________________
सनातनजैनग्रंथमालायांएतेषु चोपयोगस्त्रिविधः शुदो निरंजनो भावः ।
यं स करोति भावमुपयोगस्तस्य स कर्ता ॥९७॥ तात्पर्यवृत्तिः-एदेसु य एतेषु च मिथ्यादर्शनज्ञानचारित्रेषूदयागतेषु निमित्तभूतेषु सत्सु उवओगो शानदर्शनोपयोगलक्षणत्वादुपयोग आत्मा तिविहो कृष्णनीलपीतत्रिविधोपाधिपरिणतस्फटिकवत्त्रिविधो भवति । परमार्थेन तु सुद्धो शुद्धो रागादिभावकर्मरहितः णिरंजणो निरंजनो ज्ञानावरणादि द्रव्यकर्माजनरहितः । पुनश्च कथंभूतः भावो भावपदार्थः । अखंडैकप्रतिभासमयज्ञानस्वभावनैकविधोपि पूर्वोक्तमिथ्यादर्शनज्ञानचारित्रपरिणामविकारेण त्रिविधो भूत्वा जं सो करेदि भावं परिणामं करोति स आत्मा उवओगो चैतन्यानुविधायिपरिणाम उपयोगो भण्यते तल्लक्षणत्वादुपयोगरूपः । तस्स सो कत्ता निर्विकारस्वसंवेदनज्ञानपरिणामच्युतः सन् तस्यैव मिथ्यात्त्वादित्रिविधविकारपरिणामस्य कर्ता भवति । न च द्रव्यकर्मण इति भावः । अथात्मनो मिथ्यात्रिविधपरिणामविकारकर्तृवे सति कर्मवर्गणायोग्यपुद्गलद्रव्य स्वत एवोपादानरूपेण कर्मत्वेन परिणमतीति कथयति ।
आत्मख्यातिः-अथैवमयमनादिवस्त्वंतरभूतमोहयुक्तत्वादात्मन्युत्प्लवमानेषु मिथ्यादर्शनाज्ञानाविरतिभावेषु परिणामविकारेषु त्रिष्वेतेषु निमित्तभूतेषु परमार्थतः शुद्धनिरंजनानादिनिधनवस्तुसर्वस्वभूतचिन्मात्र भाषत्वेनेकविधोप्यशुद्धसांजनानेकभावत्वमापद्यमानस्त्रिविधो भूत्वा स्वयमज्ञानीभूतः कर्तृत्वमुपढौकमानो विकारेण परिणम्य यं यं भावमात्मनः करोति तस्य तस्य किलोपयोगः कर्ता स्यात् । अथात्मनस्त्रिविधपरिणामविकारकर्तृत्वे सति पुद्गलद्रव्यं स्वत एव कर्मत्वेन परिणमतीत्याह ।
जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स । कम्मत्तं परिणमदे तमि सयं पुग्गलं दव्वं ॥९॥
यं करोति भावमात्मा कर्ता स भवति तस्य भावस्य ।
कर्मत्वं परिणमते तस्मिन् स्वयं पुद्गलद्रव्यं ॥९८॥ तात्पर्यवृत्तिः-जं कुणदि भावमादा कत्ता सो होदि तस्त भावस्स यं भावं मिथ्यात्वादिविकारपरिणामं शुद्धस्वभावच्युतः सन् मात्मा करोति तस्य भावस्य स कर्ता भवति कम्मत्तं परिणमदे तम्हि सयं पुग्गलं दव्वं तस्मिन्नेव त्रिविधविकारपरिणामकर्तृत्वे सति कर्मवर्गणायोग्यपुद्गलद्रव्यं स्वयमेवोपादानरूपेण द्रव्यकर्मत्वेन परिणमति । गारुडादिमंत्रपरिणतपुरुषपरिणाम सति देशांतरे स्वयमेव तत्पुरुषव्यापारमंतरेणापि विषापहारबंधाविध्वंसस्त्रीविडंवनादिपरिणामवत् । तथैव च मिथ्यात्वरागादिविभावविनाशकाले निश्चयरत्नत्रयस्वरूपशुद्धोपयोगपरिणामे सति गारुडमंत्रसामर्थ्येन निर्बीजविषवत् । स्वयमेव नीरसीभूय पूर्वबद्धं द्रव्यकर्म जीवात्पृथग्भूत्वा निर्जरां गच्छतीति भावार्थः । एवं स्वतंत्रव्याख्यानमुख्यत्वेन गाथाषटुं गतं । अथ निश्चयेन वीतरागस्वसंवेदनचानस्याभाव एवाज्ञानं भण्यते । तस्मादज्ञानादेव कर्म प्रभवतीति तात्पर्यमाह।
आत्मख्यातिः-आत्मा ह्यात्मना तथापरिणमनेन यं भावं किल करोति तस्यायं कर्ता स्यात्साधकवत् तस्मिन्निमित्ते सति पुद्गलद्रव्यं कर्मत्वेन स्वयमेव परिणमते । तथाहि-यथा साधकः किल तथाविधध्यानभावनात्मना परिणममानो ध्यानस्य कर्ता स्यात् । तस्मिंस्तु ध्यानभावे सकलसाध्यभावानुकूलतया निमित्तमात्रीभूते सति साधकं करिमंतरेणापि स्वयमेव वाध्यते विषयव्याप्तयो, विडंब्यंते योषितो, ध्वंस्यंते बंधास्तथायमज्ञानादात्मा मिथ्यादर्शनादिभावनात्मनो परिणममाने मिथ्यादर्शनादिभावस्य कर्ता स्यात् । तस्मिंस्तु मिथ्यादर्शनादौ भावे स्वानुकूलतया निमित्तमात्रीभूते सत्यात्मानं कर्तारमंतरेणापि पुगलद्रव्यं मोहनीयादिकर्मत्वेन स्वयमेव परिणमते । अशानादेव कर्म प्रभवतीति तात्पर्यमाह ।