________________
समयप्राभृतं । जानीहीति स्वसमयपरसमयलक्षणं ज्ञातव्यं ॥२॥अथ स्वगुणैकत्वनिश्चयगतशुद्धात्मैवोपादेयः कर्मबंधेन सहकत्वमतो हेय इति ।अथवा स्वसमय एव शुद्धात्मनः स्वरूपं न पुनः परसमय इत्यभिप्रार्य मनसिधृत्वा। अथवास्य सूत्रस्यानंतरं सूत्रमिदमुचितं भवतीति निश्चत्य विवक्षितसूत्रं प्रतिपादयतीति पातनिकालक्षणं सर्वत्र ज्ञातव्यं ।
आत्मख्यातिः- योयं नित्यमेव परिणामात्मनि स्वभावे अवतिष्ठमानत्वात् उत्पादव्ययध्रौव्यैक्यानुभूति लक्षणया सत्तयानुस्यूतश्चैतन्यस्वरूपत्वान्नित्योदितविशददृशिज्ञप्तिज्योतिरनंतधर्माधिरूढकधर्मित्वादुद्योतमानद्रव्यत्वः क्रमाक्रमप्रवृत्तविचित्रभावस्वभावत्वादुत्संगितगुणपर्यायः स्वपराकारावभासनसमर्थत्वादुपात्तवैश्वरूप्यैकरूपः प्रतिविशिष्टावगाहगतिस्थितिवर्त्तनानिमित्तरूपत्वाभावादसाधारणचिद्रूपतास्वभावसद्भाका चाकाशधर्माधर्मकालपुद्गलेभ्यो भिन्नोऽत्यंतमनंतद्रव्यसंकरेपि स्वरूपादप्रच्यवनात् टंकोत्कीर्णचित्स्वभावो जीवो नाम पदार्थः स समयः । समयत एकत्वेन युगपज्जानाति गच्छति चेति निरुक्तेः । अयं खलु यदा सकल स्वभावभासनसमर्थविद्यासमुत्पादकविवेकज्योतिरुद्गमनात्समस्तपरद्रव्यात्प्रच्युत्य दृशिज्ञप्तिस्वभावनियतवृत्ति रूपात्मतत्त्वैकत्वगतत्वेन वर्त्तते तदा दर्शनज्ञानचारित्रस्थितत्वात्स्वमेकत्वेन युगपज्जानन् गच्छंश्च स्वसमय इति । यदा त्वनाद्यविद्याकंदलीमूलकंदायमानमाहानुवृत्तितया दृशि ज्ञप्तिस्वभावनियतवृत्तिरूपादात्मतत्त्वात्प्रच्युत्य परद्रव्यप्रत्ययमाहरागद्वेषादिभावैकगतत्वन वर्त्तत तदा पुद्गलकर्मप्रदेशस्थितत्वात्परमेकत्वेन युगपज्जा नन् गच्छंश्च परसमय इति प्रतीयते । एवं किल समयस्य द्वविध्यमुद्धावति ॥२॥ अथैतद्वाध्यते
एयत्तणिच्छयगदो समओ सव्वत्थ सुंदरो लोगे। बंधकहाएयत्ते तेण विसंवादिणी होदि ॥३॥
एकत्वनिश्चयगतः समयः सर्वत्र सुंदरो लोके ।
बंधकथैकत्वे तेन विसंवादिनी भवति ॥३॥ तात्पर्यवृत्तिः-एयत्तणिच्छयगदो स्वकीयशुद्धगुणपर्यायपरिणतः, अभेदरत्नत्रयपरिणतोवा एकत्व निश्चयगतः समओ समयशब्देनात्मा, कस्माद्धेतोः सम्यगयते गच्छति परिणमति कान् स्वकीयगुणपर्यायानिति व्युत्पत्तेः । सव्वत्थसंदरो सर्वत्र समीचीनः क लोगे लोके अथवा सर्वत्रैकोंद्रियाद्यवस्थासु शुद्धनिश्चयनयेन सुंदर उपादेय इति। बंधकहा कर्मबंधजनितगुणस्थानादिपर्यायाः। एयत्ते एकत्वे तन्मयत्वे या बंधकथा प्रवर्तते तेण तेन पूर्वोक्तजीवपदार्थेन सह सा विसंवादिणी विसंवादिनो कोर्थः विसंवादिणी विसंवादिनीकथा प्राकृतलक्षणबलात् पुलिंगे स्त्रीलिंगनिर्देशः । विसंवादिनी असत्या होदि भवति । शुद्धनिश्चयनयेन शुद्धजीवस्वरूपं न भवतीत्यर्थः । ततः स्थितं स्वसमयएवात्मनः स्वरूपमिति ॥३॥ अथैकत्वपरिणतं शुद्धात्मस्वरूपं सुलभं न भवतीत्याख्याति___आत्मख्यातिः-समयशब्देनात्र सामान्येन सर्वएवार्थोऽभिधीयते । समयत एकीभावेन स्वगुणपर्यायान्गच्छतीति निरुक्तस्ततः सर्वत्रापि धर्माधर्माकाशकालपुद्गलजीवद्रव्यात्मनि लोके ये यावंतः केऽप्यस्तेि सर्वएव स्वकीयद्रव्यांतर्मग्नानंतस्वधर्मचक्रचुबिनोपि परस्परमचुंबतोत्यंतप्रत्ययासत्तावपि नित्यमेव स्वरूपादपतंतः पररूपेणापरिणमनादविनष्टानंतव्यक्तित्वाट्टकोत्कीर्ण इव तिष्ठतः समस्तविरुद्धाविरुद्धकार्यहेतुतया शश्वदेव विश्वमनुगृहतो नियतमेकत्वनिश्चयगतत्वेनैव सौंदर्यमापद्यते । प्रकारांतरेण सर्वसंकरादिदोषापत्तेः । एवमेकत्वे सर्वार्थानां प्रतिष्ठिते सति जीवाह्वयस्य समयस्य बंधकथाया एव विसंवादत्वापत्तिः । कुतस्तन्मूल पुद्गलकर्मप्रदेशस्थितत्वमूलपरसमयोत्पादितमेतस्य द्वैविध्यं । अतः समयस्यैकत्वमेवावतिष्ठते ॥३॥ तथैतद सुलभत्वेन विभाव्यते
१ एतन्मते ' विवादिणो' पुलिंग एष पाठः ।