________________
समयप्राभृतं । तदा चेतनाचेतनक्रियाद्वयस्योपादानकर्तृत्वरूपेण द्विक्रियावादित्वं प्रसजति प्राप्नोति । अथवा दो किरियाविदिरित्तो सजदि सो तत्र पाठांतरे द्वाभ्यां चेतनाचेतनक्रियाभ्यामव्यतिरिक्तोऽभिन्नः प्रसजति प्राप्नोति स पुरुषः । सम्मं जिणावमदं तच्च व्याख्यानं जिनानां सम्यगसंमतं । यश्चेदं व्याख्यानं मन्यते स निजशुद्धात्मापादयरुचिरूपं निर्विकारचिच्चमत्कारमात्रलक्षणं शुद्धोपादानकारणोत्पन्नं निश्चयसम्यक्त्वमलभ-- मानो मिथ्यादृष्टिर्भवतीति । अथ कुतो द्विक्रियावादी मिथ्यादृष्टिर्भवतीति प्रश्ने प्रत्युत्तरं प्रयच्छंतस्तमेवार्थ प्रकारांतरेण दृढयति ।
आत्मख्यातिः-इह खलु क्रिया हि तावदखिलापि परिणामलक्षणतया न नाम परिणामतोस्ति भिन्ना, परिणामोपि परिणामपरिणामिनोरभिन्नवस्तुत्वात्परिणामिनो न भिन्नस्ततो या काचन क्रिया किल सकलापि सा क्रियावतो न भिन्नेति क्रियाक!रव्यतिरिक्ततायां वस्तुस्थित्या प्रतपत्यां यथा व्याप्यव्यापकभावेन स्वपरिणामं करोति, भाव्यभावकभावेन तमेवानुभवति च जीवस्तथा व्याप्यव्यापकभावेन पुद्गलकर्मापि यदि कुर्यात् भाव्यभावकभावेन तदेवानुभवेच्च ततो यं स्वपरसमवेतक्रियाद्वयाव्यतिरिक्ततायां प्रसजंत्यां स्वपरयोः परस्परविभागप्रत्यस्तमनादनेकात्मकमेकमात्मानमनुभवन्मिध्यादृष्टितया सर्वज्ञावमतः स्यात् । कुतो द्विक्रियानुभावी मिथ्यादृष्टिरिति चेत् ।
जमा दु अत्तभावं पुग्गलभावं च दोवि कुवंति । तेण दु मिच्छादिठ्ठी दोकिरियावादिणो हुँति ॥१२॥ यस्मात्त्वात्मभावं पुद्गलभावं च द्वावपि कुर्वति ।
सेन तु मिथ्यादृष्टयो द्विक्रियावादिनो भवति ॥१२॥ तात्पर्यवृत्तिः-जह्मा दु अत्तभावं पुग्गलभावं च दोवि कुव्यंति यस्मादात्मभावं चिद्रूपं पुद्गलभावं चाचेतनं जडस्वरूपं द्वयमप्युपादानरूपेण कुर्वति तेण दु मिच्छादिछी दोकिरियादिणो हति ततस्तेन कारणेन चेतनाचेतनक्रियाद्वयवादिनः पुरुषा मिथ्यादृष्टयो भवंतीति । तथाहि—यथा कुंभकारः स्वकीयपरिणाममुपादानरूपेण करोति तथा घटमपि यद्युपादानरूपेण करोति तदा कुंभकारस्याचेतनत्वं घटरूपत्वं प्राप्नोति । घटस्य वा चेतनकुंभकाररूपत्वं प्राप्नोतीति । तथा जीवोपि. यापादानरूपेश पुद्गलद्रव्यकर्म करोति तदा जीवस्याचेतनपुद्गलद्रव्यत्वं प्राप्नोति । पुद्गलकर्मणो वा चिद्रूपं जीवत्वं प्राप्नोति । किं च शुभाशुभं कर्म कुर्वेहमिति महाहंकाररूपं तमो मिथ्याज्ञानिनां न नश्यति तर्हि केषां मश्यतीति चेत् विषयसुखानुभवानंदवर्जिते वीतरागस्वसंवेदनवेद्ये भूतार्थनयेनैकत्वव्यवस्थापिते चिदानंदैकस्वभावे शुद्धपरमात्मद्रव्ये स्थितानामेव समस्तशुभाशुभपरभावशून्येन निर्विकल्पसमाधिलक्षणेन शुद्धोपयोगभावनाबलेन सज्ञानिनामेव विलयं विनाशं गच्छति । तस्मिन्महाहंकारविकल्पजाले नष्ट सति पुनरपि बंधो न भवतीति, ज्ञात्वा बहिर्द्रव्यविषये इदं करोमि इदं न करोमीति दुराग्रहं त्यक्त्वा रागादिविकल्पजालशून्ये पूर्णकलशवच्चिदानंदैकस्वभावेन भरितावस्थे स्वकीयपरमात्मनि निरंतरं भावना कर्त्तव्येति भावार्थः । इति द्विक्रियावादिसंक्षेपव्याख्यानमुख्यत्वेन गाथाद्वयं गतं । अथ तस्यैव विशेषव्याख्यानं करोति ।
आत्मख्याति:-यतः किलात्मपरिणामं पुद्गलपरिणामं च कुर्वतमात्मानं मन्यते द्विक्रियावादिनस्ततस्ते मिथ्यादृष्टय एवेति सिद्धांतः । भावैकद्रव्येण द्रव्यद्वयपरिणामः क्रियमाणः प्रतिभातु । यथा किल कुलाल: कलशसंभवानुकूलमात्मव्यापारपरिणाममात्मनो व्यतिरिक्तमात्मनोऽव्यतिरिक्ततया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभाति न पुनः कलशकारणाहंकारनिर्भरोपि स्वव्यापारानुरूपं मृत्तिकायाः कलशपरिणामं मृत्तिकायाः अव्यतिरिक्तमृत्तिकायाः अव्यतिरिक्ततया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभाति । तथात्मापि पुद्गलकर्मपरिणामानुकूलमज्ञानादात्मपरिणाममात्मनोऽव्यतिरिक्तमात्मनो