________________
समपत्राभूत। . आत्मख्याति:-याहि नाम रागद्वेषमोहसूले शुभाशुभयोगै वर्तमानः, दृढतरभेदविज्ञानावष्टंभेन, आ. स्मानं, आत्मनैवात्यंत रुंवा, शुद्धदर्शनज्ञानात्मद्रव्ये सुष्ठु प्रतिष्ठितं कृत्वा समस्तपरद्रव्येच्छापरिहारण समअसंगविमुक्तो भूत्वा नित्यमेवातिनिष्प्रकंपः सन्, मनागपि कर्मनोकर्मणोरसंस्पर्शेण, आत्मीयमात्मानमेवात्मना ध्यायन् स्वयं सहजचेतयितृत्वादेकत्वमेव चेतयते । स खल्वेकत्वचेतनेनात्यंतविविक्तं चैतन्य चमत्कारमात्मानं ध्यायन् शुद्धदर्शनज्ञानमयमात्मद्रव्यमवाप्तः शुद्धात्मोपलंभे सति समस्तपरद्रव्यमयत्व मतिक्रांतः सन् , अचिरेणैव सकलकर्मविमुक्तमात्मानमवाप्नोति, एष संवरप्रकारः ।।
निजमहिमरतानां भेदविज्ञानशक्तया भवति नियतमेषां शुद्धमात्मोपलंभः ।।
अचलितमखिलान्यद्रव्यदूरे स्थितानां भवति सति च तस्मिन्नक्षयः कर्ममोक्षः । केन क्रमेण संवरो भवतीति चेत्
उवदेसेण परोक्खं रूवं जह पस्सिदूण णादेदि । भण्णदि तहेव धिप्पदि जीवो दिट्ठोय णादोय ॥१८३॥
उपदेशेन परोक्षरूपं यथा दृष्टा जानाति ।
भण्यते तथैव ध्रियते जीवो दृष्टश्च ज्ञातश्च ॥१८३॥ तात्पर्यवृत्तिः - उवदेसेण परोक्खं रूवं जह पस्सिदण णादेदि यथा लोके परोक्षमपि देवतारूपं परोपदेशाल्लिखितं दृष्ट्वा कश्चिद्देवदत्तो जानाति । भण्णदि तहेच धिप्पदि जीवो दिहोय णादोय। तथैव वचनेन भण्यते तथैव मनसि गृह्यते । कोसौ !, जीवः, केन रूपेण !, मया दृष्टो ज्ञातश्चेति मनसा संप्रधारयति । तथा चोक्तं । गुरूपदेशादभ्यासात्संवित्तः स्वपरांतरं । जानाति यः स जानाति मोक्षसौख्यं निरंतरं । अथ
कोविदिदिच्छो साहू संपडिकाले भणिज रूवमिणं । पञ्चक्खमेव दिठं परोक्खणाणे पवटुंतं ॥१८४॥
कोविदितार्थः साधुः संप्रतिकाले भणेत् रूपमिदं । . प्रत्यक्षमेव दृष्टं परोक्षज्ञाने प्रवर्तमानं ॥१८४॥ तात्पर्यवृत्तिः-अथ मतं भणिज्ज रूवमिणं पच्चक्खमेव दिदं परोक्खणाणे पवढतं । योसौ प्रत्यक्षणात्मानं दर्शयति तस्य पार्श्वे पृच्छामो वयं । नैवं (?) । कोविदिदिच्छो साहू संपडिकाले भणिज्ज कोविदितार्थ साधुः, संप्रतिकाले ब्रूयात् ? न कोपि । किं ब्रूयात, न कोऽपि । किंतु रूचमिणं पञ्चक्खमेवदिह इदमात्मस्वरूपं प्रत्यक्षमेव मया दृष्टं । चतुर्थकाले केवलिज्ञानिवत् । अपि तु नैवं कथभूतमिदमात्मस्वरूपं । परोक्खणाणे पवहतं केवलज्ञानापेक्षया परोक्षे श्रुतज्ञाने प्रवर्तमानं, इति।
किंच विस्तरः यद्यपि केवलज्ञानापेक्षया रागादिविकल्परहितं स्वसंवेदनरूपं भावश्रुतज्ञानं शुद्धनिश्चयनयेन परोक्षं भण्यते । तथापि इंद्रियमनोजनितसविकल्पज्ञानापेक्षया प्रत्यक्षं । तेन कारणेन, आत्मा स्वसंवेदनज्ञानापेक्षया प्रत्यक्षो भवति । केवलज्ञानापेक्षया परोक्षोऽपि भवति । सर्वथा परोक्ष एवेति वक्तुं नायाति । किंतु चतुर्थकालेऽपि केवलिनः, किमात्मानं हस्ते गृहीत्वा दर्शयति ? तेपि दिव्यध्वनिना भाणित्वा गच्छंति । तथापि श्रवणकाले श्रोतृणां परोक्ष एव पश्चात्परमसमाधिकाले प्रत्यक्षो भवति । तथा, इदानीं कालेऽपीति भावार्थः । एवं परोक्षस्यात्मनः कथं ध्यानं क्रियते, इति प्रश्ने परिहाररूपेण गाथाद्वयं गतं ॥ अथ , उदयप्राप्तद्रव्यप्नत्ययस्वरूपाणां रागाद्यध्यवसानानामभावे सति जीवगतरागादिभावकर्मरूपाणां, अभ्यवसानानां, अभावो भवतीत्यादिरूपेण संवरस्य क्रमाख्यानं कथयति