमेव हि करेदि । वेदयदि पुणो तं चैव जाण अत्ता टू अत्ताणं ॥ ८९ ॥ निश्चयन यस्यैवमात्मात्मानमेव हि करोति ।
वेदयते पुमस्तं चैव जानीहि आत्मा त्वात्मानं ॥ ८९ ॥
तात्पर्यवृत्तिः - णिच्छयणयस्य एवं आदा अप्पाणमेव हि करेदि यथा यद्यपि समीरो निमित्तं भवति तथापि निश्चयनयेन पारावार एव कल्लोलान् करोति परिणमति । एवं यद्यपि द्रव्य - कर्मोदयसद्भावासद्भावात् शुद्धाशुद्धभावयोर्निमित्तं भवति तथापि निश्चयेन निर्विकारपरमस्वसंवेदनज्ञानपरिणतः केवलज्ञानादिशुद्धभावात् तथैवाशुद्धपरिणतस्तु सांसारिकसुखदुःखाद्यशुद्धभावांश्चोपादानरूपेणास्मैव करोति । अत्र परिणामानां परिणमनमेव कर्तृत्वं ज्ञातव्यमिति न केवलं करोति वेदयदि पुणो तं चैव जाण अत्ता दुत्ताणं वेदयत्यनुभवति भुंक्ते परिणमति पुनश्च स्वशुद्धात्मभावनोत्थसुखरूपेण शुद्धोपादानेन तदेव शुद्धात्मानमशुद्धोपादानेनाशुद्धात्मानं च । स कः कर्ता ? आत्मेति जानीहि । एवं निश्चयकर्तृत्वभोक्तृत्वव्याख्यानरूपेण गाथा गता । अथ लोकव्यवहारं दर्शयति ।
आत्मख्यातिः — यथोत्तरंगनिस्तरंगावस्थयोः समीरसंचरणासंचरण निमित्तयोरपि समीरपारावारयो र्व्याप्यव्यापकभावाभावात्कर्तृकर्मत्वासिद्धौ पारावार एव स्वयमंतर्व्यापको भूत्यादिमध्यांतेषूत्तरंगनिस्तरंगावस्थे व्याप्योत्तरंगं निस्तरंगं त्वात्मानं कुर्वन्नात्मानमेकमेव कुर्बन् प्रतिभाति न पुनरन्यत् । यथा स एष व भाव्यभावकभावाभावात्परभावस्य परेणानुभवितुमशक्यत्वादुत्तरंगं निस्तरंगं त्वात्मानमनुभवन्नात्मानमेकमेवानुभवन् प्रतिभाति न पुनरन्यत् । तथा संसारनिः संसारावस्थयोः पुद्गलकर्मविपाकसंभवासंभवनिमित्तयोरपि पुद्गलकर्मजीवयोव्र्व्याप्यव्यापकभावाभावात्कर्तृकर्मत्वासिद्धौ जीव एव स्वयमंतर्व्यापको भूत्वादिमध्यांतेषु ससंसारनिःसंसारावस्थे व्याप्य ससंसारं निःसंसारं वात्मानं कुर्वन्नात्मानमेकमेव कुर्वन् प्रतिभातु मा पुनरन्यत् । तथायमेव च भाव्यभावकभावाभावात् परभावस्य परेणानुभवितुमशक्यत्वात्ससंसारं निःसंसारं वात्मानमनुभवन्नात्मानमेकमेवानुभवन्प्रतिभातु मा पुनरन्यत् । अथ व्यवहारं दर्शयति ।