________________
१६८
सनातनजनैग्रंथमालायां
चतुष्टयं । तदनंतरं रागद्वेषोत्पत्तिविषये ज्ञानरूपस्वकीय बुद्धिरूपदोष एव कारणं नचाचेतनशब्दादिविषया इति कथनार्थे णिंददि सुंथुदि वयणाणि इत्यादि गाथादशकं । अतः परं उदयागतं कर्म वेदयमानो मदीयमिदं मया कृतं च मन्यते स्वस्थभावशून्यः सुखितो दुखितश्च भवति यः सः पुनरप्यष्टविधं कर्म दुःख बीजं बनातीति प्रतिपादन मुख्यत्वेन वेदंतो कम्मफलं इत्यादि गाथात्रयं । तदनंतरं आचारसूत्रकृतादि द्रव्यश्रुतेंद्रियविषयद्रव्यकर्म धर्माधर्माकाशकालाः शुद्धनिश्वयेन रागादयोऽपि शुद्धजीवस्वरूपं न भवतीति व्याख्यानमुख्यत्वेन सच्छं णाणं ण हवदि इत्यादि पंचदश सूत्राणि । ततः परं यस्य शुद्ध यस्याभिप्रायेण मूर्तिरहितस्तस्याभिप्रायेण कर्मनो कर्माहाररहित इति व्याख्यानरूपेण अप्पा जस्स अमुतो इत्यादि गाथात्रयं । तदनंतरं देहाश्रितद्रव्यलिंगं निर्विकल्पसमाधिलक्षणभावलिंगरहितं यतीनां मुक्तिकारणं न भवति भावलिंगसहितानां पुनः सहकारिकारणं भवतीति व्याख्यानमुख्यत्वेन पाखंडी लिंगाणिय इत्यादि सूत्रसप्तकं । पुनश्च समयप्राभृताध्ययनफलकथनरूपेण ग्रंथसमाप्त्यर्थ जो समय पाहुडमिणं इत्यादि सूत्रमेकं कथयतीति त्रयोदशभिरंतराधिकारैः समयसारचूलिकाधारे समुदायपातनिका -
इदानीं त्रयोदशाधिकाराणां यथाक्रमेण विशेषव्याख्यानं क्रियते । तद्यथा-एकांतेनात्मानं कर्तारं ये मन्यते तेषामज्ञानिजनवन्मोक्षो नास्तीत्युपदिशति
लोगस्स कुदि वि सुरणारयतिरियमाणु से सत्ते । समणाणंपिय अप्पा जेदि कुव्वदि छव्विहे काए ॥ ३५० ॥ लोगसमणाणमेवं सिंद्धतं पडि ण दिस्सदि विसेसो । लोगस्स कुदि विहू समणाणं अप्पओ कुणदि || ३५१ ॥ एवं कोवि मुक्खो दीसह दुण्हंपि समण लोयाणं । णिच्चं कुव्वंताणं सदेव मणुआसुरे लोगे || ३५२ ॥
लोकस्य करोति विष्णुः सुरनारकतिर्यमानुषान् सत्वान् । श्रमणानामप्यात्मा यदि करोति षडिधान् कायान् ।। ३५० ।। लोकश्रमणानामेवं सिद्धांतं प्रति न दृश्यते विशेषः । लोकस्य कति विष्णुः श्रमणानामध्यात्मा करोति ।। ३५१ ॥ एवं न कोऽपि मोक्षो दृश्यते लोकश्रमणानां द्वयेषां । नित्यं कुर्वतां सदैव मनुजान सुरान् लोकान् ।। ३५२ ।।
a
तात्पर्यवृत्तिः - लोगस्स कुणदि विह सुरणारयतिरियमाणु मे सत्ते लोकस्य मते विष्णु: करोति । कान् ? सुरनारकतिर्यङ्मानुषान् सत्वान् समणाणंपि य अप्पा जदि कुव्वदि छव्विये काए श्रमणानां मते पुनरात्मा करोति यदि चेत् कान्नू ? षट्जीवनिकायानिति । लोगसमणाणमेवं सिद्धत पडिण दिस्सदि विसेसो एवं पूर्वोक्तप्रकारेण सिद्धांतं प्रति, आगमं प्रति न दृश्यते कोऽपि विशेषः कयोः संबंधी ? लोकश्रमणयोः कस्मात् । इति चेत्-लोगस्स कुणदि विण्हू समणाणं (वि) अप्प - दि लोकमते विष्णुनामा कोऽपि परकल्पितपुरुषविशेषः करोति । श्रमणानां मते पुनरात्मा करोति तत्र विष्णुसंज्ञा श्रमणमते चात्मसंज्ञा नास्ति विप्रतिपत्तिर्नचार्थे । एवं ण कोवि मुक्खो दीसदि दुव्हंपि समणलोयाणं एवं कर्तृत्वे सति को दोषः ? मोक्षः कोऽपि न दृश्यते कयोर्लोकश्रमणयोः । किंविशिष्टयोः ?
११ सिद्धं जइ ण दीसह विसेसं, आत्मख्यातावयं पाठ: । २ दीसह लोयसमणाण दोण्डंपि पाठोयमात्मख्यातौ ।