________________
समयप्राभूतं । गत्यि-इत्यादि पदखंडनारूपेण व्याख्यानं क्रियते । णस्थि दु आसववंधो सम्पादिहिस्स पासवणिरोहो न भवतः, न विद्यते । कौ ! तौ आस्रवबंधौ । गाथायां पुनः समाहारद्वन्द्वसमासापेक्षया द्विवचनमप्येकवचनं कृतं । कस्यास्रवबंधौ न स्तः ? सम्यग्दृष्टीवस्य । ताहे किमस्ति ? आस्रवनिरोधलक्षणसंवरोऽस्ति सो स सम्यग्दृष्टिः संते संति विद्यमानानि ते तानि पुव्वणिवद्धे पूर्वनिवद्धानि ज्ञानावरणादि कर्माणि । अथवा प्रत्ययापेक्षया पूर्वनिबद्धान् मिथ्यात्वादिप्रत्ययान् जाणदि जानाति वस्तुस्वरूपेण जानाति किं कुर्वन् सन् ! अवंधतो विशिष्टभेदज्ञानवलान्नवतराण्यभिनवान्यबध्नन्-अनुपार्जयन् , इति । भयमत्र भावार्थः । सरागवीतरागभेदेन द्विधा सम्यग्दृष्टिर्भवति तत्र योऽसौ सरागसम्यग्दृष्टिः ।
सोलसपणवीसणभं दसचउछक्ककं वंधवो छिण्णा । .. . दुगतीसचदुरपुव्वे पणसोलसजोगिणो इक्को
इत्यादि बंधत्रिभंगकथितबंधविच्छेदक्रमण मिथ्यादृष्टयपेक्षया त्रिचत्वारिंशत्प्रकृतीनामबंधकः । सप्ताधिकसप्ततिप्रकृतीनामल्पस्थित्यनुभागरूपाणां बंधकोऽपि सन् संसारास्थितिच्छेदको भवति । तेन कारणेनाबंधक इति । तथैवाविरातिसम्यग्दृष्टेर्गुणस्थानादुपरि यथासंभवं सरागसम्यक्त्वपर्यंतं, अधस्तनगुणस्थानापेक्षया तारतम्येनाबंधकः । उपरिमगुणस्थानापेक्षया पुनबंधकः। ततश्च वीतरागसम्यक्त्वे जाते साक्षादबंधको भवति, इति मत्वा वयं सम्यग्दृष्टयः सर्वथा बंधो नास्तीति वक्तव्यं । इति आस्रवविवक्षद्वारेण संवरस्य संक्षेपसूचनव्याख्यानमुख्यत्वेन गाथात्र्यं गतं । भथ रागद्वेषमोहरूपभावानामास्रवत्वं निश्चिनोति
आत्मख्यातिः- यतो हि ज्ञानिनोऽज्ञानमयैर्भावैरज्ञानमया भावाः, अवश्यमेव निरुध्यते । ततो ऽज्ञानमयाना भावानां, रागद्वेषमोहानां, आस्रवभूतानां निरोधात् ज्ञानिनो भवत्येव आस्रवनिरोधः । अतो ज्ञानी नानवनिमित्तानि पुद्गलकर्माणि बध्नाति, नित्यमेवाकर्तृकत्वान्नवानि न बनन् सदवस्थानि पूर्वबद्धानि ज्ञानस्वभावत्वात्केवलमेव जानाति । भय रागद्वेषमोहानामास्रवत्वं नियमयति
भावो रागादिजुदो जीवेण कदो दु वंधगो होदि । रागादिविप्पमुक्को अवंधगो जाणगो णवरि ॥१९॥ भावो रागादियुतः जीवेन कृतस्तु बंधको भवति ।
रागादिविषमुक्तोऽबंधको ज्ञायको नवरि ॥ १९१ ॥ सापर्यवृत्तिः - भावो रागादिजुदो जीवेण कदो दु वंधगो होदि यथा अयस्कांतोपल संपर्कजो भावः परिणतिविशेषः, कालायससूचिं प्रेरयति । तथा जीवेन कृतो रागाद्यज्ञानजो भावः परिणतिविशेषः कर्ता, शुद्धस्वभावेन सानंदमव्ययमनादिमनंतशक्तिमुद्यौतिनं निरुपलेपगुणमपि जीवं शुद्धस्वभावा प्रच्युतं कृत्वा कर्मबंधं कर्तुं प्रेरयति । रागादिविप्पमुको अवंधगो जाणगो णवरि रागादिज्ञानविप्रमुक्तो भावस्त्वबंधकः सन् नवरि किंतु जीवं कर्मबंध कर्तुं न प्रेरयति । तर्हि किं करोति ? पूर्वोक्तशुद्धस्वभावेनैव स्थापयति। ततो ज्ञायते निरुपरागचैतन्यचिच्चमत्कारमात्रपरमात्मपदार्थाद्धिन्ना रागद्वेषमोहा एव बंधकारणमिति। अथ रागादिरहितशुद्धभावस्य संभवं दर्शयति
__ आत्मख्यातिः --इह खलु रागद्वेषमोहसंपर्कजोऽज्ञानमय एव भावः, अयस्कांतीपलसंपर्कज इव कालायससूची, कर्म कर्तुमात्मानं चोदयति । तद्विवेकजस्तु ज्ञानमयः, अयस्कांतोपलविवेकज इव कालायससूची, अकर्मकरणौत्सुक्यमात्मानं स्वभावेनैव स्थापयति । ततो रागादिसंकीर्णोऽज्ञानमय एव कर्तृत्वे चोदकत्वादूंधकः । सदसंकीर्णस्तु स्वभावोद्भासकत्वात्केवलं ज्ञायक एव ; न मनागपि बंधकः। अथ रागाद्यसंकीर्णभावसंभवं दर्शयति