________________
सनातन जैनप्रथमालायां
'आत्मख्यातिः: - यथात्र लोके य एव परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बेक्शंका समवति । यस्तु शुद्धः सन् तं न करोति तस्य सा न संभवति । तथात्मापि य एवाशुद्धः सन् परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बंधशंका संभवति यस्तु शुद्धः संस्तं न करोति तस्य सा न संभवति, इति नियमः अतः सर्वथा सर्वपरकीयभावपरिहारेण शुद्ध आत्मां गृहीतव्यः, तथा सत्येव निरपराधत्वात् ।
११८
कोहि नामायमपराध: ?
-----
संसिद्धिराधसिद्धी साधिदमाराधिदं च एयट्ठो । अवगदराघो जो खलु चेदा सो होदि अवराहो ||३३२ ॥ जो पुण णिरवराहो चेदा णिस्संकिओ दु सो होदि । आराणाए णिचं वद्वेहिं अहं तु जाणतो ॥ ३३३॥
संसिद्धिरापसिद्धं साधितमाराधितं चैकार्थं ।
अपगतराधो यः खलु चेतयिता स भवत्यपराधः ॥ ३३२ ॥ यः पुनर्निरपराधश्चेतयिता निश्शंकितस्तु सं भवति । आराधनया नित्यं वर्तते, अहमिति जानन् ||३३३||
तात्पर्यवृत्तिः - संसिद्धिराघसिद्धी साधिदमाराधिदं च एयट्ठो कालत्रयवर्तिसमस्तमिथ्यात्वविषयकषायादिविभावपरिणामरहितत्वेन निर्विकल्पसमाधौ स्थित्वा निजशुद्धात्माराधनं सेवनं राधइत्युघ्यते संसिद्धिः सिद्धिरिति साधितमित्याराधितं च तस्यैव राधशब्दस्य पर्यायनामानि । अवगदराघो जो खलु चेदा सो होदि अवराहो अपगतो विनष्टो राधः शुद्धात्माराधना यस्य पुरुषस्य स पुरुषवा भेदेन भवत्यपराधः । अथवा अपगतोविनष्टो राधः शुद्धात्माराधः शुद्धात्माराधना यस्य रागादिविभावपरिणामस्य स भवत्यपराधः सहापराधेन वर्तते यः स सापराधः चेतयितात्मा तद्विपरीत त्रिगुप्तिसमाधिस्थो निरपराध इति ।
अथ हे भगवन् किमनेन शुद्धात्माराधनाप्रयासेन यतः प्रतिक्रमणाद्यनुष्ठानेनैव निरपराधो भक्त्यात्मा, कस्मात् ? इति चेत् सापराधस्याप्रतिक्रमणादेर्दोपशब्दवाच्यापराधाविनाशकत्वेन विषकुंभवे सति प्रतिक्रमणा देर्दोषशब्दवाच्यापराधविनाशकत्वेनामृतकुंभत्वात् इति तथा चोक्तं चिरंतनप्रायश्चितग्रंथे—
अपडिक्कमणं अपडिसरणं अप्पडिहारो अधारणा चेव । अणियत्तीय अणिदा अगरुहा सोहीय विसकुंभो ॥ १ ॥ पडकमणं पडसरणं पडिहरणं धारणा णियत्तीय । जिंदा गरुहा सोही अट्ठविहो अमयकुंभोदु ॥ २ ॥ अत्र पूर्वपक्षे परिहारः
-
आत्मख्यातिः — परद्रव्यपरिहारेण शुद्धस्यात्मनः सिद्धिः साधनं वा राधः, अपगतो राधो यस्य भावस्य सोऽपराधस्तेन सह यश्चेतयिता वर्तते स सापराधः स तु परद्रव्यग्रहणसद्भावेन शुद्धात्मसिद्ध्यभावा द्वंधशंकासंभवे सति स्वयमशुद्धत्वादनाराधक एव स्यात् । यस्तु निरपराधः स समग्रपरद्रव्यपरिहारेण शुद्धात्मासद्धिसद्भावाद्बधशंकाया असंभवे सति, उपयोगैकलक्षणशुद्ध आत्मैक एवाहमिति निश्चिन्वन् नित्यमे शुद्धात्मसिद्धिलक्षणयाराधनया वर्तमानत्वादाराधक एव स्यात् ।
१ नेयं गाथात्र स्वात्पर्यवृत्तौ—