________________
१०२
सनातन जैन ग्रंथमालाम
दर्शनज्ञानचारित्रं यत्परिणमते जघन्यभावेन । ज्ञानी तेन तु बध्यते पुद्गलकर्मणा विविधेन ॥ १९६ ॥
तात्पर्यवृत्तिः - दंसणणाणचरितं जं परिणमदे जहणणंभावेण ज्ञानी तावदिहा पूर्वरागादि विकल्पकारणाभावान्निरास्रव एव । किं तु सोऽपि यावत्कालं परमसमाधेरनुष्ठानाभावे सति शुद्धात्मस्वरूपं दृष्टुं ज्ञातुमनुचरितुं वा समर्थं तावत्कालं तस्यापि संबंधि यद्दर्शनं ज्ञानं चारित्रं तज्जघन्यभावेन सकषायभावेन, अनीहितवृत्त्या परिणमति । णाणी तेण दु वज्झदि पुग्गलकम्मेण विविहेण तेन कारणेन सन् भेद ज्ञानी स्वकीयगुणस्थानानुसारेण परंपरया मुक्तिकारणभूतेन तीर्थंकरनामकर्म प्रकृत्यादिपुद्गलरूपेण विविधपुण्यकर्मणा बध्यते । इति ज्ञात्वा ख्यातिपूजाला भभोगाकांक्षारूप निदानबंधादिभावपरिणामपरिहारेण निर्विकल्पसमाधौ स्थित्वा तावत्पर्यंतं शुद्धात्मरूपं दृष्टव्यं ज्ञातव्यमनुचरितव्यं च यावत्तस्य शुद्धात्मस्वरूपस्य परिपूर्णः केवलज्ञानरूपो भावो दृष्टो ज्ञातोऽनुचरितश्च भवतीति भावार्थ: । एवं ज्ञानिनो भावास्रवस्वरूपनिषेधमुख्यत्वेन गाथात्रयं गतं । अथ द्रव्यप्रत्ययेषु विद्यमानेषु कथं ज्ञानी निरास्रवः । इति चेत् — i
आत्मख्यातिः - योहि ज्ञानी स बुद्धिपूर्वकरागद्वेषमोहास्रवभावाभावात् निरास्रव एव किंतु सोऽपि यावदज्ञानं सर्वोत्कृष्टभावेन दृष्टुं ज्ञातुमनुचरितुं वाऽशक्तः सन् जघन्यभावेनैव ज्ञांनं पश्यति जानात्यनुचरति तावत्तस्यापि जघन्यभावान्यथानुपपत्त्याऽनुमीयमानाऽबुद्धिपूर्वककलंकविपाकसद्भावात् पुद्गलकर्मवंधः स्यात् । अतस्तावद्ज्ञानं दृष्टव्यं ज्ञातव्यमनुचरितव्यं च यावद् ज्ञानस्य यावान् पूर्णोभावस्तावान् दृष्टो ज्ञातोऽनुचरितश्च सम्यग्भवति । ततः साक्षात् ज्ञानीभूतः सर्वथा निरास्रव एव स्यात् ।
सन्यस्यन्निजबुद्धिपूर्वमनिशं रागं समयं स्वयं वारंवारमबुद्धिपूर्वमपि तं जेतुं स्वशक्तिं स्पृशन् । उच्छिदन् परिवृत्तिमेव सकलां ज्ञानस्य पूर्णोभवन्नात्मा नित्यनिरास्वो भवति हि ज्ञानी यदा स्यात्तदा । सर्वस्यामेव जीवंत्यां द्रव्यप्रत्ययसंततौ ।
कुतो निरास्रवो ज्ञानी नित्यमेवेति चेन्मतिः ॥ १२३ ॥ सव्वे पुब्वणिवद्धा दु पच्चया संति सम्मदिट्ठिस्स । उवओपाओगं बंधते कम्मभावेण ॥ १९७॥ संतीव निरवभोज्जा वाला इच्छी जहेव पुरुसस्स | वंधदि ते उभोजे तरुणी इच्छी जह णरस्स ॥१९८॥ हेदूण णिरवभोज्जा तह बंधदि जह हवंति उवभोज्जा । सत्तविहा भूदा णाणावरणादिभावेहिं ॥ १९९॥ देण कारण दु सम्मादिट्ठी अवधगो होदि । आसवभावाभावेण पच्चया बंधगा भणिदा । चतुष्कं ॥ २००॥
सर्वे पूर्वनिबद्धास्तु प्रत्ययाः संति सम्यग्दृष्टेः । उपयोगप्रयोग्यं बधंति कर्मभावेन ।। १९७ ।। संति तु निरुपभोग्यानि वाला स्त्री यथेह पुरुषस्य |
१ बुद्धिपूर्वका परिणामा ये मनोद्वारा बाह्यविषयानालंब्य प्रवर्तते । प्रवर्तमानाश्च स्वानुभवगम्याः अनुमानेन परस्यापि गम्या भवंति । अबुद्धिपूर्वकास्तु परिणामा इंद्रियमनोव्यापारमंतरेण केवलमा दयानिमित्तास्ते तु स्वानुभव गोचरत्वादयुद्धपूर्वका इति विशेषः ।