________________
समयप्राभृत ।
४३ वा ज्ञानं ! यद्यज्ञानं तदा तदभेदज्ञानान्न तस्य विशेषः । ज्ञानं चेत् किमास्रवेषु प्रवृत्तं किंवास्रवेभ्यो निवृत्तं । आस्रवेषु प्रवृत्तं चेत्तदपि तदभेदज्ञानान्न तस्य विशेषः । आस्रवेषु निवृत्तं चेत्तर्हि कथं न ज्ञानादेव बंधनिरोधः इति निरस्तो ज्ञानांशः क्रियानयः । यत्त्वात्मास्रवयोर्भेदज्ञानमपि नास्रवेभ्यो निवृत्तं भवति तज्ज्ञानमेव न. भवतीति ज्ञानांशो छाननयोपि निरस्तः ।
परपरणतिमुज्झत् खंडयझेदवादानिदमुदितमखंडं ज्ञानमुचंडमुच्चैः ।
ननु कथमवकाशः कर्तृकर्मप्रवृत्तेरिह भवति कथं वा पौद्गलः कर्मबंधः ॥४७॥ केन विधिनायमास्रवेभ्यो निवर्त्तत इति चेत् ।
अहमिको खलु सुद्धो य णिम्ममो णाणदंसणसमग्गो । तमि ठिदो तच्चित्तो सव्वे एदे खयं णेमि ॥७८॥
अहमेकः खलु शुद्धश्च निर्ममतः ज्ञानदर्शनसमग्रः ।
तस्मिन् स्थितस्तच्चित्तः सर्वानेतान् क्षयं नयामि ॥७८॥ तात्पर्यवृत्तिः-अहं निश्चयनयेन स्वसंवेदनज्ञानप्रत्यक्षं शुद्धचिन्मात्रज्योतिरहं इको अनाद्यनंतः टंकोत्कीर्णज्ञायकैकस्वभावत्वादेकः खलु स्फुटं शुदोय-कर्तृकर्मकरणसंप्रदानापादानाधिकरणषटारकविकल्पचक्ररहित्वाच्छुद्धश्च णिम्ममो निर्मोहशुद्धात्मतत्त्वविलक्षणमोहोदयजनितक्रोधादिकषायचक्रस्वामित्वाभावात् ममत्वरहितः । णाणदंसणसमग्गो प्रत्यक्षप्रतिभासमयविशुद्धज्ञानदर्शनाभ्यां समग्रः परिपूर्णः एवं गुणविशिष्टपदार्थविशेषोस्मि भवामि । तमि ठिदो तस्मिन्नुक्तलक्षणे शुद्धात्मस्वरूपे स्थितः । तञ्चित्तो सच्चित्तः सहजानंदैकलक्षणसुखसमरसीभावेन तन्मयो भूत्वा सव्वे एदे खयं णेमि सर्वानेतान्निरास्रवपरमात्मपदार्थपृथग्भूतांतान् कामक्रोधाद्यास्रवान् क्षयं विनाशं नयामि प्रापयामीत्यर्थः । अथ यस्मिन्नेव काले स्वसंवेदनज्ञानं तस्मिन्नेव काले रागाद्यास्रवनिवृत्तिरिति समानकालत्वं दर्शयति ।
___आत्मख्यातिः-अहमयमात्मा प्रत्यक्षमक्षुण्णमनंतं चिन्मानं ज्योतिरनाद्यनंतनित्योदितविज्ञानघन स्वभावभावत्वादेकः । सकलकारकचक्रप्रक्रियोत्तीर्णनिर्मलानुभूतिमात्रत्वाच्छुद्धः । पुद्गलस्वामिकस्य क्रोधादिभाववैश्वरूपस्य स्वस्य स्वामित्वेन नित्यमेवापरिणमनान्निर्ममतः। चिन्मात्रस्य महसो वस्तुस्वभावत एव सामान्यविशेषाभ्यां सकलत्वाद् ज्ञानदर्शनसमग्रः । गगनादिवत्पारमार्थिको वस्तुविशेषोस्मि तदहमधुनास्मिन्नेवात्मनि, निखिलपरद्रव्यप्रवृत्तिनिवृत्त्या निश्चलमवतिष्ठमानः सकलपरद्रव्यनिमित्तकविशेषचेतनचंचलकल्लोलनिरोधेनेममेव चेतयमानः स्वाज्ञानेनात्मन्युत्प्लवमानानेतान् भावानखिलानेव क्षपयामीत्यात्मनि निश्चित्य चिरसंग्रहीतमुक्तपोतपात्रः समुद्रावर्त्त इव झगित्येवोद्वांतसमस्तविकल्पाऽकल्पितमचलितममलमात्मानमालबमानो विज्ञानघनभूतः खल्वयमात्मास्रवेभ्यो निवर्त्तते । कथं ज्ञानास्रवनिवृत्त्योः समकालत्वमिति चेत् ?
जीवणिबद्धा एदे अधुव आणिचा तहा असरणा य । दुक्खा दुक्खफलाणि य णादूण णिवत्तदे तेसु ॥७९॥
जीवनिवदा एते अध्रुवा अनित्यास्तथा अशरणाश्च । - दुःखानि दुःखफलानि च ज्ञात्वा निवर्त्तते तेभ्यः ॥७९॥
तात्पर्यवृतिः- एदे जीवणिवद्धा एते क्रोधाद्यास्रवा जीवेन सह निबद्धा संबद्धा औपाधिकाः । न पुनः निरुपाधिस्फटिकवच्छुद्धजीवस्वभावाः । अधुवा विद्युच्चमत्कारवदनुवा अतीवक्षणिकाः । ध्रुवः शुद्धजीव एव । अणिचा शीतोष्णज्वरावेशवदध्रुवापेक्षया क्रमेण स्थिरत्वं न गच्छंतीत्यनित्या विनश्वराः नित्यश्चिञ्चमत्कारमात्रशुद्धजीव एव । तहा असरणा य तथा तेनैव प्रकारेण तीवकामोद्रेकवत् त्रातुं धर्तुं रक्षितुं न शक्यंत इत्यशरणाः शरणो निर्विकारबोधस्वरूपः शुद्धजीव एव । दुक्खा आकुलत्वोत्पादकत्वदा