________________
- -~-समयप्राभृतं ।
.. -१५९ अनवरतमनंतैर्बध्यते सापराधः स्पृशति निरपराधो बंधनं जातु नैव। ............
नियतमयमशुद्धं स्वं भजन सापराधो भवति निरपराधः साधु शुद्धात्मसेवी ॥१८०॥.. - ननु किमनेन शुद्धात्मोपासनेन यतः प्रतिक्रमणादिनैव निरपराधो भवत्यात्मा सापराधस्याप्रतिक्रमणादेस्तदनपोहकत्वेन विषकुंभत्वे सति प्रतिक्रमणादेस्तदपोहकत्वेनामृतकुंभत्वात् । उक्तं च व्यवहार सूत्रे।
.. अपडिकमणं अपरिसरणं अप्पडिहारो अधारणा चैव ।
अणियत्तीय अणिंदा अगरुहा सोहीय विसकुंभो ॥ १ ॥ पडिकमणं पडिसरणं परिहारणं धारणा णियत्तीय ।
जिंदा गरहा सोही अट्ठविहो अमयकुंभो दु॥२॥ अत्रोच्यते
पडिकमणं पडिसरणं परिहरणं धारणा णियत्तीय। जिंदा गरुहा सोहिय अट्टविहो होदि विसकुंभो ॥३३४॥ अपडिकमणं अपडिसरणं अप्पडिहारो अधारणा चेव। । अणियत्तीय अणिंदा अगरुहा विसोहिय अमयकुंभो ॥३३५॥
प्रतिक्रमणं प्रतिसरणं परिहारो धारणा निवृत्तिश्च । ........ निंदा गर्दा शुद्धिः अष्टविधो भवति विषकुंभः ॥३३४॥
अप्रतिक्रमोऽप्रतिसरणं परिहारोऽधारणा चैव ।
। अनिवृत्तिश्चानिंदागोऽशुद्धिरमृतकुंभः ॥३३५।। तात्पर्यवृत्तिः-पडिकमणमित्यादि पडिकमणं प्रतिक्रमणं कृतदोषनिराकरणं । पडिसरणं प्रतिसरणं सम्यकत्वादिगुणेषु प्रेरणं । पडिहरणं प्रतिहरणं मिथ्यात्वरागादिदोषेषु निवारणं धारणा पंचनमस्कारप्रभृतिमंत्रप्रातमादिबहिर्द्रव्यालंवनेन चित्तस्थिरीकरणं धारणा । णियत्तीय बहिरंगविषयकषा यादीहागतचित्तस्य निवर्तनं निवृत्तिः । जिंदा आत्मसाक्षिदोषप्रकटनं निंदा गरुहा गुरुसाक्षिदोषप्रकटनं गर्दा । सोहिय दोषे सति प्रायश्चित्तं गृहीत्वा विशुद्धिकारणं शुद्धिः। इत्यष्टविकल्पशुरूपशुभोपयोगो यद्यपि मिथ्यात्वादिविषयकषायपरिणतिरूपाशुभोपयोगापेक्षया सविकल्पसरागचारित्रावस्थायाममृतकुंभो भवति । तथापि रागद्वेषमोहख्यातिपूजालाभदृष्टश्रुतानुभूतिभागाकांक्षारूपनिदानबंधादिसमस्तपरद्रव्यालंबनविभावपरिणामशून्या, चिदानंदैकस्वभावविशुद्धात्मालंबनभरितावस्था निर्विकल्पशुद्धोपयोगलक्षणा, अपडिकमणं इति गाथाकथितक्रमेण ज्ञानिजनाश्रितनिश्चयाप्रतिक्रमणादिरूपा तु या तृतीया भूमिस्तदपेक्षया वीतरागचा रित्रस्थितानां पुरुषाणां विषकुंभ एवेत्यर्थः ।
किं च विशेषः-अप्रतिक्रमणं द्विविधं भवति ज्ञानिजनाश्रित, अज्ञानिजनाश्रितं चेति। अज्ञानिजनाश्रितं यदप्रतिक्रमणं तद्विषयकषायपरिणतिरूपं भवति । ज्ञानिजीवाश्रितमप्रतिक्रमणं तु शुद्धात्मसम्यक्त्वश्रद्धानज्ञानानुष्ठानलक्षणत्रिगुप्तिरूपं । तच्च ज्ञानिजनाश्रितमप्रतिक्रमणं सरागचारित्रलक्षणशुभोपयोगापेक्षयायद्यप्यप्रतिक्रमणं भण्यते तथापि वीतरागचारित्रापेक्षया तदेव निश्चयप्रतिक्रमणं । कस्मात् ? इति चेत् समस्तशुभाशुभास्रवदोषनिराकरणरूपत्वादिति । ततः स्थितं तदेव निश्चयप्रतिक्रमणं व्यवहारप्रतिक्रमणोपक्षया, अप्रतिक्रमणशब्दवाच्यं ज्ञानिजनस्य मोक्षकारणं भवति । व्यवहारप्रतिक्रमणं तु यदि शुद्धात्मा.. भारमख्याती परिहारो धारणा णियत्तीय' इति पाठः।