________________
सनातनजैनग्रंथमालायांनिराकृततमोऽरातिः स्थापयन् सत्पथे जनान् । स्वतेजोद्योतितक्षोणिश्चंडाचिरिव यो वभौ ॥२॥ तस्याभूत्पुष्पनंदी तु शिष्यो विद्वान् गणाग्रणीः । तच्छिष्यश्च प्रभाचंद्रस्तस्येयं वसतिः कृता ॥३॥
अमूभिः पद्यैर्नियतं विज्ञायते कुंदकुंदान्वयि (अ) तोरणाचार्यस्य शिष्यः पुष्पनंदी तच्छिष्यश्च प्रभाचंद्रो यदि, १९ तम शकसांवत्सरिकस्तदा तोरणाचार्यः ६०० तमायां शकशताब्दौ सिद्ध्यति । अनयादिशा तेषां कुंदकुदान्वयित्वे भगवत्कुंदकुंदसमयस्तेषां १५० शतोत्तरपंचाशद्वर्षपूर्व-'अर्थात् ४५० तमे संवस्सरे' सिद्ध्यति ।
५०० तमे शकसंवत्सरे शास्ति स्म कश्चित चालुक्यचक्रवर्ती कीर्तिवर्ममहाराजः वादामीनगरे वातापीपुरे वा स च विनाशयामास पराचीनं कदंबवंशं । अर्थात् ५०० तमशकसंवत्सरात्पंचाशद्वर्षपूर्व (४५० तमशकसंवत्सरसान्निध्ये ) प्राचीनकदंबवंशीयः श्रीशिवमृगेशवर्ममहाराजो विधत्तेस्म राज्यमिति निश्चितिः । श्रीशिवकुमारमहाराजप्रतिबोधनार्थ विलिलेख भगवान् कुंदकुंदः स्वीयं ग्रंथमिति समाविर्भावितं च पंचास्तिकायस्य क्रमशः कार्णाटिकसंस्कृतटीकाकारैः श्रीवालचंद्रजयसेनाचार्यैः । ततो युक्त्यानयापि भगवत्कुंदकुदसमयः तस्य शिवमृगेशवर्मसमानकालीनत्वात् ४५० तमशकसंवत्सर एव सिद्ध्यति स्वीकारे चास्मिन् क्षतिरपि नास्ति कापीति ।
ग्रंथरचना भगवत्कुंदकुंदस्वामिविरचिताः समस्तग्रंथाः प्राकृतभाषायामेवोपलभ्यते । संस्कृतभाषायामपि स्वा मिनिमिताः संति ग्रंथा इत्यत्र न किमपि प्रमाणं । तदात्वे जनता संस्कृतभाषापेक्षया कठिनतममपि विषयं प्राकृतभाषायामषबोर्बु समर्थासीत् । अतः प्रकटयति स्वामिनः प्राकृतप्रेमेदं नासीत्तेषां स्वीयपाण्डित्यप्रकटनाय लक्ष्यं किंतु सर्वजनहितसमीहापूर्ण मनः । इमानि तद्रचितग्रंथरत्नानि
१ समयसारप्राभृतं २ पंचास्तिकायप्राभृतं ३ प्रवचनसारप्राभृतं ४ षट्प्राभृतं--(दर्शनपाहुड--सुत्तपाहुड-चारित्तपाहुड-बोधपाहुड-भावपाहुड--मोक्खपाहुडेतिषद्पाहुडग्रंथाः) रयणसारः वारहाणुवेक्खा (द्वादशानुप्रेक्षा) नियमसारश्चेति । तत्राद्यं ग्रंथषद्कं तु मुद्रितं । सप्तमो नियमसारः समुद्रियते संस्कृतटीकालंकृतः स्वोपज्ञभाषाटीकाविभूषितश्च श्रीयुक्तब्रह्मचारिशीतलप्रसादैः ।
षट्खंडसिद्धांतस्य प्राथमिकत्रिखंडस्य टीकापि महती भगवत्कुंदकुंदस्वामिभिर्विरचिता । तत्परिमाणं च द्वादशश्लोकसहस्रकं । समुल्लेखः खल्वेतस्याः श्रुतावतारे । परं न समस्ता समुपलभ्यते सांप्रतं । व्यज्ञायीदं भगवत्कुंदकुंदैश्चतुरशीतिशास्त्राणि विरचितानि कियतांचित्तु समुल्लेख उपरिष्टात्कृतः । कियतां च शेषाणामिमानि नामानि समुपलब्धानि
जोणीसार-क्रियासार-आराहणासार--लब्धिसार--छपणासार--बंधसार--तत्त्वसार--अंगसार--द्रव्यसार--क्रमपाहुड--पयपाहुड--विद्यापाहुड--उघातपाहुड--दृष्टिपाहुड--सिद्धांतपाहुड--तोयपाहुड--चरणपाहुड-- समवायपाहुड--नयपाहुड--प्रकृतिपाहुड--चूर्णीपाहुड--पंचवर्गपाहुड--कर्मविपाकपाहुड--वस्तुपाहुङ -- बुद्धिपाहुड--पयद्धपाहुड--उत्पादपाहुङ- दिव्यपाहुड--सिक्खापाहुड -- जीवपाहुड-आचारपाहुड- स्थानपाहुड-प्रमाणपाहुड--आलापपाहुड--चूलीपाहुड--प्रदर्शनपाहुड:-णोकम्मपाहुड़--संठाणपाहुड्--नितायपाहुड-एयंतपाहुड--विहयपाहुड-सालमीपाहुतिद्विचत्वारिंशग्रंथाः ।
कुदकुंदश्रावकाचारग्रंथस्य भगवत्कुंदकुंद एव स्चायतेति पूर्वमासीत्प्रसिद्धिः । किंतु परीक्ष्यमाणे तस्मिन् व्यज्ञायीदं न तन्निीमतः स परं स्वाभिमतसिद्धयर्थं केन चिद्भूर्तेन श्वेतांबरसमाजस्य विवेकविलासनामक ग्रंथस्य परावृत्त्य कानिचित्पद्यानि तन्नामतो-विश्रावितः ।
भगत्कुदकुंदस्य सांप्रतं याः कृतयो दृष्टिपथमवतरंति ताः सरलतमाः सुरसाश्च । ततो विनिर्धायते महात्मनस्तस्य, मामकीनाकृतिः सुलभतमा सर्वजनबोधकरा च भवेदिति प्रतिसमयं लक्ष्यमासीन् ।
१ विलोक्यतामतन्निबंधादौ एवं द्विविधो दृष्येत्यादि पाद्वयंः ।