________________
समयप्राभृतं ।
૧૩
मुकुरंद एव । तथा मिथ्यादर्शनमज्ञानमविरतिरित्यादयो भावाः स्वद्रव्यस्वभावत्वेनाजीवेन भाव्यमाना अजीव एव । तथैव च मिथ्यादर्शनमज्ञानमविरतिरित्यादयो भावाश्चैतन्यविकारमात्रेण जीवेन भाव्यमाना जीव एव । काविह जीवाजीवाविति चेत् ।
पुग्गलकम्मं मिच्छं जोगो अविरदि अणाणमज्जीवं । उवओगो अण्णाणं अविरदि मिच्छत्त जीवो दु ॥ ९५ ॥ पुद्गलकर्म मिध्यात्वं योगोऽविरतिरज्ञानमजीवः । उपयोगोऽज्ञानमविर तिमिध्यात्वं च जीवस्तु ॥ ९५ ॥
तात्पर्यवृत्तिः — पुग्गलकम्मं मिच्छं जोगो अधिरदि अणाणमज्जीवं पुद्गलकर्मरूपं मिथ्यात्कं योगोऽविरतिरज्ञानामित्यजीवः । उवओगो अण्णाणं अविरदि मिच्छत्त जीनो दु उपयोगरूपो भावरूपः शुद्धात्मादितत्त्वभावविषये विपरीतपरिच्छित्तिविकारपरिणामो जीवस्याज्ञानं । निर्विकारस्वसंवित्तिविपरीतव्रतपरिणामविकारोऽविरतिः । विपरीताभिनिवेशोपयोगविकाररूपं शुद्धजीवादिपदार्थविषये विपरीतश्रद्धानं मिथ्यात्वमिति जीवः । जीव इति कोर्थः । जीवरूपा भावप्रत्यया इति । अथ शुद्धचैतन्यस्वभावजीवस्य कथं मिथ्यादर्शनादिविकारो जात इति चेत् ।
आत्मख्यातिः१ - यः खलु मिथ्यादर्शनमज्ञानमविरतिरित्यादिरजीवस्तदमूर्त्ताच्चैतन्यपरिणामादन्यत् मूर्त्तं पुद्गलकर्म, यस्तु मिथ्यादर्शनम्मज्ञानमविरतिरित्यादि जीवः स मूर्तात्पुद्गलकर्मणोऽन्यश्चैतन्यपरिणामस्य विकारः । मिथ्यादर्शनादिचैतन्यपरिणामस्य विकारः कुत इति चेत् ।
raओगस्स अणाई परिणामा तिष्णिमोहजुत्तस्स । मिच्छत्तं अण्णाणं अविरदिभावो य णादव्वो ॥९६॥ उपयोगस्यानादयः परिणामास्त्रयो मोहयुक्तस्य । मिथ्यात्वमज्ञानमविरतिभावश्च ज्ञातव्यः ।। ९६ ।।
-
तात्पर्यवृत्तिः – उव भोगस्स अणाई परिणामा तिष्णि उपयोगलक्षणत्वादुपयोग आत्मा.. तस्य संबंधित्वेनानादिसंतानापेक्षया त्रयः परिणामा ज्ञातव्याः । कथंभूतस्य तस्य मोहजुत्तस्स मोहयुक्तस्य । के ते परिणामाः । मिच्छत्तं अण्णाणं अविरदिभावो य णादव्वो मिथ्यात्वमज्ञानमविरतिभावश्चेति ज्ञातव्य इति । तथाहि — यद्यपि शुद्धनिश्वयनयेन शुद्धबुद्धैकस्वभावो जीवस्तथाप्यनादिमोहनीयादिकर्मबंधवशान्मिथ्यात्वाञ्चानाविरतिरूपास्त्रयः परिणामविकाराः संभवति । तत्र शुद्धजीवस्वरूपमुपादेयं मिथ्यात्वादिविकारपरिणामा हेया इति भावार्थ: । अथात्मनो मिथ्यात्वादित्रिविधपरिणामविकारस्य कर्तृत्वमुपदिशति ।
आत्मख्यातिः — उपयोगस्य हि स्वरसत एव समस्तवस्तुस्वभावभूतस्वरूपपरिणामसमर्थत्वे सत्यनादिवस्त्वंतरभूतमोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारः स तु तस्य स्फटिकस्वच्छताया इव परतोपि प्रभवन् दृष्टः । यथाहि स्फटिकस्वच्छतायाः स्वरूपपरिणामसमर्थत्वे सति कदाचिन्नीलहरितपीततमालकदलीकांचनपात्रोपाश्रययुक्तत्वान्नीलो हरितः पीत इति त्रिविधः परिणामविकारो दृष्टस्तथोपयोगस्यानादिमिथ्यादर्शनाद्यानाविरतिस्वभाववस्त्वंतर भूतमोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविध: परिणामविकारो दृष्टव्यः । अथात्मनस्त्रिविधपरिणामविकारस्य कर्तृत्वं दर्शयति ।
एदेसु य उवओगो तिविहो सुद्धो णिरंजणो भावो । जं सो करेदि भाव उवओगो तस्स सो कत्ता ॥९७॥