________________
सनातनजैनग्रंथमालायांववहारस्स दु आदा पुग्गलकम्मं करेदि अणेयविहं । तं चेव य वेदयदे पुग्गलकम्मं अणेयविहं ॥९॥
व्यवहारस्य त्वात्मा पुद्गलकर्म करोति नैकविधं ।
बच्चेव पुनर्वेदयते पुद्गलकर्मानेकविधं ॥१०॥ तात्पर्यवृत्तिः-ववहारस्स दु आदा पुग्गलकम्मं करोदि अणेयविहं यथा लोके यद्यपि मृत्पिंड उपादानकारणं तथापि कुंभकारो घटं करोति तत्फलं च जलधारणमूल्यादिकं भुंक्त इति लोकानामनादिरूढोस्ति व्यवहारः । तथा यद्यपि कर्मवर्गणायोग्यपुद्गलद्रव्यमुपादनकारणभूतं तथापि व्यवहारनयस्याभिप्रायेणात्मा पुद्गलकर्मानेकविधं मूलोत्तरप्रकृतिभेदभिन्नं करोति तं चेव य वेदयदे पुग्गलकम्म अणेयविहं तथैव च तमेवोदयागतं पुद्गलकर्मानेकविधं इष्टानिष्टपंचेद्रियविषयरूपेण वेदयति अनुभवति इत्यज्ञानिमा निर्विषयशुद्धात्मोपलंभसंजातसुखामृतरसास्वादरहितानामनादिरूढोस्ति व्यवहारः । एवं व्यवहारेण सुखदुःखकर्तृत्वभोक्तृत्वकथनमुख्यतया गाथा गता । इति ज्ञानिजीवस्य विशेषव्याख्यानरूपेणैकादशगाथाभिद्वितीयांतराधिकारो व्याख्यातः । .
___ अतः परं पंचविंशतिगाथापर्यंतं द्विक्रियावादिनिराकरणरूपेण व्याख्यानं करोति । तत्र चेतनाचेतनयोरेकोपादनकर्तृत्वं द्विक्रियाचादित्वमुच्यते तस्य संक्षेपव्याख्यानरूपेण जदिपुग्गलकम्ममिणं इत्यादि गाथाद्वयं भवति । तद्विवरणद्वादशगाथासु मध्ये पुग्गलकम्माणिमित्तं इत्यादिगाथाक्रमेण प्रथमगाथाषदं स्वतंत्रं । तदनंतरमज्ञानिज्ञानिजीवकर्तृत्वाकर्तृत्वमुख्यतया परमप्पाणं कुम्वी इत्यादिद्वितीयषदं । अतः परं तस्यैव द्विक्रियावादिनः पुनरपि विशेषव्याख्यानार्थमुपसंहाररूपेणैकादशगाथा भवंति । तत्रैकादशगाथासु मध्ये व्यवहारनयमुख्यत्वेन ववहारस्स दु इत्यादि गाथात्रयं । तदनंतरं निश्चयनयमुख्यतया जो पुग्गलदव्वाणं इत्यादिसूत्रचतुष्टयं । ततश्च द्रव्यकर्मणामुपचारकर्तृत्वमुख्यत्वेन जीवं हि हेदुभूदे इत्यादिसूत्रचतुष्टयमिति समुदायेन पंचविंशतिगाथाभिस्तृतीयस्थले समुदायपातनिका । तद्यथा-अथेदं पूर्वोक्तं कर्मकर्तृत्वभोक्तृत्वनयविभागव्याख्यानं कर्मतापन्नमनेकांतेन सम्मतमप्येकांतनयेन मन्यते । किं मन्यते भावकमवन्निश्चयेन द्रव्यकापि करोतीति चेतनाचेतनकार्ययोरेकोपादानकर्तृत्वलक्षणं द्विक्रियावादित्वं स्यात् । तान् द्विक्रियावादिनो दूषयति ।
आत्मख्यातिः-यथांताप्यव्यापकभावेन मृत्तिकया कलशे क्रियमाणे भाव्यभावकभावेन मृत्तिकयैवानुभूयमाने च बहियाप्यव्यापकभावेन कलशसंभवानुकूलं व्यापारं कुर्वाणः कलशकृततोयोपयोगजां तृप्तिं भाव्यभावकभावनानुभवंश्च कुलाल: कलशं करोत्यनुभवति चेति लोकानामनादिरूढोस्ति तावव्यवहारः, तथांताप्यव्यापकभावेन पुद्गलद्रव्येण कर्माण क्रियमाणे भाव्यभावकभावेन पुद्गलद्रव्येणैवानुभूयमाने च बहिप्प्यव्यापकभावेनाज्ञानात्पुद्गलकर्मसंभवानुकूलं परिणामं कुर्वाणः पुद्गलकर्मविपाकसंपादितविषयसन्निधिप्रधावितां सुखदुःखपरिणतिं भाव्यभावकभावेनानुभवंश्च जीवः पुद्गलकर्मकरोत्यनुभवति चेत्यज्ञानिनामासंसारप्रसिद्धोस्ति तावद्व्यवहारः । अथैनं दूषयति ।
जदि पुग्गलकम्ममिणं कुव्वदि तं चेव वेदयदि आदा । दो किरियावादित्तं पसजदि सम्मं जिणावमदं ॥९१॥
यदि पुद्गलकर्मेदं करोति तच्चैव वेदयते आत्मा।
द्विक्रियाव्यतिरिक्तः प्रसजति स जिनावमतं ॥९॥ तात्पर्यवृत्तिः-जदि पुग्गलकम्मामिणं कुव्वदिलं चेव वेदयदि आदा यदि चेपुद्गलकर्मोदयमुपादवरूपेण करोति तदेव च पुनरुपादानरूपेण वेदयत्यनुभवत्यात्मा दोकिरियावादित्तं पसजदि