________________
. समयप्राभृतं । चहुविह अणेयभेयं वंधते णाणदंसणगुणेहि। समये समये जमा तेण अवधुत्ति णाणी दु ॥१९॥
चतुर्विधा अनेकभेदं वनंति ज्ञानदर्शनगुणाभ्यां ।
समये समये यस्मात् तेनाबंध इति ज्ञानी तु ॥ १९४ ॥ तात्पर्यवृत्तिः-चहुविह अणेयभेयं वर्धते णाणदंसणगुणेहिं चहुविह इति वहुवचने प्राकृतलक्षणवलेन हस्वत्वं । चतुर्विधा मूलप्रत्ययाः कर्तारः । ज्ञानावरणादिभेदभिन्नमनेकविधं कर्म कुर्वति । काभ्यां कृत्वा ? ज्ञानदर्शनगुणाभ्यां । दर्शनज्ञानगुणौ कथं बंधकारणभूतौ भवतः, ? इति चेत्-अयमत्र भावः, द्रव्यप्रत्यया उदयमागताः संतः जीवस्य ज्ञानदर्शनद्वयं रागाद्यज्ञानभावेन परिणमयंति, तदा रागाद्यज्ञानभावपरिणतं ज्ञानदर्शनगुणद्वयं बंधकारणं भवति । वस्तुतस्तु रागाद्यज्ञानभावपरिणतं ज्ञानदर्शनगुणद्वयं, अज्ञानमेव भण्यते तत् । 'अणाणदंसणगुणेहि' इति पाठातरं केचन पठंति । समए समए जमा तेण अवंप्रत्ति णाणी द समये समये यस्मात् प्रत्ययाः कर्तारः । ज्ञानदर्शनगुणं रागद्यज्ञानपरिणतं कृत्वा नवतरं कर्म कुर्वति । तेन कारणेन भेदज्ञानी बंधको न भवति । किं तु ज्ञानदर्शनरंजकत्वेन प्रत्यया एव बंधकाः, इति शानिनो निरास्रवत्वं सिद्धं ।। अथ कथं ज्ञानगुणपरिणामो बंधहेतुरिति पुनरपि पृच्छति___आत्मख्यातिः-ज्ञानी हि तावदानवभावनाभिप्रायाभावान्निराम्रव एव । यत्तु तस्यापि द्रव्यप्रत्ययाः प्रतिसमयमनेकप्रकार पुद्गलकर्म बघ्नंति । तत्र ज्ञानगुणपरिणामहेतुः । कथं ज्ञानगुणपरिणामो बंधहेतुरिति चेत्
जह्मा दु जहण्णादो णाणगुणादो पुणोवि परिणमदि । अण्णत्तं गाणगुणो तेण दु सो बंधगो भणिदो ॥१९५॥ यस्मात्तु जघन्यात् ज्ञानगुणात् पुनरपि परिणमते ।
अन्यत्वं ज्ञानगुणः तेन तु स बंधको भणितः ॥ १९५ ॥ तात्पर्यवृत्तिः-जमा दु जहण्णादो णाणगुणादो पुणोवि परिणमदि अण्णसं णाणगुणो. यस्मात् यथाख्यातचारित्रात्पूर्व जघन्यो हीनः सकषायो ज्ञानगुणो भवति । तस्मात्-जघन्यत्वादिव ज्ञान. गुणात् सकाशात्, अंतर्मुहूर्तानंतरं निर्विकल्पसमाधौ स्थातुं न शक्नोति जीवः । ततः कारणात्, अन्यत्वं सविकल्पपर्यायांतरं परिणमति स कः ? कर्ता ज्ञानगुणः । तेण दु सो बंधगो भणिदो तेन सविकल्पेन कषायभावेन स ज्ञानगुणो बंधको भणितः । अथवा द्वितीयव्याख्यानं । जघन्यात् कोऽर्थः जघन्यात्, मिथ्यादृष्टिज्ञानगुणात् काललब्धिवशेन सम्यक्त्व प्राप्ते सति ज्ञानगुणः कर्ता मिध्यापर्यायं त्यक्त्वा अन्यत्वं सम्यग्ज्ञानित्वं परिणमति । तेण दु सो बंधगो भणिदो तेन कारणेन ज्ञानगुणो ज्ञानगुणपरिणतजीवो वा अबंधको भाणित इत्यभिप्रायः । अथ यथाख्यातचारित्राधस्तादंतर्मुहूर्तानंतरं निर्विकल्पसमाधौ स्थातुं न शक्यत इति भणितं पूर्वं । एवं सति कथं ज्ञानी निरास्रव इति चेत्
आत्मख्याति:- ज्ञानगुणस्य हि यावज्जघन्यो भावः, तावत् तस्यांतर्मुहूर्तविपरिणामित्वात् पुनः पुनरन्यतयास्ति परिणामः । स तु यथाख्यातचारित्रावस्थाया अधस्तादवश्यंभाविरागसद्भावात् , बंधहेतुरेव स्यात् । एवं सति कथं ज्ञानी निरास्रवः १ इति चेत् ।
दंसणणाणचरित्तं जं परिणमदे जहण्णभावेण । णाणी तेण दु वज्झदि पुग्गलकम्मेण विविहेण ॥१९६॥