________________
समयप्राभूतं । प्रतिपक्षभूतद्रव्यक्षेत्रादिपंचप्रकारसंसारनिरोधनं भवतीति तृतीयगाथा गता, । एवं संवरक्रमाख्यानेन गाथात्रयं गतं । एवं पात्रवत्संवरविपक्षभूत आस्रवो निष्क्रांतः।
इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ चतुर्दशगाथाभिः षट्स्थलैः संवरविपक्षद्वारेण आस्रव
नामा पंचमोऽधिकारः समाप्तः। . मात्मख्यातिः-संति लावज्जीवस्य, आत्मकर्मैकत्वाशयमूलानि मिथ्यात्वाज्ञानाविरतियोगलक्षणानि, मध्यवसानानि । तानि रागद्वेषमोहलक्षणस्यास्रवभावस्य हेतवः । आस्रवभावः, कर्महेतुः, कर्म, नोकर्महेतुः, नोकर्म, संसारहेतुः इति । ततो नित्यमेवायमात्मा, आत्मकर्मणोरेकत्वाध्यासेन मिथ्यात्वाज्ञानाविरतियोगमयमात्मानमध्यवस्यति। ततो रागद्वेषमोहरूपमास्रवभावं भावयति । ततःकर्म, आस्रवति। ततोनोकर्म भवति ततः संसारः प्रभवति। यदा तु, आत्मकर्मणोर्भेदविज्ञानेन शुद्धचैतन्यचमत्कारमात्रमात्मानं, उपलभते । तदा मिथ्या त्वाविरतियोगलक्षणानां, अध्यवसानानां, अस्रवभावहेतूनां, भवत्यभावः। तदभावे रागद्वेषमोहरूपास्रवभाबस्य, भवत्यभावः । तदभावेऽपि भवति कर्माभावः । तदभावेऽपि भवति संसाराभावः। इत्येष संवरक्रमः ।
संपद्यते संवर एव साक्षात्, शुद्धात्मतत्त्वस्य किलोपलंभात् ।
स भेदविज्ञानत एव तस्मात्तद्भेदविज्ञानमतीव भाव्यं ॥ ११७ ॥ भावयेद्भेदविज्ञानमिदमच्छिन्नधारया तावद्यावत्पराच्च्युत्वा ज्ञानं ज्ञाने प्रतिष्ठितं । भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन अस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥११॥ भेदबानोच्छलनकलनाच्छुद्धतत्त्वोपलंभात् रागग्रामप्रलयकरणात्कर्मणां संवरेण । विभत्तोषं परमममलालोकमम्लानमेकं ज्ञानं ज्ञाने नियतमुदितं शाश्वतोद्योतमेतत् ॥११९॥
इति संवरो निष्क्रांतः। ॥ इति समयसारव्याख्यायामात्मख्याती पंचमोऽकः ॥
तात्पर्यवृत्तिः-अथ प्रविशति संवरः । संवराधिकारेऽपि यत्र मिथ्यात्वरागादिपरिणतबहिरात्मभावनारूप आस्रवो नास्ति । तत्र संवरो भवतीत्यास्रवविपक्षद्वारेण, सप्तदशगाथापर्यंतं वीतरागसम्यक्त्वरूपसंवरव्याख्यानं करोति । तत्र प्रथमतस्तावत्, वीतरागसम्यग्दृष्टेर्जीवस्य रागद्वेषमोहरूपा आस्रवा न संतीति संक्षेपण व्याख्यानरूपेण 'मिच्छत्तं अविरमणं' इत्यादि गाथात्रयं । तदनंतरं रागद्वेषमोहास्रवाणां पुनरपि विशेषविवरणमुख्यत्वेन 'भावो रागादिजुदो' इत्यादि स्वतंत्रगाथात्रयं । ततः परं केवलज्ञानादिव्यक्तिरूपकार्यसमयसारकारणभूतनिश्चयरत्नत्रयपरिणतस्य ज्ञानिजीवस्य रागादिभावप्रत्ययनिषेधमुख्यत्वेन परविड इत्यादि गाथात्रयं । अतःपरं तस्यैव ज्ञानिनो जीवस्य मिथ्यात्वादिद्रव्यप्रत्ययास्तित्वेऽपि वीतरागचारित्रभावनावलेन रागादिभावप्रत्ययनिषेः मुख्यतया सव्वे पुब्बाणिवद्धा इस्यादि सूत्रचतुष्टयं । तदनंतरं नवतरद्रब्यकर्मानवस्योदयागतद्रव्यप्रत्ययानां जीवगतरागादिभावप्रत्ययाकारणमिति कोरणकारणमुख्यत्वेन रागो. दोसो इत्यादिसूत्रचतुष्टयं कथयति, इति समुदायेन सप्तदशगाथाभिः पंचस्थलैः संपराधिकारसमुदायपातनिका ।
अथ द्रव्यभावास्रवस्वरूपं कथयति । भात्मख्यातिः-अथ प्रविशत्यास्रवः ।
अथ महामदनिर्भरमंथरं समररंगपरागतमात्र ।
अयमुदारगभीरमहोदयो जयति दुर्जयबोधधनुर्धरः ॥१२०॥ १यदनादिकालादारभ्याशुद्धरागादिविभावरूपेण परिणतं तदेव काललब्धि प्राप्य शुदस्वरूपेण परिणतमित्यर्थः । २. पुस्तके कारणण्यास्यानमुख्यत्वेन इवेव पाः ।