________________
समयप्राभृतं ।
वि होदि अप्पमत्तो ण पमत्तो जाणगो दु जो भावो । एवं भणति सुद्धा णादा जो सो दु सो चेव ॥ ६॥ नापि भवत्यप्रमत्तो न प्रमत्तो ज्ञायकस्तु यो भावः । एवं भणति शुद्धा ज्ञाता यः स तु स चैव ॥ ६ ॥
तात्पर्यवृत्तिः - वि होदि अप्पमत्तो ण पमत्तो शुद्धद्रव्यार्थिकनयेन शुभाशुभपरिणमनाभावान्न भवत्यप्रमत्तः प्रमत्तश्च । प्रमत्तशब्देन मिथ्यादृष्ट्यादिप्रमत्तांतानि षड्गुणस्थानानि, अप्रमत्तशब्देन पुनरप्रमत्ताद्ययोग्यंतान्यष्टगुणस्थानानि गृह्यंते । स कः कर्त्ता जाणगो दु जो भावो ज्ञायको ज्ञानस्वरूपो यो ऽसौ भावः पदार्थः शुद्धात्मा। एवं भांति सुद्धा शुद्धनयावलंबिन:, तर्हि किं भवति णादा जो सो दु सोचेव ज्ञाता शुद्धात्मा यः कथ्यते स तु स चैव ज्ञातैवेत्यर्थः ॥ ६ ॥ इति स्वतंत्रगाथाषट्केन प्रथमस्थलं गतं । अथानंतरं तथाप्रमत्तादिगुणस्थानविकल्पा जीवस्य व्यवहारनयेन विद्यते शुद्धद्रव्यार्थिकनिश्चयेन न विद्यते तथा दर्शनज्ञानचारित्रविकल्पोपीत्युपदिशति
hist शुद्ध आत्मेति चेत्
आत्मख्यातिः–यो हि नाम स्वतः सिद्धत्वेनानादिरनंतोनित्योद्योतोविशदज्योतिर्ज्ञायक एको भावः स संसारावस्थायामनादिबंधपर्यायनिरूपणया क्षीरोदकवत्कर्मपुद्गलैः सममेकत्वेपि द्रव्यस्वभावनिरूपणया दुरंत - कषायचक्रोदयवैचित्र्यवशेन प्रवर्त्तमानानां पुण्यपापनिर्वर्त्तकानामुपात्तवैश्वरूप्याणां शुभाशुभभावानां स्वभावेनापरिणमनात्प्रमत्तोऽप्रमत्तश्च न भवत्येष एवाशेषद्रव्यांतरभावेभ्यो भिन्नत्वेनोपास्यमानः शुद्ध इत्यभिलप्यते । न चास्य ज्ञेयनिष्ठत्वेन ज्ञायकत्वप्रसिद्धेः दाह्यनिष्कनिष्ठदहनस्येवाशुद्धत्वं यतो हि तस्यामवस्थायां ज्ञायकत्वेन यो ज्ञातःस स्वरूपप्रकाशनदशायां प्रदीपस्येव कर्तृकर्मणोरनन्यत्वात् ज्ञायक एव ॥६॥ दर्शनज्ञानचारित्रवत्वेनाशुद्धत्वमिति चेत् —
ववहारेणुवदिस्सदि णाणिस्स चरित्तदंसणं णाणं । णविणाणं ण चरितं ण दंसणं जाणगो सुद्धो ॥ ७ ॥ व्यवहारेणोपदिश्यते ज्ञानिनश्चारित्रं दर्शनं ज्ञानं ।
नापि ज्ञानं न चारित्रं न दर्शनं ज्ञायकः शुद्धः ॥ ७॥
तात्पर्यवृत्तिः - ववहारेण सद्भूतव्यवहारनयेन उवदिस्सदि उपदिश्यते कथ्यते । कस्य णाणिस्स · ज्ञानिनो जीवस्य । किं चरित्तदंसणं णाणं चारित्रदर्शनज्ञानस्वरूपं । णवि णाणं ण चरित्तं ण दंसणं शुद्धनिश्चयनयेन न पुनर्ज्ञानं न चारित्रं न दर्शनं । तर्हि किमस्तीति चेत् जाणगो ज्ञायकः शुद्धचैतन्यस्वभावः । सुद्धो शुद्ध एव रागादिरहित इति । अयमत्रार्थः यथा निश्चयनयेनाभेदरूपेणाग्निरेक एव पश्चाद्भेद रूपव्यवहारेण दहतीति दाहकः पचतीति पाचकः प्रकाशं करोतीति प्रकाशकः इति व्युत्पत्त्या विषयभेदेन त्रिधा भिद्यते । तथा जीवोपि निश्चयरूपाभेदनयेन शुद्धचैतन्यरूपोपि भेदरूपव्यवहारनयेन जानातीति ज्ञानं, पश्यतीति दर्शनं चरतीति चारित्रमिति व्युत्पत्त्या विषयभेदेन त्रिधा भिद्यते इति ॥७॥ अथ यदि शुद्धनिश्चयेन जीवस्य दर्शनज्ञानचारित्राणि न संति तर्हि परमार्थएवैको वक्तव्यो न व्यवहार इति चेत्तन्न
आत्मख्यातिः - आस्तां तावद्वेधप्रत्ययात् ज्ञायकस्याशुद्धत्वं दर्शनचारित्राण्येव न विद्यते । यतोनंत धर्मण्येकस्मिन् धर्मिणि निष्णातस्यांतेवासिजनस्य तदवबोधायिभिः कैश्चिद्धर्मैस्तमनुशासतां सूरीणां धर्मधर्मिणां स्वभावतोऽभेदेपि व्यपदेशतो भेदमुत्पाद्य व्यवहारमात्रेणैव ज्ञानिनो दर्शनं ज्ञानं चारित्रमित्युपदेशः । परमार्थ - तस्त्वेकद्रव्यनिष्पीतानंतपर्यायतयैकं किंचिन्मिलितास्वादमभेदमेकस्वभावमनुभवतो न दर्शनं न ज्ञानं न चारित्रं ज्ञायक एवैकः शुद्धः ||७|| तर्हि परमार्थ एवैको वक्तव्य इति चेत्