________________
१००
समातनजैनग्रंथमालायां
पके फलम्मि पडदे जह ण फलं वज्झदे पुणो विंटे । जीवस्स कम्मभावे पड़िदे ण पुणोदयवेहि ॥ १९२॥ पक्के फले पतिते यथा न फलं बध्यते पुनर्वृत्ते । जीवस्य कर्मभावे पतिते न पुनरुदयमुपैति ॥। १९२ ॥
तात्पर्यवृत्ति: – पक्के फलम्पि पड़िदे जह ण फलं वज्झदे पुणो विंटे यथा पके फले पतिते सति पुनरपि तदेव फलं वृंत्ते न बध्यते । जीवस्स कम्मभावे पडदे ण पुणोदयमुषेहि तथा तत्त्वमानिनो जीवस्य सातासातोदयजनितसुखदुःखरूपकर्मभावे, कर्मपर्याये पतिते गलिते निर्जीर्णे सति रागद्वेषमोहाभावात् पुनरपि तत्कर्म बंधं नायाति । नैवोदयं च । ततो रागाद्यभावात्, शुद्धभावः संभवति । तत एव च सम्यग्दृष्टेर्जीवस्य निर्विकारस्वसंवित्तिवलेन संवरपूर्विका निर्जरा भवतीत्यर्थः ।
अथ ज्ञानिनो नवतरद्रव्यास्त्रवाभावं दर्शयति
आत्मख्यातिः- :- यथा खलु पक्कं फलं वृंतात्सकृद्विश्लिष्टं सत्, न पुनर्वृतसंबंधमुपैति तथा कर्मोदयजो भावो जीवभावात्सकृद्विश्लिष्टः सन्, न पुनर्जीवभावमुपैति । एवं ज्ञानमयो रागाद्यसंकीर्णो भावः संभवति । भांवों रागद्वेषमोहैर्विना यो जीवस्य स्याद् ज्ञाननिर्वृत्त एव । रुंधन् सर्वान् दैव्यकर्मास्रवैौघान् एषोऽभावः सर्वभावा वाणां ॥१२१ ere ज्ञानिनो द्रव्यास्रवाभावं दर्शयति
पुढवीपिंडसमाणा पुव्वणिवद्धा दु पच्चया तस्स । कम्मसरीरेण दु ते वृद्धा सव्वेपि णाणिस्स ॥ १९३॥ पृथ्वीपिंड समानाः पूर्वनिवद्धास्तु प्रत्ययास्तस्य ।
कर्मशरीरेण तु ते बद्धाः सर्वेऽपि ज्ञानिनः ॥ १९३ ॥
1
तात्पर्यवृत्तिः - पुढ़वीपिंडसमाणाः पुम्वणिवद्ध । दु पच्चया तस्स पृथ्वीपिंडसमानाः, अकिंचित्करा भवंति । के ते ? पूर्वनिंबद्धाः मिथ्यात्वादिद्रव्यप्रत्ययाः । कस्य ? तस्य वीतरागसम्यग्दृष्टेर्जीवस्य । यतो रागाद्यजनकत्वादकिंचित्करास्ततः कारणात्, नवतरद्रव्यकर्मबंधो न भवति । तर्हि पृथ्वीपिंडसमानाः संतः केन रूपेण तिष्ठंति ? कम्मसरीरेण दु ते वद्धा सव्वेपि णाणिस्स कार्मणशरीररूपेणैव ते सर्वे बद्धास्तिष्ठंति, नच रागादिभावपरिणतजीवरूपेण । कस्य : निर्मलात्मानुभूतिलक्षणभेदविज्ञानिनो जीवस्येति । किंच यद्यपि द्रव्यप्रत्ययाः कार्माणशरीररूपेण मुष्टिबद्धविपत्तिष्ठति तथापि उदयाभावे सुखदुःख विकृतिरूपां बाधां न कुर्वेति । तेन कारणेन ज्ञानिनो जीवस्य, नवतरकर्मास्त्रवाभाव इति भावार्थः । एवं रागद्वेषमोहरूपास्त्रवाणां विशेषविवरणरूपेण स्वंतंत्रगाथात्रयं गतं । अथ कथं ज्ञानी निरास्रवः ? इति पृच्छति ।
आत्मख्यातिः-ये खलु पूर्व, अज्ञानेनैव बद्धा मिध्यात्वाविरतिकषाययोगा द्रव्यासवभूताः प्रत्यते ज्ञानिनो द्रव्यांतरभूताः, चेतनपुद्गलपरिणामत्वात् पृथ्वीपिंडसमानाः । ते तु सर्वेऽपि स्वभावत एव कार्माणशरीरेणैव संबंद्धा न तु जीवेन, अतः स्वभावसिद्ध एव द्रव्यास्त्रवाभावोऽज्ञानिनः ।
याः,
भावास्त्रवाभावमयं प्रपन्नो द्रव्यास्रवेभ्यः स्वत एव भिन्नः ।
ज्ञानी सदा ज्ञानमयैकभावो निरास्रवो ज्ञायक एक एव ॥ १२२ ॥
कथं ज्ञानी निरास्रवः ? इति चेत्
१ सम्मक्त्वपूर्वः शुद्धस्वरूपानुभवः परिणामः । २ द्रव्यकर्मणां ज्ञानावरणादीनामाश्रवः प्रतिसमयं धाराप्रवाहरूपतया आत्मप्रदेश सहान्योन्यामुगमः, तस्यैौघान् ।