________________
समयप्राभृतं ।' चेतये, न चैतयमानाय चेतये, न चेतयमानाचेतये, न चेतयमाने चेतये, न चेतयमानं चेतये । किंतु सर्वविशुद्धचिन्मात्री भावोऽस्मि ।
भित्वा सर्वमपि स्वलक्षणवलाद्रेत्तुं न यच्छक्यते । चिन्मुद्रांकितनिर्विभागमहिमा शुद्धश्चिदेवास्म्यहं ।। भिद्यते यदि कारकाणि यदि वा धर्मा गुणा वा यदि।
भिद्यतां न भिदास्ति काचन विभौ भावे विशुद्धे चिति ॥ १७६ ।। पण्णाए पित्तवो जो दट्ठा सो अहं तु णिच्छयदो। अवसेसा जे भावा ते मज्झ परेति णादव्वा ॥३२६॥ पण्णाए पित्तव्वो जो णादा सो अहं तु णिच्छयदो। अवसेसा जे भावा ते मज्झ परोत्ति णादव्वा ॥३२७॥ युग्मं ॥ प्रज्ञया गृहीतव्यो यो दृष्टा सोऽहं तु निश्चयतः । अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥३२६॥ प्रज्ञया गृहीतव्यो यो ज्ञाता सोऽहं तु निश्चयतः।
अवशेषाः ये भावास्ते मम परा इति ज्ञातव्याः ॥३२७॥ तात्पर्यवृत्तिः- प्रज्ञया गृहीतव्यो यो दृष्टा सोहं तु निश्चयतः, अवशेषा मे भावा ते ममः परा इति ज्ञातव्याः । प्रज्ञया गृहीतव्यो यो ज्ञाता सोऽहं तु निश्चयतः, अवशेषा ये भावा ते मम परा इति ज्ञातव्याः चेतनाया दर्शनज्ञानविकल्पानतिक्रमणाच्चेतयितृत्वमिव दृष्टुत्वं ज्ञातृत्वं चात्मनः स्वलक्षणमेव । ततोह दृष्टांरमात्मानं गृहामि । यत्किल गृह्णामि तत्पश्याम्येव, पश्यन्नेव पश्यामि, पश्यतैव पश्यामि, पश्यते एंव पश्यामि, पश्यत एव पश्यामि, पश्यत्येव पश्यामि, पश्यंतमेव पश्यामि । अथवा-न पश्यामि, न पश्यन् पश्यामि, न पश्यता पश्यामि, न पश्यते पश्यामि, न पश्यतः पश्यामि, न पश्यति पश्यामि, न पश्यंतं पश्यामि । किं तु सर्वविशुद्धो दृङ्मात्रो भावोऽस्मि । अपि च ज्ञातारमात्मानं गृहामि यत्किल गृण्हामि तज्जानाम्येव, जानन्नेव जानामि, जानतैव जानामि, जानते एव जानामि, जानत एव जानामि, जानत्येव जानामि, जानंतमेव जानामि । अथवा न जानामि, न जानन् जानामि, न जानतैव जानामि, न जानते जानामि, न जानतो जानामि, न जानति जानामि, न जानंतं जानामि । किं तु सर्वविशुद्धो ज्ञप्तिमात्रो भावोऽस्मि । ननु कथं चेतना दर्शनज्ञानविकल्पौ नातिकामति येन चेतयिता दृष्टा ज्ञाता च स्यात् ? उच्यतेचेतना तावत्प्रतिभासरूपा सा तु सर्वेषामेव वस्तूनां सामान्यविशेषात्मकत्वाद् द्वैरूप्यं नातिकामति । ये तु तस्या द्वे रूपे ते दर्शनज्ञाने, ततः सा ते नातिक्रामति । यद्यतिक्रामति ? सामान्यविशेषातिक्रांतत्वाच्चेतनैव न भवति । तदभावे द्वौ दोषौ स्वगुणोच्छेदाच्चेतनस्याचेतनतापत्तिः, व्यापकाभावे व्याप्यस्य चेतनस्याभावो वा । ततस्तद्दोषभयाद्दर्शनज्ञानात्मिकैव चेतनाभ्युपगंतव्या । । अद्वैतापि हि चेतना जगति चेदृग्ज्ञप्तिरूपं त्यजेत् तत्सामान्यविशेषरूपविरहात्सास्तित्वमेव त्यजेत् । तत्यागे जडता चितोऽपि भवतिव्याप्यो विना व्यापकादात्मा चांतमुपैति तेन नियतं दृग्ज्ञप्तिरूपास्तु चित्।
एकश्चितश्चिन्मय एव भावो भावाः परे ये किल ते परेषां
ग्राह्यस्ततश्चिन्मय एव भावो भावाः परे सर्वत एव हेयाः ॥ अवशेषा ये रागादिभावा विभावपारणामास्ते चिदानंदैकभावस्य ममापेक्षया परा इति ज्ञातव्याः । अत्राह शिष्यः-चेतनाया ज्ञानदर्शनभेदौ न स्तः, एकैकचेतना ततो ज्ञाता दृष्टेति द्विधात्मा कथं घटत
१ दर्शनज्ञाने इत्यर्थः।
-