________________
भगवस्कुंदकुंदाचार्यः। भगवत्कररचितकृतिषु समयसार-पंचास्तिकाय-प्रवचनसारेति त्रिकृतयः सर्वप्रधानाः । कृतित्रिकमिदं च दिगम्बरसमाजे प्राभृतत्रयनाम्ना च विश्रुतं । अध्यात्मवेदांतविषयः किल जैनधर्मस्य ग्रंथत्रय एवास्मिन् समंजसतया समुपवर्णितः । न काप्यस्युक्तिः स्यात् यदि ग्रंथत्रयमिदं जैनधर्मस्य जीवत्वेन प्राणत्वेन वाभ्युपगतं स्यात् । निश्चयकिलायमास्माकः यावन्न कश्चिदध्यैष्यत ग्रंथत्रयमिदं न प्रत्यपरस्यत स तावज्जैनधर्मज्ञता ततो जैनधर्मज्ञातृत्वमानिभिः तत्समहिमानैश्च नियतमभ्यसनीयमेतद्ग्रंथरत्नत्रयं ।
टीकाकारी।
श्रीमदमृतचंद्रसूरिःनात्र संशीतिः समजनि श्रीमदमृतचंद्रो ग्रंथकारष्टीकाकारश्च । परंतु पावनात्मायं महात्मा कदा ? क ! अनवद्यात्मनीनवैदुष्येण भारतभूमि विभूषयामासेति निर्णयाय न वरीवरीति समीपेऽस्माकं किमपि सुदृढ़ गमकं । केचिदामनंति विद्वांसोऽस्य महात्मनो दशमशताब्दिकालं परं तत्र पुष्कलप्रमाणाभावात् न स हि प्रमाणतामास्कंदति । महात्मायं स्वकरकलितगंथेषु टीकासु वा स्वनामातिरिक्तमात्मनीनगुर्वादिनामापि न विलिलख यतो भवेत् सुगमता तत्समयादिविनिर्णयाय । ततो दुरधिगम्य एवास्य विदुषः समयादिविनिर्णयः । पुरुषार्थसिद्ध्युपायः तत्त्वार्थसारः, इति ग्रंथद्वयं स्वातंत्र्येण तन्निर्मितमवातरति दृष्टिपथं सांप्रतं । भगवत्कुंदकुंदस्वामिरचितसमयसार-पंचास्तिकायसार-प्रवचनसारेतिनाटकत्रयस्य टीकाश्च तिस्रः। ताश्च टीका स्वस्वरूपेण भाष्यतामनुकुर्वति । नात्र संदेहः महात्मायं तात्विकतात्पर्यनिर्णायकवचनरचनातः समवबोधयति यत्संप्रापादिमपदमध्यात्मटीकाकृत्सु सः ।
विद्यते जैनसमाजे कश्चिदपूर्वः किंत्वपूर्णः पंचाध्यायी ग्रंथः। योऽचिरकालतएव प्रकाशपदवीमुपनीतः यस्य चाध्ययनाध्यापनप्रसारः समजनि न्यायवाचस्पति पंडितप्रवरश्रीगोपालदासपावनजीवनमूलक जैनसिद्धांतमहाविद्यालयमुरैनातः। सोऽप्यस्यैव महात्मनः कृतिरिति विनिर्धारितस्तद्रचनाशैलीविलोकनात् विषयप्रतिपादनशैलीदर्शनाच्च । भवितव्यं चानवद्यप्रतिभामृतचंद्रसूरिकल्पेनैव विदुषा तथाविधगभीरकृतिनिर्माणमिति ।
. जयसेनाचार्यः नाम्नानेन किल, समजनिषत नैकविद्वांसो भुवि, तत्र भगवज्जिनसेनाचारादिपुराणो यः संस्तुतः स प्रथमः । हरिवंशपुराणप्रशस्तौ च यः सिद्धांतशास्त्रज्ञत्वनोपन्यस्तः स द्वितीयः तृतीयश्च परिवर्तितवर्णिदुलीचंदप्रतिष्ठापाठप्रणेता। गवेषणायां सत्यामन्येपि मिलिष्यति । ततो न निश्चेतुं पार्यते निशंकं कतमो जिनसेनाचार्यस्तात्पर्यवृत्तिप्रणेता। प्रवचनसारपंचास्तिकायसारप्रशस्तौ परिचाययति महात्मायमित्थं
अज्ञानतमसा लिप्तो मार्गो रत्नत्रयात्मकः । तत्प्रकाशसमर्थाय नमोऽस्तु कुमुर्देदवे ॥१॥ सूरिः श्रीवीरसेनाख्यो मूलसंघेऽपि सत्तपाः । नैपथ्यदवीं भेजे जातरूपधरोऽपि यः ॥२॥ ततः श्रीसोमसेनोऽभूत-गुणी गुणगणाश्रयः । तद्विनेयोऽस्ति यस्तस्मे जयसेनतपोभृते (!) ॥३॥
इतिपद्यत्रयाद्विज्ञायते वीरसेनशिष्यः सोमसेनस्तच्छिष्यो जयसेनः स च मुनिमूलसंघीयः । अपरश्चैको जयसेनः स्वनिर्मितवसुविंदुप्रतिष्ठापाठे परिचाययतीत्थं
कुंदकुंदाग्रशिष्येण जयसेनेन निर्मितः । पाठोऽयं सुधियां सम्यग् कर्तव्यायास्तु योगतः ॥१॥ श्रीदक्षिणे कुंकुणनानिदेशे सह्याद्रिणा संगतसीम्नि पूते । श्रीरत्नभूध्रोपरिदर्घिचैत्यं लालादराज्ञा विधिनोर्जितं यत् तत्कार्यमुद्दिश्य गुरोरनुज्ञामादाय कोल्हापुरवासिहर्षात् दिनद्वये स लिखितः प्रातज्ञापूर्त्यर्थमेवं श्रुतसंविधत्ति॥३॥ ___ वसुविंदुरिति प्राहुस्तदादि गुरवो यतः । जयसेनापराख्यां तन्नमोऽस्तु हितर्षिणां ॥४॥ ___ प्रथमश्लोकस्थ "कुंदकुंदाग्रशिष्ट्येणेति विशेषणेनानुमीयते यत् तात्पर्यवृत्तिकानेनैव जयसेनेन भाव्यं । पर कदा क समभूदयं मुनिराडिति विनिश्चित्यै नास्ति किमपि निष्कल्मषं गमकं । मुनिनानेन स्वनिर्मिततात्पर्यवृत्तौ कियत्सुचित्पद्येषु श्रीमदमृतचंदसूरिटीका वर्णतः समनुकृता शब्दैः परावृत्त्य तात्पर्यमपि यत्र कुत्रचिदमृतचंद्रसूरिनिर्दिष्टमेव समुद्घोषितं ततः समजन्ययं महात्मा श्रीमदमृतचंद्रसूरितःपश्चादिति नियतं विभाव्यते।
निवेदयिता-गजाधरकाल: