________________
सनातनजैनग्रंथमालायांनिरोधाच्छुद्धमेवात्मानं प्राप्नोति । यो हि नित्यमेवाज्ञानेनाशुद्धमात्मानमुपलभमानोऽवतिष्ठते सोऽझानमयाद्भावादज्ञानमयो भावो भवतीति कृत्वा प्रत्यक्कार्मास्रवणनिमित्तस्य रागद्वेषमोहसंतानस्यानिसेधादशुद्धमेवात्मानं प्राप्नोति । अतः शुद्धात्मोपलंभादेव संवरः ।
यदि कथमपि धारावाहिना. बोधनेन ध्रुवमुपलभमानः शुद्धमात्मानमास्ते ।
तदयमुदयमात्माराममात्मानमात्मा परपरिणतिरोधाच्छुद्धमेवाभ्युपैति ॥ १ ॥ केन प्रकारेण संवरो भवतीति चेत्
अप्पाणमप्पणोरंभिदूण दो (सु) पुण्णपावजोगेसु । दंसणणाणमिठिदो इच्छाविरदो य अण्णाझ ॥१०॥ जो सव्वसंगमुक्को झायदि अप्पाणमप्पणो अप्पा । णवि कम्मं णोकम्म चेदा चिंतेदि एयत्तं ॥१८१॥ अप्पाणं झायंतो दसणणाणमइओ अणण्णमणो । लहदि अचिरेण अप्पाणमेव सो कम्मणिम्मुक्कं ॥१८॥
आत्मानमात्मना रुन्ध्वा द्विपुण्यपापयोगयोः । दर्शनज्ञाने स्थितः इच्छाविरतश्चान्यस्मिन् ॥१८०॥ पः सर्वसंगमुक्तो ध्यायत्याल्मानमात्मनात्मा। नापि कर्म नोकर्म चेतयिता चिंतयत्येकत्वं ॥१८॥ आत्मानं ध्यायन् दर्शनज्ञानमयोऽनन्यमनाः।
लभतेऽचिरेणात्मानमेव स कर्मनिर्मुक्तं ।।१८२॥ तात्पर्यवृत्तिः-- अप्पाणमप्पणारंभिदणदो ( सु ) पुण्ण पावजोगेसु आत्मानं कर्मत्वापन्नं । आत्मना करणभूतेन । द्वयोः पुण्यपापयोगयोरधिकारभूतयोर्वर्तमानं स्वसंवेदनज्ञानवलेन शुभाशुभयोगाभ्यां सकाशाद्रुन्या व्यावर्त्य । दसणणाणमि ठिदो दर्शनज्ञाने स्थितः सन् । इच्छाविरदोय अण्णामि अन्यस्मिन् देहरागादिपरद्रव्ये, सर्वत्रेच्छारहितश्चेति प्रथमगाथा गता । जो सव्वसंगमुक्को झायदिअप्पाणमप्यणोअप्पा आत्मा, पुनरपि कथंभूतः सन्चसंगमुक्को निस्संगात्मतत्त्वविलक्षणबाह्याभ्यन्तरसर्व संगमुक्तः सन् । झायदि ध्यायति कं, अप्पाणं निजशुद्धात्मानं केन, करणभूतेन, अप्पणो स्वशुद्धात्मना। णवि कम्मं णोकम्मं नैव कर्म नोकर्म, ध्यायति, आत्मानं ध्यायन् । किं करोति चेदा चिंतेदि एवं गुणविशिष्टश्चेतयितात्मा चिंतयति । किं ?, एयक्तं
एकोहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः बाह्याः संयोगजा भावा मत्तः सर्वेऽपि सर्वथाः इत्यायेकलं, इति द्वितीयगाथा गता
सो इत्यादि सो स पूर्वसूत्रद्वयोक्तः पुरुषः अप्पाणं झायंतो एवं पूर्वोक्तप्रकारेणात्मानं कर्मतापन्नं चिंतयन् , निर्विकल्परूपेण ध्यायन् सन् । दंसणणाणमइओ दशर्नज्ञानमयो भूत्वा । अणण्णमणों अनन्यमनाश्च लहदि लभते । कमेव, अप्पाणमेव आत्मानमेव कथंभूतं, कम्मणिम्मुक्कं भावफर्मद्रव्यकर्म नोकर्मविमुक्तं । केन, अचिरेण स्तोककालेन । एवं केन प्रकारेणं संवरो भवति, इति प्रश्ने सति विशेष, परिहारव्याख्यानमुख्यत्वेन गाथात्रयं गतं।
अथ परोक्षस्यात्मनः कथं ध्यानं भवतीति प्रश्ने सत्युत्तरं ददाति ।