________________
By
सनातन जैन ग्रंथमालायां
१
सिं हे भाणिदा अज्झवसाणाणि सव्वदरसीहिं । मिच्छत्तं अण्णाणं अविर दिभावोय जोगोय ॥ १८५ ॥ हेदु अभावे णियमा जायदि णाणिस्स आसवणिरोहो । आसवभावेण विणा जायदि कम्मस्स दु णिरोहो ॥ १८६॥ कम्माभावेण य णोकम्माणं च जायदि णिरोहो । णो कम्मणिरोहेण य संसारणिरोहणं होदि ॥ १८७॥
तेषां हेतवः भणिताः अध्यवसानानि सर्वदर्शिभिः । मिथ्यात्वमज्ञानमविरति भावश्च योगश्च ।। १८५ || हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः । आस्रवभावेन विना जायते कर्मणोऽपि निरोधः ॥ १८६॥ कर्मणोऽभावेन च नोकर्मणामपि जायते निरोधः । नोकर्मनिरोधेन तु संसारनिरोधनं भवति ॥ १८७॥
तात्पर्यवृत्तिः - तेसिं हेदू भणिदा अझवसाणाणि सव्वदरसीहिं । तेषां प्रसिद्धानां जीवगतरागादिविभावकर्मरूपाणां भावास्रवाणां हेतवः कारणानि भणितानि । कानि ?, उदयप्राप्तद्रव्यप्रत्ययागतानि रागाद्यध्यवसानानि । कै: ?, सर्वदर्शिभिः । ननु अध्यवसानानि भावकर्मरूपाणि तानि जीवगतान्येव भवंति उदयप्राप्तद्रव्यप्रत्ययागतानि भावप्रत्ययानि कथं भवतीति ? । नैवं, यतः कारणात्, भावकर्मद्विधा भवति । जीवगतं पुद्गलकर्मगतं च । तथाहि भावक्रोधादिव्यक्तिरूपं जीवभावगतं भण्यते। पुद्गलपिंडशक्तिरूपं पुद्गलद्रव्यगतं । तथा चोक्तं
गलविंडो दकोहादी भावदव्वं तु -
इति जीवभावगतं भण्यते
पुग्गलपिंडो दव्वं तस्सची भावकम्पं तुइति पुद्गलद्रव्यगतं ॥
अत्र दृष्टांतो यथा - - मधुरकटुकादिद्रव्यस्य भक्षणकाले जीवस्य मधुरकटुकस्वादव्यक्तिविकल्परूप जीवभावगतं । तद्व्यक्तिकारणभूतं मधुरकटुकद्रव्यगतं शक्तिरूपं पुद्गलद्रव्यगतं एवं भावकर्मस्वरूपं जीवगतं पुद्गलगतं च द्विधेति भावकर्मव्याख्यान काले सर्वत्र ज्ञातव्यं । कानि तानि, अध्यवसानानि ? | मिच्छत्तं अण्णाणं अविरदिभावो य जोगो य मिथ्यात्वमज्ञानमविरतिर्योगश्चेति प्रथमगाथा गता ! | हेदु अभावे नियमा जायदि णाणिस्स आसवणिरोहो पूर्वोक्तानामुदयागतद्रव्यप्रत्ययानां जीवगतभावास्रवहेतुभूतानां वीतरागस्वसंवेदनज्ञानिनो जीवस्य, उदयद्रव्यकर्मरूपाणां, अभावे सति नियमान्निश्चयात् रागादिभावास्रवनिरोधलक्षणः संवरो जायते । आसवभावेण विणा जायदि कम्मस्स दुणिरोहो निरास्रवपरमात्मतत्त्व विलक्षणस्य जीवगतभावाश्रवस्य भावेन स्वरूपेण विना जायते निरोधसंवरः । कस्य ? परमात्मतत्त्वप्रच्छादकनवतरद्रव्यकर्मण इति द्वितीयगाथा गता । कम्मस्साभावेण य णोकम्माणं च जायदि णिरोहो । ततश्च नवतरकर्माभावेन संवरेण शरीरादिनोकर्मणां च जायते, निरोधसंवरः । कम्मणिरोहेण य संसारणिरोहणं होदि । नोकर्मनिरोधनेन संवरेण संसारातीत शुद्धात्मतत्त्व