________________
समयप्राभूत। पया कनकमग्नितप्तपपि कनकभावं न तत्परित्यजति । सथा कर्मोदयतप्तो न नहाति ज्ञानी तु ज्ञानित्वं ॥१७७॥ एवं जानाति ज्ञानी अज्ञानी नानाति रागमेवात्मानं ।
अज्ञानतमोऽवच्छन्नमात्मस्वभावमजानन् ॥१७८॥ तात्पर्यवृत्तिः--जा कणयमग्गितवियं कणय सहावं ण त परिचयदि--यथा कनकं सुवर्णमग्नितप्तमपि तं कनकस्वभावं न परित्यजति । तह कम्मोदय तचिदोण चयदि णाणी दुणणितं सेन प्रकारेण तीव्रपरीषहोपसर्गेण कर्मोदयेन संतप्तोऽपि रागद्वेषमोहपरिणामपरिहारपरिणलो भेदरत्नत्रयलक्षणभदज्ञाना न त्यजति । किं तत् ! -शुद्धात्मसंवित्तिलक्षणं ज्ञानित्वं पांडवादिवदिति । एवं जाणदि णाणी एवमुक्तप्रकारेण शुद्धात्मानं जानाति वीतरागस्वसंवेदनलक्षणभेदज्ञानी अण्णाणी मुणदि रागयेवादं अज्ञानी पुनः पूर्वोक्तभेदज्ञानाभावात् मिथ्यात्वरागादिरूपमेवात्मानं मनुते जानाति।कथंभूतः सन् ! अण्णाणतमोच्छण्णो अज्ञानतमसोच्छन्नः- प्रच्छादितो पितः । पुनरपि कथंभूतः सन् । आदसहावं अयाणतो निर्विकारपरमचैतन्यचमत्कारस्वभावं शुद्धात्मानं निर्विकल्पसमाधेरभावादजानन् अननुभवन् इति । एवं भेदज्ञानात्कथं शुद्धात्मोपलंभो भवतीति पृष्ठे प्रत्युत्तरकथनरूपेण गाथाद्वयं गतं ।
अथ कथं शुद्धात्मोपलंभात्संबर इति पुनरपि पृच्छति
आत्मख्यातिः-यतो यस्यैव यथोदितभेदविज्ञानमस्ति स एव तत्सद्भावात् ज्ञानी सन्नैवं जानाति। यथा प्रचंडपावकप्रतप्तमपि सुवर्णं न सुवर्णत्वमपोहति तथा प्रचंडविपाकोपष्टब्धमपि ज्ञानं न ज्ञानत्वमपोहति, कारणसहस्रेणापि स्वभावस्यापोढुमशक्यत्वात् । तदपोहे तन्मात्रस्य वस्तुन एवोच्छेदात् । नचास्ति वस्तूच्छेदः सतो नाशासंभवात् । एवं जानंश्च कर्माक्रांतोऽपि न रज्यते न द्वेष्टि न मुह्यति किं तु शुद्धमात्मानमुपलभते । यस्य तु यथोदितं भेदविज्ञानं नास्ति स तदभावादज्ञानी सन्नऽज्ञानतमसाच्छन्नतया चैतन्यचमस्कारमात्रमात्मस्वभावमजानन् रागमेवात्मानं मन्यमानो रज्यते द्वेष्टि मुह्यते च न जातु शुद्धमात्मानमुपलभते । ततो भेदविज्ञानादेव शुद्धात्मोपलंभः । कथं शुद्धात्मोपलंभादेव संवर ! इति चेत् ।।
सुद्धं तु वियाणंतो सुद्धमेवप्पयं लहदि जीवो। जाणंतो दु असुद्धं असुद्धमेवप्पयं लहदि ॥१७९॥
शुद्धं तु विजानन् शुदमेवात्मामं लभते जीवः ।
जानंस्त्वशुद्धमशुद्धमेवात्मानं लभते ॥१७९॥ तात्पर्यवृत्तिः-सुद्धं तु वियाणंतो सुद्धमेवप्पयं लहदि जीवो भावकर्मद्रव्यकर्मनोकर्मरहित मन्तज्ञानादिगुणस्वरूपं शुद्धात्मानं निर्विकारसुखानुभूतिलक्षणेन भेदज्ञानेन विजानन्ननुभवन् ज्ञानी जीवः । एवं गुणविशिष्टं यादृशं शुद्धात्मानं ध्यायति भावयति तादृशमेव लभते। कस्मात् ? इतिचेत् उपादानसदृशं कार्यमितिहेतोः जाणतो दु असुद्धं असुद्धमेवप्पयं लहदि अशुद्धमिथ्यात्वादिपरिणतमात्मानं जानन्ननुभवन् सन् अशुद्धं, नरनारकादिरूपमेवात्मानं लभते । स कः ? । अज्ञानी जीव इति । एवं शुद्धात्मोपलंभादेव कथं संवरो भवतीति पृष्टे प्रत्युत्तरकथनरूपेण गाथा मता।
अथ केन प्रकारेण संवरो भक्तीति पृष्टे पुनरपि विशेषणोत्तरं ददाति
भात्मखताति:-योहि नित्यमेवाच्छिन्नधारावाहिना ज्ञानेन शुद्धमात्मानमुपलभमानोऽवतिष्ठते स ज्ञानमयाद् भावात् ज्ञानमय एव भावो भवतीति कृत्वा प्रत्यगकर्मास्रवणनिमित्तस्य रागद्वेषमोहसंतानस्य