________________
भगवत्कुंदकुंदाचार्यः ।
पद्मनंदिगुरुर्जातो वलात्कारगणाग्रणीः पाषाणघटिता येन वादिता श्रीसरस्वती ।
कुंदकुदगुणी येनोर्ज्जयंतिगिरिमस्तके सोऽवताद्वादिता ब्राह्मी पाषाणघटिता कलौ ।
गुर्वावली -
शुभचंद्रकृत पांडवपुराण:
प्रमाणेनामुना विनिश्चीयते भगवत्कुंदकुंदस्य पुरस्तादपि जैनधर्मो दिगम्बर श्वेतांबरेतिभागद्वये विभक्त आसीत् । कुंदकुंदविरचितषट् पाहुडप्रथेऽपि श्वेतांबर संप्रदायास्तित्वमाभासते । यथा
सिज्ज वच्छधरो जिणसासणे जइ वि होइ तिच्छयरो । गो विमोक्खमग्गो सेसा उम्मग्गया सव्वे ॥ १ ॥ जइ दंसणेण सुद्धा उत्तामग्गेण सावि संजुत्ता । घोरं चरिय चरितं इच्छीसु ण पव्विया भणिया ॥ २ ॥
सूत्र पाहुडप्रथः निर्णेयमिदमत्र दिगंबरसंप्रदाये कदा श्वेतांबर संप्रदायसमुपपत्तिरभिमता । देवसेनसूरिभिः स्वीयदर्शनसारग्रंथे तु गाथेयं प्रकटिता—
एकसये छत्तीसे विक्कमरायस्स मरणपत्तस्स । सोरठ्ठे वलहीये उप्पण्णो सेवडो संघो ॥ १ ॥
दर्शनसारे यस्य विक्रमस्य व्यलोखे संवत्सरो भवेदनुमानतः स शकविक्रमः शालिवाहनो वा । जैनग्रंथेषु समस्तीयं शालिवाहन शकसंवत्सरयोर्विक्रमसंवत्सरलेखन परिपाटी । ततो १३६ तमसंवत्सरो यदि शकीयस्तदा तस्मिन् शकसंवत्सरे, १३५ शतोत्तरपंच त्रिशद्वर्षसम्मेलनतः २७१ तम वैक्रमसंवत्सरे निष्पन्ने नियतं श्वेतांबरसमुत्पत्तिस्तत्सान्निध्ये समजनीति निर्विवादनिश्वयः । एवं समनंतरं च श्वेतांबर समुत्पत्तेः प्रतिपादितश्रुतावतारप्रामाण्यात्सिद्ध्यत्यवदाततया भगवत्कुंदकुंदसमयस्तृतीयशताब्देश्वरमभागे । २१३ तमवैक्रमसंवसरात्पूर्वे तु साधयितुमेव नार्हति भगवत्कुंदकुंदोत्पत्तिसमयः ।
श्रीमद्भगवत्कुंदकुंदसमयविषये विद्वद्वरश्रीमत्पंडित के - बी- पाठकमहोदयानां मतमिदं— कोण्डकोन्दान्वयोदारो गणोऽभूद्भुवनस्तुतः तदैतद्विषयविख्यातं ( ? ) शाल्मलीग्राममावसन् ॥१॥ आसीदतोरणाचार्यस्तपःफलपरिग्रहः । तत्रोपशमसंभूतभावनापास्तकल्मषः ॥ २ ॥
पंडितः पुष्पनंदीति बभूव भुवि विश्रुतः । अंतेवासी मुनेस्तस्य सकलश्चन्द्रमा इव ॥ ३ ॥ प्रतिदिवसभवदुवृद्धिर्निरस्तदोषो व्यपेतहृदयमलः । परिभूतचंद्रविम्बस्तच्छिष्योऽभूत्प्रभाचंद्रः ॥४॥
अमूनि पद्यानि राष्ट्रकूटवंशतृतीयगोविंद महाराज समकालीन ७२४ तमशकसंवत्सरस्य ताम्रपट्टे विलिखितानि प्राप्तानि । तस्यैव गोविंदमहाराजस्य समकालीन ७१९ तमशक संवत्सरस्यापरोऽपि कश्चित्तानपट्टः संप्राप्तस्तत्र च निम्नलिखितानि पद्यानि -
आसीदतोरणाचार्यः कोण्ड कुंदान्वयोद्भवः । स चैतद्विषये श्रीमान् शाल्मलीग्राममाश्रितः ॥ १ ॥
१ नापि सिध्यति वस्त्रधरो जिनशासने यद्यपि भवति तीर्थकरः ।
arat विमोक्षमार्गों शेषा उन्मागांः सर्वे ॥ १॥ यदि दर्शनेन शुद्धा उत्तममार्गेण खापि संयुक्ता । घोरं चरति चरित्रं स्त्रीषु न...... भणिता ॥ २ ॥ एकशते षट् त्रिंशति विक्रमस्य मरण प्राप्तस्य । सौराष्ट्रे वक्रभीके-उत्पन्नः श्वेतविरसंघः ॥१॥