________________
१०४
सनातनजैनग्रंथमालायां
रागो दोषो मोहो य आसवा णत्थि सम्मदिस्सि । ता आसवभावेण विणा हेदू ण पच्चया होंति ॥ २०९ ॥ हेदू चदुवियप्पो अडवियप्पस कारणं होदि । hi पिय रागादी सिमभावेण वज्झति ॥ २०२॥ राग द्वेषो मोह आस्रवा न संति सम्यग्दृष्टेः । तस्मादावभावेन विना हेतवो न प्रत्यया भवंति ॥२०१ ॥ हेतुश्चतुर्विकल्पः, अष्ट विकल्पस्य कारणं भवति । तेषामपि च रागादयस्तेषामभावे न बध्यते ॥ २०२ ।।
तात्पर्यवृत्तिः -- रागो दोसो मोहो य आस्रवा णत्थि सम्मदिठ्ठिस्स रागद्वेषमोहाः सम्यग्दृष्टेर्न भवंति, सम्यग्दृष्टित्वान्यथानुपपत्तेरिति हेतुः । तथा हि, अनंतानुबंधिक्रोधमानमाया लोभ मिथ्यात्वोदय जनिता रागद्वेषमोहाः सम्यग्दृष्टेर्न संतीति पक्षः । कस्मात् ? इतिचेत् केवलज्ञानाद्यनंतगुणसहितपरमात्मो पदेशत्वे सति वीतरागसर्वज्ञप्रणीतषद्द्रव्यपंचास्तिकायसप्तत्तत्त्वनवपदार्थरुचिरूपस्य मूढत्रयादिपंचविशति - दोषरहितस्य
संवेओ णिव्वेओ जिंदा गरुहय उवसमो भत्ती । वच्छलं 'अणुकंपा गुणट्ठसम्मत्तत्तस्म ॥
इति गाथाकथितलक्षणस्य चतुर्थगुणस्थानवर्तिसरागसम्यक्त्वान्यथानुपपत्तेरिति हेतुः । अथवा, अनंतानुबंध्यप्रत्याख्यानावरणसंज्ञाः क्रोधमानमायालोभोदय जनिता रागद्वेषमोहाः सम्यग्दृष्टेर्न संतीति पक्षः । कस्मात् ? इति चेत् निर्विकारपरमानंदैकसुखलक्षणपरमात्मोपादेयत्वे सति षट्द्रव्यपंचास्तिकायसप्ततत्त्वनवपदार्थरुचिरूपस्य मूढत्रयादिपंचविंशतिदोषरहितस्य तदनुसारि प्रशमसंवेगानुकम्पादेवधर्मादिविषयास्तिक्याभिव्यक्तिलक्षणस्य पंचमगुणस्थानयोग्यदेशचारित्राविनाभाविसरागसम्यक्त्वस्यान्यथानुपपत्तेरिति हेतुः । अथवा अनंतानुबंध्यप्रत्याख्यनप्रत्याख्यानावरणक्रोधमानमायालेोभोदयजनितरागद्वेषमोहाः सम्यग्दृष्टेर्नसंतीति पक्षः । कस्मादिति चेत् चिदानंदैकस्वभावशुद्धात्मोपादेयत्वे सति षद्रव्यपंचास्तिकायसप्ततत्त्वत्नवपदार्थरुचिरूपस्य मूढत्रयादिपंचविंशतिदोषरहितस्य तदनुसारिप्रशमसंवेगानुकंपादेवधर्मादिविषयास्तिक्याभिव्यक्तिलक्षणस्य षष्ठगुणस्थानरूपसरागचारित्राविनाभाविसरागसम्यक्त्वस्यान्यथानुपपत्तेरिति हेतुः । अथवा अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधमानमायालोभतव्रिोदयजनिताः प्रमादोत्पादकाः, रागद्वेषमोहाः सम्यग्दृष्टेर्न संतीति पक्षः । कस्मात् ? इति चेत् — शुद्धबुद्धैकस्वभावपरमात्मोपादेयत्वेसति तद्योग्यस्वकीयशुद्धात्मसमाधिसंज्ञातसहजानंदै कस्वलक्षणसुखानुभूतिमात्र स्वरूंपाऽप्रमत्तादिगुणस्थानवर्तिवीतरागचारित्राविनाभूतवीतरागसम्यक्त्वस्यान्यथानुपपत्तेरिति ।
तथाचोक्तं—
आद्या सम्यक्त्व चारित्रे द्वितीया नन्त्यणुव्रतं तृतीया सयमं तुर्य्या यथाख्यातं क्रुधादयः
इति गाथापूर्वार्द्धे व्याख्यानं गतं । तह्मा आसवभावेण विणा हेदू ण पश्च्चया होंति - यस्मात् गाथायाः पूर्वार्धकथितक्रमेण रागद्वेषमोहा न संति तस्मात्कारणात् रागादिरूपभावास्रषेण विना अस्तित्वमात्रेण, उदयमात्रेण वा, भावप्रत्ययाः सम्यग्दृष्टेर्न भवतीति ।
हेदू चदुवियप्यो अडवियप्यस्स कारणं होदि मिथ्यात्वाविरतिप्रमादकषाययोगरूपचतुर्विधो हेतु:, ज्ञानावरणादिरूपस्याष्टविधस्य नवतरद्रव्यकर्मणः कारणं भवति । तेसिंपिय रागादी तेषामपि मिथ्यात्वादिद्रव्यप्रत्ययानां, उदयागतानां जीवगतरागादि भावप्रत्ययाः कारणं भवति । कस्मात् !