________________
सनातनजैनग्रंथमालायांसुदपरिचिदाणुभूदा सव्वस्स वि कामभोगबंधकहा । एयत्तस्सुवलंभो णवरि ण सुलभो विभत्तस्स ॥४॥
श्रुतपरिचितानुभूता सर्वस्यापि कामभोगबंधकया।
एकत्वस्योपलंभः केवलं न सुलभो विभक्तस्य ॥४॥ तात्पर्यवृत्तिः-सुदपरिचिदाणुभूदा इत्यादि । सुदा श्रुता अनंतशो भवति । परिचिदा परिचिता सपूर्वानंतशो भवति । अणुभूदा अनुभूतानंतशो भवति कस्य सन्चस्सवि सर्वस्यापि जीवलोकस्य । कासौ कामभोगबंधकहा कामरूपभोगाः कामभोगाः अथवा कामशब्देन स्पर्शनरसनेंद्रियं भागशब्देन घ्राणचक्षुःश्रोत्रत्रयं तेषां कामभोगानां बंधः संबंधस्तस्य कथा। अथवा बंधशब्देन प्रकृतिस्थित्यनुभागप्रदेशबंधस्तत्फलं च नरनारकादिरूपं भण्यते । कामभोगबंधानां कथा कामभोगबंधकथा यतः पूर्वोक्तप्रकारेण श्रुतपरिचितानुभूता भवति ततो न दुर्लभा किंतु सुलभैव । एयसस्स एकत्वस्य सम्यग्दर्शनज्ञानचारित्रैक्यपरिणतिरूपनिर्विकल्पसमाधिबलेन स्वसंवेद्यशुद्धात्मस्वरूपस्य तस्यैकत्वस्य उवलंभो उपलंभः प्राप्ति लाभ णवरि केवलं अथवा नवरि किंतु ण सुलभो नैव सुलभः कथंभूतस्यैकत्वस्य विभत्तस्स विभक्तस्य रागादिरहितस्य । कथं न सुलभ इति चेत् श्रुतपरिचितानुभूतत्वाभावादिति ॥ ४ ॥ अथ यस्मादेकत्वं सुलभं न भवति तस्मात्तदेव कथ्यते
आत्मख्यातिः-इह सकलस्यापि जीवलोकस्य संसारचक्रक्रोडाधिरोपितस्याश्रांतमनंतद्रव्यक्षेत्र कालभवभावपरावर्तेः समुपक्रांतभ्रांतेरेकत्रीकृतविश्वतया महता मोहग्रहेण गोरिव बाह्यमानस्य प्रसभोज्जूंभित तृष्णातंकत्वेन व्यक्तांतराधेरुत्तम्योत्तम्य मृगतृष्णायमानं विषयग्राममुपरुंधानस्य परस्परमाचार्यत्वमाचरंतो नंतशः श्रुतपूर्वानंतशः परिचितपूर्वाऽनंतशोऽनुभूतपूर्वाचैकत्वविरुद्धत्वेनात्यंतविसंवादिन्यपि कामभोगानुबद्धा कथा। इदं तु नित्यव्यक्ततयांतः प्रकाशमानमपि कषायचक्रेण सहैकीक्रियमाणत्वादत्यंततिरोभूतं सत्स्वस्यानात्मज्ञतया परेषामात्मज्ञानामनुपासनाच्च न कदाचिदपि श्रुतपूर्व न कदाचिदपि परिचितपूर्व न कदाचिदप्यनुभूतपूर्व च निर्मलविवेकालोकविविक्तं केवलमेकत्वं अतएकत्वस्य न सुलभत्वं ॥ ४ ॥ अथ एवैतस्य उपदर्शाते
तं एयत्तविभत्तं दाएहं अप्पणो सविहवेण । जदि दाएज पमाणं चुकिज छलं ण चित्तव्वं ॥ ५॥
तमेकत्वविभक्तं दर्शयेहमात्मनः स्वविभवेन । __ यदि दर्शयेयं प्रमाणं स्खलितं छलं न गृहीतव्यं ॥५॥ तात्पर्यवृत्तिः-तं तत्पूर्वोक्तं एयत्तविभत्तं एकत्वविभक्तं अभेदरत्नत्रयैकपरिणतं मिथ्यात्वरागादिरहितं परमात्मस्वरूपमित्यर्थः । दाएहं दर्शयेहं केन अप्पणो सविहवेण आत्मनः स्वकीयमिति विभवेन आगमतर्कपरमगुरूपदेशस्वसंवेदनप्रत्यक्षेणेति । जदि दाएज यदि दर्शयेयं तदा पमाणं स्वसंवेदनज्ञानेन परीक्ष्य प्रमाणीकर्त्तव्यं भवद्भिः । चुकिज यदि च्युतो भवामि छलंणचित्तव्वं तर्हि छलं न ग्राह्यं दुर्जनवदिति ॥५॥ अथ कोयं शुद्धात्मेति पृष्ट प्रत्युत्तरं ददाति___ आत्मख्यातिः-इह किल सकलोद्भासिस्यात्पदमुद्रितशब्दब्रह्मोपासनजन्मा समस्तविपक्षक्षोदक्षमातिनिस्तुषयुक्तयवलंबनजन्मा निर्मलविज्ञानघनांतर्निमग्नपरापरगुरुप्रसादीकृतशुद्धात्मतत्त्वानुशासनजन्मा अनवरतस्यंदिसुंदरानंदमुद्रितामंदसंविदात्मकस्वसंवेदनजन्मा च यः कश्चनापि ममात्मनः स्वो विभवस्तेन समस्तेनापि यमेकत्वविभक्तमात्मानं दर्शयेहमिति बद्धव्यवसायोस्मि । किंतु यदि दर्शयेयं तदा स्वयमेव स्वानुभवप्रत्यक्षेण परीक्ष्य प्रमाणीकर्त्तव्यं । यदि तु स्खलेयं तदा तु न छलग्रहणजागरूकैर्भवितव्यं ॥ ५ ॥