________________
११६
सनातनजे नग्रंथमालायां
इति ? अत्र पूर्वपक्षे परिहारः -- सामान्य ग्राहकं दर्शनं, विशेषग्राहकं ज्ञानं । सामान्यविशेषात्मकं च वस्तु । सामान्यविशेषात्मकत्वाभावे चेतनाया अभावः स्यात् । चेतनाया अभावे आत्मनो जडत्वं, चेतनालक्षणस्य विशेषगुणस्याभावे सत्यभावो वा भवति । नचात्मनो जडत्वं दृश्यते नचाभावः ? प्रत्यक्षविरोधात् ? ततः स्थितं यद्यप्यभेदनयेनैकरूपा चेतना तथापि सामान्यविशेषविषयभेदेन दर्शनज्ञानरूपा भवतीत्यभिप्रायः ।
भथ शुद्धबुद्धैकस्वभावस्य परमात्मनः शुद्धचिद्रूप एक एव भावः न च रागादय इत्याख्याति - आत्मख्यातिः --चेतनया दर्शनज्ञानविकल्पानतिक्रमणाच्चेतयितृत्वमिव दृष्टत्वं ज्ञातृत्वं चात्मनः स्वलक्षणमेव ततोहं दृष्टारमात्मानं गृण्हामि यत्किल गृहामि तत्पश्याम्येव, पश्यन्नेव पश्यामि पश्यतैव पश्यामि पश्यते एव पश्यामि पश्यत एव पश्यामि पश्यत्येव पश्यामि पश्यतमेव पश्यामि । अथवा न पश्यामि, न पश्यन् पश्यामि, न पश्यता पश्यामि, न पश्यते पश्यामि न पश्यतः पश्यामि न पश्यति पश्यामि, न पश्यंतं पश्यामि । किंतु सर्वविशुद्धो दृङ्मात्रो भावोऽस्मि । अपि च - ज्ञातारमात्मानं गृहामि यत्किल गृण्हामि तज्जानाम्येव, जानन्नेव जानामि, जानतैव जानामि, जानते एक जानामि, जानत एव जानामि, जानत्यव जानामि, जानंतमेव जानामि । अथवा- न जानामि, न जानन् जानामि, न जानता जानामि, न जानते जानामि, न जानतो जानामि न जानति जानामि, न जानंतं जानामि । किंतु सर्वविशुद्धो ज्ञप्तिमात्रो भावोऽस्मि । ननु कथं चेतना दर्शज्ञानविकल्पौ नातिक्रामति येन चेतयिता दृष्टा ज्ञाता च स्यात् ? उच्यते -चेतना तावत्प्रतिभासरूपा सा तु सर्वेषामेव वस्तूनां सामान्यविशेषात्मकत्वात् द्वैरूप्यं नातिक्रायति । ये तु तस्या द्वे रूपे ते दर्शनज्ञाने, ततः सा नातिक्रामति । यद्यतिक्रामति ? सामान्यविशेषातिक्रांतत्वाच्चेतनैव न भवति । तदभावे द्वौ दोषौ – स्वगुणोच्छेदाच्चेतनस्याचेतनतापत्तिः, व्याप काभावे व्याप्यस्य चेतनस्याभावो वा । ततस्तद्दोषभयाद्दर्शनज्ञानात्मिकैव चेतनाभ्युपगंतव्या ।
अद्वैतापि हि चेतना जगति चेदूदृग्ज्ञप्तिरूपं त्यजेत्तत्सामान्यविशेषरूपविरहात्सास्तित्वमेव त्यजेत् । तत्त्यागे जडता चितोऽपि भवति व्याप्यो विना व्यापकादात्मा चांतमुपैति तेन नियतं दृग्ज्ञाप्तिरूपास्ति चित् ॥ कश्चितश्चिन्मय एव भावो भावाः परे ये किल ते परेषां ।
ग्राह्यस्ततश्चिन्मय एव भावो भावाः परे सर्वत एव हेयाः । १७७ ।
को नाम भणिज वुहो णादुं सव्वे परोदये भावे । मज्भमिणं तिय वयणं जाणंतो अप्पयं सुद्धं ॥ ३२८ ॥ को नाम भणेद् बुधः ज्ञात्वा सर्वान् परोदयान् भावान् । ममेदमिति वचनं जानन्नात्मानं शुद्धं ॥ ३३८ ॥
-
तात्पर्यवृत्तिः – कोणाम भणिज्ज वुहो को ब्रूयाद्बुधो ज्ञानी विवेकी नाम स्फुटम्रहो वा न कोऽपि । किं ब्रूयात् । मज्झमिणंतियवयणं ममेति वचनं किं कृत्वा ? पूर्वं णादुं निर्मलात्मानुभूतिलक्षणभेदज्ञानेन ज्ञात्वा । कान् ? सव्बे परोदये भावे सर्वान् मिथ्यात्वरागादिभावान् विभावपरिणामान् । कथंभूतान् ? परोदयान् शुद्धात्मनः सकाशात् परेण कर्मोदयेन जनितान् । किं कुर्वन् सन् ? जाणतो अप्पयं सुद्धं जानन् परमसमरसीभावेनानुभवन् कं ? आत्मानं । कथं भूतं ? शुद्धं, भावकर्मद्रव्यकर्म नोकर्मरहितं । केन कृत्वा जानन् ? शुद्धात्मभावनापरिणताभेदरत्नत्रयलक्षणेन भेदज्ञानेनेति । एवं विशेषभेदभावनाव्याख्यानमुख्यत्वेन तृतीयस्थले सूत्रपंचकं गतं ।
अथ मिथ्यात्वरागादिपरभावस्वीकारेण बध्यते वीतरागपरमचैतन्यलक्षणस्वस्थभावस्वीकारेण मुच्यते जीव इति प्रकाशयति
१ पराइये भावे पाठोयमात्मख्याती ॥