________________
समयप्राभृतं ।
१०३ बनाति तानि उपभोग्यानि तरुणी स्त्री यथा पुरुषस्य ॥१९८ ॥ भूत्वा निरुपभोग्यानि तथा बधाति यथा भवेत्युपभोग्यानि । सप्ताष्टविधानि भूतानि ज्ञानावरणादिभावैः ॥ १९९ ।। एतेन कारणेन तु सम्यग्दृष्टिरवधंको भणितः ।
भास्रवभावाभावे न प्रत्यया बंधका भणिताः ॥ २०॥ तात्पत्तिः-सव्वे पुव्वणिवद्धा दु पच्चया संति सम्मदिहिस्स सर्वे पूर्वनिबद्धा द्रव्यप्रत्ययाः संति तावत्सम्यग्दृष्टेः । उबोगप्पाओगं बंधते कम्मभावेण यद्यपि विद्यते तथाप्युपयोगेन प्रायोग्यं तत्कालोदयप्रायोग्यकर्मतापन्नं कर्म बध्नति । फेन कृत्वा ! भावेन रागादिपरिणामेन नचास्तित्वमात्रेण बंधकारणं भवतीति । संतावि णिरवमोजा वाला इच्छी जहेव पुरुसस्स विद्यमानान्यपि कर्माणि कचित्प्राकृते लिंगव्यभिचारोऽपि, इति वचनाम पुंसकलिंगे पुलिंगनिर्देशः । पुलिंगेऽपि नपुंसक लिंग निर्देशः । कारके कारकांतर निर्देशो भवति, इति । तानि कर्माणि उदयात्पूर्व निरुपभोग्यानि भवति । केन दृष्टांतेन ? वाला स्त्री यथा पुरुषस्य । वंधदि ते उवभोजे तरुणी इच्छी जह णरस्स तानि कर्माणि उदयकाले उपभोग्यानि भवंति । रागादिभावेन नवतराणि च वनंति । कथं ? यथा तरुणी स्त्री बरस्येति । अथ तमेवार्थ दृढ़यति । उदयात्पूर्व निरुपभोग्यानि भूत्वा कर्माणि स्वकीयगुणस्थानानुसारेण, उदयकाले प्राप्य यथाभोग्यानि भवंति, तथा रागादिभावेन परिणामेन अयुष्कबंधकाले अष्टविधभूतानि शेषकाले सप्तविधानि ज्ञानावरणादिद्रव्यकर्मभावेन पर्यायेण नवतराणि बध्नति नचास्तित्वमात्रेणेति । रागादिभावास्रवस्याभावे द्रव्यप्रत्यया अस्तित्वमात्रेण बंधकारणं न भवंति। एतेन कारणेन सम्यग्दृष्टिरबंधको भणित इति । किं च विस्तारः, मिथ्यादृष्टयपेक्षया चतुर्थगुणस्थाने सरागसम्यग्दृष्टिः, त्रिचत्वारित्प्रकृतीनाम बंधकः । सप्ताधिकसप्ततिप्रकृतीनामल्पस्थित्यनुभागरूपाणां बंधकोऽपि संसारस्थितिच्छेदं करोति । तथा चोक्तं " सिद्धांते द्वादशांगावगमस्तत्तीवभक्तिरनिवृत्तिपरिणामः केवलिसमुद्धातश्चेति संसारस्थितिघातक रणानि भवंति" तद्यथा तत्र द्वादशांगश्रुतविषये, अवगमो ज्ञानं व्यवहारेण बहिर्विषयः । निश्चयेन तु वीतरागस्वसंवेदनलक्षणं चेति । भक्तिः पुनः सम्यक्त्वं भण्यते व्यवहारेण सरागसम्यग्दृष्टीनां परमेष्ठयाराधनारूपा । निश्चयेन सम्यग्दृष्टीनां शुद्धात्मतत्त्वभावनारूपा चेति । न निवृत्तिरनिवृत्तिः शुद्धात्मस्वरूपा दचलनं, एकाग्रपरिणतिरिति । तत्रैवं सति द्वादशांगावगमो निश्चयव्यवहारज्ञानं जातं । भक्तिस्तु निश्चयव्यवहारसम्यक्त्वं जातं । अनिवृत्तिपरिणामस्तु सरागचारित्रानंतरं वीतरागचारित्रं जातमिति सम्यग्दनिज्ञानचरित्राणि भेदाभेदरत्नत्रयरूपेण संसारविच्छित्तिकारणानि भवंति । केषां ? छद्मस्थानामिति । केवलिनां तु भगवतां दंडकपाटप्रतरलोकपूरणरूपकेवलिसमुद्धातः संसारविच्छित्तिकारणमिति भावार्थः । एवं द्रव्यप्रत्यया विद्यमाना अपि रागादिभावास्रवाभावे बंधकारणं न भवंतीति व्याख्यानमुख्यत्वेन गाथा चतुष्टयं गतं । अथ यत एव कर्मबंधहेतुभूतरागद्वेषमोहाः, ज्ञानिनो न संति । तत एव तस्य कर्मबंधो नास्तीति कथयति
आत्मख्याति:-यतः सदवस्थायां तदात्वपरिणीतवालस्त्रीवत् पूर्वमनुपभोग्यत्वेऽपि विपाकावस्थायां प्राप्तयौवनपूर्वपरिणीतस्त्रीवत् उपभोग्यप्रायोग्यं पुद्गलकर्मद्रव्यप्रत्ययाः संतोऽपि कर्मोदयकार्यजीवभावसद्भावादेव बध्नति । ततो ज्ञानिनो यदि द्रव्यप्रत्ययाः पूर्वबद्धाः संति । संतु। तथापि स तु निरास्रव एव कर्मोदयकार्यस्य रागद्वेषमोहरूपस्यास्त्रवभावस्याभावे द्रव्यप्रत्ययानामबंधहेतुत्वात् ।
विजहति नहि सत्ता प्रत्ययाः पूर्वबद्धाः समयमनुसरंतो यद्यपि द्रव्यरूपाः । तदपि सकलरागद्वेषमोहव्युदासात्, अवतरति न जातु ज्ञानिनः कर्मबंधः ॥१२४॥
रगद्वेषक्मिोहानां ज्ञानिनो यदसंभवः । तस एव म बंधोख ते हि बंधस्य कारणं ॥१२॥