________________
समयप्राभृतं ।
परमप्पाणं कुव्वदि अप्पाणं पि य परं करतो सो । अण्णाणमओ जीवो कम्माणं कारगो होदि ॥ ९९॥ परमात्मानं कुर्वन्नात्मानमपि च परं कुर्वन् सः । अज्ञानमयो जीवः कर्मणां कारको भवति ॥ ९९॥
५५
तात्पर्यद्वृत्तिः— परं परद्रव्यं भावकर्मद्रव्यकर्मरूपं अप्पाणं कुव्वदि परद्रव्यात्मनोर्भेदज्ञानाभावादात्मानं करोति अप्पाणं पिय परं करंतो शुद्धात्मानं च परं करोति यः सो अण्णाणमओ जीवो कम्माणं कारगो होदि स चाज्ञानमयो जीवः कर्मणां कर्ता भवति । तद्यथा-यथा कोपि पुरुषः शीतोष्णरूपायाः पुद्गलपरिणामावस्थायास्तथाविधशीतोष्णानुभवस्य चैकत्वाभ्यासाद्भेदमनानन् शीतोहमुष्णोहमिति प्रकारेण शीतोष्णपरिणतेः कर्ता भवति । तथा जीवोपि निजशुद्धात्मानुभूतेर्भिन्नाया उदयागतपुद्गलपरिणामावस्थायास्तन्निमित्तसुखदुःखानुभवस्य चैकत्वाध्यवसायारोपात् परद्रव्यात्मनोः समस्तरागादिविकल्परहितस्वसंवेदनज्ञानाभावाद्भेदमजानन्नहं सुखीदुःखीति प्रकारेण परिणमत्कर्मणां कर्ता भवतीति भावार्थ: । अथ वीतरागस्वसंवेदनज्ञानात्सकाशात्कर्म न प्रभवतीत्याह ।
आत्मख्यातिः - अयं किलाज्ञानेनात्मा परात्मनोः परस्परविशेषानिर्ज्ञाने सति परमात्मानं कुर्वन्नात्मानं च परं कुर्वन्स्वयमज्ञानमयीभूतः कर्मणां कर्ता प्रतिभाति । तथाहि - तथाविधानुभवसंपादनसमर्थायाः रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामावस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः शीतोष्णायाः पुद्गलपरिणामावस्थाया इव पुद्गलादभिन्नत्वेनात्मनो नित्यमेवात्यंतभिन्नायास्तन्निमित्तं तथाविधानुभवस्य चात्मनो भिन्नत्वेन पुद्गलान्नित्यमेवात्यंतभिन्नस्याज्ञानात्परस्परविशेषानिर्ज्ञाने सत्येकत्वाध्यासात् शीतोष्णरूपेणैवात्मना परिणमितुमशक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्मना परिणममानो ज्ञानस्याज्ञानत्वं प्रकटीकुर्वन्स्वयमज्ञानमयीभूत एषोहं रज्ये इत्यादिविधिना रागादेः कर्मणः कर्ता प्रतिभाति । ज्ञानात्तु न कर्म प्रभवतीत्याह ।
परमप्पाणमकुव्वी अप्पाणं पि य परं अकुव्वतो ।
सो णाणमओ जीवो कम्माणमकारगो होदि ॥ १००॥ परमात्मानमकुर्वन्नात्मानमपि च परमकुर्वन् ।
स ज्ञानमयो जीवः कर्मणामकारको भवति ॥ १०० ॥
तात्पर्यवृत्तिः - परं परं परद्रव्यं बहिर्विषये देहादिकमभ्यंतरे रागादिकं भावकर्मद्रव्यकर्मरूपं वा अप्पाणमकुब्बी भेदविज्ञानबलेनात्मानमकुर्वन्नात्मसंबंधमकुर्वन् अप्पाणं पिय परं अकुसो शुद्धद्रव्यगुणपर्यायस्वभावं निजात्मानं च परमकुर्वन् सो णाणमओ जीवो क्रम्माणमकारगो होदि स निर्मलात्मानुभूतिलक्षणभेदज्ञानी जीवः कर्मणामकर्ता भवतीति । तथाहि--यथा कश्चित् पुरुषः शीतोष्णरूपायाः पुद्गलपरिणामावस्थायास्तथाविधशीतोष्णानुभवस्य चात्मनः सकाशाद्भेदज्ञानात् शीतोहमुष्णोहमिति परिणतेः कर्ता न भवति । तथा जीवोपि निजशुद्धात्मानुभूतेर्भिन्नायाः पुद्गलपरिणामावस्थायास्तन्निमित्तसुखदुःखानुभवस्य च स्वशुद्धात्मभावनोत्थसुखानुभवभिन्नस्य भेदज्ञानाभ्यास त्पिरात्मनोर्भेदज्ञाने सति रागद्वेषमोहपरिणाममकुर्वाणः कर्मणां कर्ता न भवति । ततः स्थितं ज्ञानात्कर्म न प्रभवतीत्यभिप्रायः । अथ कथमज्ञानात्कर्म प्रभवतीति पृष्ठे गाथाद्वयेन प्रत्युत्तरमाह ।
आत्मख्यातिः–अयं किल ज्ञानादात्मा परात्मनोः परस्परविशेषनिर्ज्ञाने सति परमात्मानमकुर्वश्नात्मानं च परमकुर्वन्स्वयं ज्ञानमयीभूतः कर्मणामकर्ता प्रतिभाति । तथाहि - तथाविधानुभवसंपादनसमर्थायाः रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामाचस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः शीतोष्णायाः