________________
११०
सनातन जैन ग्रंथमालाया
नमुपादेयं कृत्वा तस्यैव निश्चयप्रतिक्रमणस्य साधकभावेन विषयकषायवचनार्थे करोति तदपि परंपरया मोक्षकारणं भवति, अन्यथा स्वर्गादिसुखनिमित्त पुण्य कारणमेव । यत्पुनरज्ञानिजनसंबंधिमिध्यात्वविषयकषायपरिमतिरूपमप्रतिक्रमणं तन्नरकादिदुःखकारणमेव । एवं प्रतिक्रमणाद्यष्टविकल्परूपशुभोपयोगो यद्यपि सवकल्पावस्थायाममृतकुभो भवति तथापि सुखदुःखादिसमतालक्षणपरमो पेक्षारूपंसयमापेक्षया विषकुंभ एवेति व्याख्यानमुख्यत्वेन चतुर्थस्थले गाथाष्टकं गतं ।
इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ द्वाविंशतिगाथाभिश्चतुर्भिरंतराधिकारैर्नवमो मोक्षाधिकारः समाप्तः ।
आत्मख्यातिः- यस्तावदज्ञानिजनसाधरणोऽप्रतिक्रमणादिः स शुद्धात्मसिद्ध्यभावस्वभावत्वेन स्वयमेवापराधत्वाद्विषकुंभ एव किं विचारेण । यस्तु द्रव्यरूपः प्रतिक्रमणादिः स सर्वापराधविषापदाकर्षणसमर्थत्वेनामृतकुंभोऽपि प्रतिक्रमणादिविलक्षणाप्रतिक्रमणादिरूपां तार्तीयकीं भूमिमपश्यतः स्वकार्य करणामर्थत्वेन विपक्षकार्यकरित्वाद्विषकुंभ एव स्यात् । अप्रतिक्रमणादिरूपा तृतीयभूमिस्तु स्वयं शुद्धात्मसिद्धि - रूपत्वेन सर्वापराधविषदोषाणां सर्वकषत्वात् साक्षात्स्वयममृतकुंभो भवतीति व्यवहारेण द्रव्यप्रतिक्रमणादे रपि, अमृतकुंभत्वं साधयति । तयैव च निरपराधो भवति चेतयिता । तदभावे द्रव्यप्रतिक्रमणादेरप्यपराध I एव । अतस्तृतीयभूमिकयैव निरपराधत्वमित्यवतिष्ठते तत्प्राप्त्यर्थ एवायं द्रव्यप्रतिक्रमणादिः, ततो ि मंस्था यत्प्रतिक्रमणादीन् श्रुतिरूपा जयति किंतु द्रव्यप्रतिक्रमणादिना न मुंचति अन्यदीयप्रतिक्रमणा प्रतिक्रमणाद्यगोचराप्रतिक्रमणादिरूपं शुद्धात्मसिद्धिलक्षणमतिदुष्करं किमपि करिष्यति । वक्ष्यते चात्रैवकम्मं जं पुव्वकयं सुहासुहमणेयवित्थरविसेसं । तत्तोणियत्त अप्पयं तु जो सो पडिकम्मणं इत्यादि ॥
अतो हताः प्रमादिनो गताः सुखासीनतां । प्रलीनं चापलं मुन्मीलितमालंबनं । आत्मन्येवालानितं चित्तमासंपूर्ण विज्ञानघनोपलब्धेः ॥ १८१ ॥
यत्र प्रतिक्रमणमेव विषप्रणीतं तत्राप्रतिक्रमणमेव सुधा कुतः स्यात् । तत्किं प्रमाद्यति जनः प्रपतन्नधोऽधः किं नोर्ध्वमूर्ध्वमधिरोहति निष्प्रमादः ॥ १८२ ॥ प्रमादकलितः कथं भवति शुद्धभावोऽलसः कषायभरगौरवादलसतां प्रमादो यतः । अतः स्वरसनिर्भरे नियमितः स्वभावे भवन्मुनिः परमशुद्धतां ब्रजति मुच्यते वाचिरात् ॥१८३॥ त्यक्त्वा शुद्धविधायि तत्किल परद्रव्यं समयं स्वयं स्वे द्रव्ये रतिमेति यः स नियतं सर्वापराधच्युतः । बंधध्वंसमुपेत्य नित्यमुदितस्वज्योतिरच्छोच्छल चैतन्यामृतपूरपूर्णमहिमा शुद्धो भवन्मुच्यते ॥ १८४ ॥ बंधच्छेदात्कलयदतुलं मोक्षमक्षय्यमेतन्नित्योद्योतस्फुटित सहजावस्थमेकांत शुद्धं । एकाकारस्वरस भरतोऽत्यंतगंभीरधीरं पूर्णज्ञानज्वलितमचले स्वस्य लीने महिम्नि || १८५ ॥ इति मोक्षो निष्क्रांतः
इति समयसारव्याख्यायामात्मख्यातौ, अष्टमों कः ।
तात्पर्यवृत्तिः- तत्रैवं सति शृंगाररहितपात्रवद्रागादिरहितशांतरसपरिणतशुद्धात्मरूपेण मोक्षो निष्क्रांतः । अथ प्रविशति सर्वविशुद्धज्ञानं – संसारपर्यायमाश्रित्याशुद्धोपादानरूपेणाशुद्धनिश्चयनयेन यद्यपि कर्तृत्वभोक्तृत्वंबधमोक्षादिपरिणामसहितो जीवस्तथापि सर्वविशुद्धपारिणामिकपरमग्राहकेण शुद्धोपादान• पेण शुद्धद्रव्यार्थिकनयेन कर्तृत्व- भोक्तृत्व-बंधमोक्षादिकरणभूतपरिणामशून्य एवेति । दवियं जं उप्पज्जदि