________________
९८
समातन जैनग्रंथमालायां
तत्रात्रवस्वरूपमभिदधाति
मिच्छत्तं अविरमणं कसायजोगा य सण्णसण्णादु | वहुविहभेदा जीवे तस्सेव अणण्णपरिणामा ॥ १८८ ॥ णाणावरणादीयस्स ते दु कम्मस्स कारणं होंति । सिंप होदि जीवो रागदोसादिभाव करो ॥ १८९ ॥ मिथ्यात्वमविरमणं कषाययोगौ च संज्ञासंज्ञास्तु | बहुविधभेदा जीवे तस्यैवानन्यपरिणामाः ॥ १८८ ॥ ज्ञानावरणाद्यस्य ते तु कर्मणः कारणं भवंति । तेषामपि भवति जीवः रागद्वेषादिभावकरः ।। १८९ ॥
तात्पर्य वृत्तिः - मिच्छत्तं अचिरमणं कसायजोगा य सण्णसण्णा दु सण्णसण्णा इत्यत्र प्राकृसलक्षणवलात--अकारलोपो दृष्टव्यः । मिथ्यात्वाविरातप्रमादकषाययोगाः, कथंभूताः, भावप्रत्ययद्रव्यप्रत्ययरूपेण संज्ञाऽसंज्ञाश्चेतनाचेतनाः । अथवा संज्ञाः, आहारभयमैथुनपरिग्रहरूपाः । असंज्ञा:, ईषत्संज्ञाः, इहलोकाकांक्षा परलोकाकांक्षाकुधर्माकांक्षारूपास्तिस्रः । कथंभूताः, एते नहुविहभेदा जीवे । उत्तरप्रब्ययभेदेन बहुधा विविधाः, क ? जीवे, अधिकरणभूते । पुनरपि कथंभूताः तस्सेव अणण्णपरिणामा अनन्यपरिणामाः, अभिन्नपरिणामाः तस्यैव जीवस्याशुद्धनिश्वयनयेनेति ।
णाणावरणादीयस्स ते दु कम्पस कारणं होंति ते च पूर्वोक्तद्रव्यप्रत्ययाः, उदयागताः संतः, निश्चयचारित्राविनाभूतवीतरागसम्यक्त्वाभावे सति शुद्धात्मस्वरूपच्युतानां जीवानां ज्ञानावरणद्यष्टविधस्य द्रव्यकर्मास्रवस्य कारणभूता भवंति । तेसिंपि होदि जीवो रागदोसादिभावको तेषां च द्रव्यप्रत्ययानां जीवः कारणं भवति । कथंभूतः ? रागद्वेषादि भावकरः, रागद्वेषादिभावपरिणतः । अयमत्रभावार्थ:- द्रव्यप्रत्ययोदये सति शुद्धात्मस्वरूपभावनां त्यक्त्वा यदा रागादिभावेन परिणमति तदा बंधो भवति । नैवोदयमात्रेण, यदि उदयमात्रेण बंधो भवति ? तदा सर्वदा संसार एव । कस्मात् ? इति चेत् संसारिणां सर्वदैव कर्मोदयस्य विद्यमानत्वात् । तर्हि कर्मोदयो बंधकारणं न भवति, ? इति चेत् तत्र निविकल्पसमाधिभ्रष्टानां मोहसहितकर्मोदयो व्यवहारेण निमित्तं भवति । निश्चयेन पुनः, अशुद्धोपादामकारणं स्वकीयरागाद्यज्ञानभाव एव ।
1
अथ वीतराग स्वसंवेदन ज्ञानिनो जीवस्य रागद्वेषमोहरूपभावात्रवाणामभावं दर्शयति
आत्मख्यातिः - रागद्वेषमोहा आस्रवाः, इह हि जीवे स्वपरिणामनिमित्ताः, अजड़त्वे सति चिदाभासाः, मिथ्यात्वाविरतिकषाययोगाः पुद्गलपरिणामाः, ज्ञानावरणादिपुद्गलकर्मास्रवणनिमित्तत्वात्किलास्रवाः । तेषां तु तदास्रवणनिमित्तत्वनिमित्तं, अज्ञानमया आत्मपरिणामा रागद्वेषमोहा: ? । तत आस्रवणनिमित्तस्वनिमित्तत्वात् रागद्वेषमोहा एवास्रवाः, ते चाचानिन एव भवंतीति, अर्थादेवापद्यते । अथ ज्ञानिनस्तदभावं दर्शयति
त्थिदु आसववंधो सम्मादिठ्ठिस्स आसवणिरोहो । संते पुव्वणिवद्धे जाणदि सो ते अवधंतो ॥ १९०॥
नास्ति त्वास्रवबंधः सम्यग्दृष्टेरास्रव निरोधः ।
संति पूर्वनिबद्धानि जानाति स ताभ्यवन् ॥ १९० ॥