________________
- समयप्रामृतं। आत्मख्याति:-योहि परात्मनोनियतस्वलक्षणविभागपातिन्या प्रज्ञया ज्ञानी स्यात् स खल्वेकं चिन्मात्रं भावमात्मीयं जानाति शेषांश्च सर्वानेब भावान् परकीयान् जानाति । एवं जानन् कथं परभावान्ममामी इति व्रयात् परात्मनोनिश्चयेन स्वस्वामिसंबंधस्यासंभवात् । अतः सर्वथा चिद्भाव एव गृहीतव्यः शेषाः सर्वे एव भावाः प्रहातव्या इति सिद्धांतःसिद्धांतोऽयमुदात्तचित्तचरितर्मोक्षार्थिभिः सेन्यता शुद्धं चिन्मयमेकमेव परमं ज्योतिः सदैवास्म्यहं । एते ये तु समुल्लसंति विविधा भावा पृथग्लक्षणाः तेहं नास्मि यतोऽत्र ते मम परद्रव्यं समप्रा अपि ।१७८०
परद्रव्यग्रहं कुर्वन् वध्यते वापराधवान् ।
बध्येतानपराधेन स्वद्रव्ये संवृतो मुनिः ॥ १७९ ॥ तेयादी अवराहे कुव्वदि जो सो ससंकिदो होदि । मा वज्झेहं केणवि चोरोत्ति जणम्मि विवरंतो ॥३२९॥ जो ण कुणदि अवराहे सो णिस्संको दु जणवदे भमदि । गवि तस्स वज्झिदुं जे चिंता उप्पजदि कयावि ॥३३॥ एवं हि सावराहो वज्झामि अहं तु संकिदो चेदा। जो पुण गिरवराहो णिस्संकोहं ण वज्झामि ॥३३१॥ स्तेयादीनपराधान् करोति यः स शंकितो भवति । मा बध्ये केनापि चौर इति जने विवृण्वन् ॥ ३२९॥ यो न करोत्यपराधान् स निश्शंकस्तु जनपदे भवति । नापि तस्य बधु अहो चिंतोत्पद्यते कदाचित् ॥ ३३०॥ एवं हि सापराधो बध्येऽदं तु शंकितश्चेतयिता।
यदि पुनर्निरपराधो निश्शंकोऽहं तु बध्ये ॥ ३३१ ॥ तात्पर्यवृत्तिः-तेयादी अवराहे कुव्वदि जो सो ससंकिदो होदि यस्तेयपरदाराद्यपराधान् करोति स पुरुषः सशंकितो भवति । केन रूपेण ? मा जज्झेहं केणवि चोरोत्ति जणमि विवरंतो जने विचरन् माहं बध्ये केनापि तलवरादिना । किं कृत्वा ? चौर इति मत्त्वा । इत्यन्वयदृष्टांतगाथा गता - जो ण कुणदि अवराहे सो णिस्संको दु जणवदे भमदि यस्तेयपरदाराद्यपराधं न करोति स निशंको जनपदे लोके भ्रमति । णवि तस्स वज्झिदं जे चिंता उप्पज्जदि कयावि तस्य चिंता नोत्पद्यते कदाचिदपि जे अहो यस्मात्कारणात् वा निरपराधः, केन रूपेण चिंता नोत्पद्यते ? नाहं बध्ये केनापि चौर इति मत्त्वा । एवं व्यतिरेकदृष्ठांतगाथा गता । एवंहि सावराहो वज्झामि अहं तु संकिदो चेदा यो रागादिपरद्रव्यग्रहणं स्वीकारं करोति स स्वस्थभावच्युतः सन् सापराधो भवति सापराधोऽत्र शंकितो भवति । केन रूपेण ? बध्येऽहं कर्मतापन्नो ज्ञानावरणादिकर्मणा । ततः कर्मबंधभीतः प्रायश्चित्तंप्रतिक्रमणरूपं दंडं ददाति जो पुण णिरवराहो णिस्संकोहं ण वज्झामि यस्तु पुनर्निरपराधो भवति। कन रूपेण : इति चेत्-रागाद्यपराधरहितत्वात् नाहं बध्ये केनापि कर्मणेति प्रतिक्रमणादिदंडं विनाप्यनंतज्ञानादिरूपनिर्दोषपरमात्मभावनयैव शुद्ध्यति इत्यन्वयव्यतिरेकदा तगाथा गता। ___ अथ को हि नामायमपराधः ! इति पृच्छति । १. पुस्तके सापराधाच्छंकितो भवाति पाठः।
-
-