________________
५२
सनातन जनप्रथमालायां
व्यतिरिक्ततया परिणतिमाश्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभातु मा पुनः पुलपरिणामकरणाहंकारनिर्भरोपि स्वपरिणामानुरूपं पुद्गलस्य परिणामं पुद्गलादव्यतिरिक्तं पुद्गलादव्यतिरिक्तया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभातु ।
यः परिणमति स कर्ता यः परिणामो भवेत्तु तत्कर्म । या परिणतिः क्रिया सा त्रयमपि भिन्नं न वस्तुतया ॥ ५१ ॥ एकः परिणमति सदा परिणामो जायते सदैकस्य । एकस्य परिणतिः स्यादनेकमप्येकमेव यतः ॥५२॥ नोभौ परिणमतः खलु परिणामो नोभयोः प्रजायेत । उभयोर्न परिणतिः स्याद्यदनेकमनेकमेव सदा ॥५३॥ नैकस्य हि कर्तारौ द्वौ स्तो द्वे कर्मणी न चैकस्य । नैकस्य च क्रिये द्वे एकमनेकं यतो न स्यात् ॥ ५४ ॥
आसंसारत एव धावति परं कुर्वेहमित्युच्चकैः दुर्वारं ननु मोहिनामिह महाहंकाररूपं तमः । तद्भूतार्थपरिग्रहेण विलयं यद्येकवारं व्रजेत् तत्किं ज्ञानघनस्य बंधनमहो भूयो भवेदात्मनः ||१५|| आत्मभावान्करोत्यात्मा परभावान्सदा परः । आत्मैव ह्यात्मनो भावाः परस्य पर एव ते ॥५६॥
पुग्गलकम्मणिमित्तं जह आदा कुणदि अप्पणो भावं । पुग्गलकम्मणिमित्तं तह वेददि अप्पणी भावं ॥ ९३॥ पुद्गलकर्मनिमितं यथात्मा करोति आत्मनः भावं । पुद्गलकर्मनिमित्तं तथा वेदयति आत्मनो भावं ||९३||
तात्पर्यवृत्तिः– पुगलकम्मणिमित्तं जह आदा कुणदि अप्पणी भावं उदयागतं द्रव्यकर्मनिमित्तं कृत्वा यथात्मा निर्विकारस्वसंवित्तिपरिणामशून्यः सन्करोत्यात्मनः संबंधिनं सुखदुःखादिभावं परिणामं पुग्गलकम्मणिमित्तं तह वेददि अप्पणी भावं तथैवोदयागतद्रव्यकर्मनिमित्तं लब्ध्वा स्वशुद्धात्मभावनोत्थवास्तवसुखास्वादमवेदयन्सन् तमेव कर्मोदयजनितस्वकीयरागादिभावं वेदयत्यनुभवति । न च द्रव्यकर्मरूपपर भावमित्यभिप्रायः । अथ चिद्रूपानात्मभावानात्मा करोति तथैषाचिद्रूपान् द्रव्यकर्मादिपरभावान् परः पुद्गलः करोतीत्याख्याति ।
मिच्छत्तं पुण दुविहं जीवमजीवं तहेव अण्णाणं । अविरदि जोगो मोहो कोधादीया इमे भावा ॥ ९४ ॥
मिथ्यात्वं पुनर्द्विविधं जीवोऽजीवस्तथैवाज्ञानं ।
अविरतियोगो मोहः क्रोधाद्या इमे भावाः ॥९४॥
तात्पर्यवृत्तिः– मिच्छत्तं पुण दुत्रिहं जीवमजीवं मिथ्यात्वं पुनर्द्विविधं जीवस्वभावमर्जीवस्यभावं व तहेव अण्णाणं अविरदि जोगो मोहो कोधादीया इमे भावा तथैव चाज्ञानमविरतिर्योगो मोहः क्रोधादयोऽमीभावाः पर्यायाः जीवरूपा अजीवरूपाश्च भवंति मयूरमुकुरंदवत् । तद्यथा यथा मयूरेप भाव्यमाना अनुभूयमाननीलपीताद्याहारविशेषा मयूरशरीराकारपरिणता मयूर एव चेतना एव । तथा निर्मलात्मानुभूतिच्युत जीवेन भाव्यमाना अनुभूयमानाः सुखदुःखादिविकल्पा जीव एवाशुद्धनिश्वयेन चेतना एव । यथा च मुकुरंदेन स्वच्छतारूपेण भाव्यमानाः प्रकाशमानमुखप्रतिबिंवादिविकारा मुकुरंद एक अचेतना एव तथा कर्मवर्गणायोग्यपुद्गलद्रव्येणोपादानभूतेन क्रियमाणा ज्ञानावरणादिद्रव्यकर्मपर्यायाः पुद्गल एव अचेतना एवेति । अथ कतिविधौ जीवाजीवाविति पृष्ठे प्रत्युत्तरमाह ।
आत्मख्यातिः - मिथ्यादर्शनमज्ञानमविरतिरित्यादयो हि भावाः ते तु प्रत्येकं मयूरमुकुरंदवज्जीबाजीवाभ्यां भाव्यमानत्वाज्जीवाजीवौ । तथाहि —यथा नीलकृष्णहरितपीतादयो भावाः स्वद्रव्यस्वभावत्वेन मयूरेण भाव्यमानाः मयूर एव । यथा च नीलहरितपीतादयो भावाः स्वच्छताविकारमात्रेण मुकुरंदेन भाव्यमाना