________________
समयप्राभृतं ।
१६७ मति । तच परिणमनागमभाषयोपशमिकक्षायोपशमिकक्षायिकं भावत्रयं भण्यते । अध्यात्मभाषया पुनः शुद्धात्माभिमुखपरिणामः शुद्धोपयोग इत्यादि पर्यायसंज्ञां लभते । स च पर्यायः शुद्धपारिणामिकभावलक्षणशुद्धात्मद्रव्यात्कथंचिद्भिन्नः । कस्मात् ? भावनारूपत्वात् । शुद्धपारिणामिकस्तु भावनारूपो न भवति । यद्येकांतेनाशुद्धपारिणामिकादाभिन्नो भवति तदास्य भावनारूपस्य मोक्षकारणभूतस्य मोक्ष प्रस्तावे विनाशे जाते सति शुद्धपारिणामिकभावस्यापि विनाशः प्राप्नोति, नच तथा । ततः स्थितं - शुद्ध पारिणामिकभावविषये या भावना तद्रूपं यदौपशमिकादिभावत्रयं तत्समस्तरागादिरहितत्वेन शुद्धोपादानकारणत्वान्मोक्षकारणं भवति नच शुद्धपारिणामिकः । यस्तु शक्तिरूपो मोक्षः स शुद्धपारिणामिकपूर्वमेव तिष्ठति । अयं तु व्यक्तिरूपमोक्षविचारो वर्तते । तथा चोक्तं सिद्धांते - 'निष्क्रियशुद्धपारिणामिकं' निष्क्रिय इति कोऽर्थः ? बंध कारणभूता या क्रिया रागादिपरिणतिः, तद्रूपो न भवति । मोक्षकारणभूता च क्रिया शुद्धभावना परिणतिस्तद्रूपश्च न भवति । ततो ज्ञायते शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानरूपो न भवति । कस्मात् ? ध्यानस्य विनश्वरत्वात् । तथा योगींद्रदेवैरप्युक्तं
वि उपज्जह णवि मरइ वंधण मोक्खू करेइ । जिउ परमत्थे जोइया जिणवर एउ भणे ॥ १ ॥
किं च विवक्षितैकदेशशुद्धनयाश्रितेयं भावना निर्विकारस्वसंवेदनलक्षणक्षायोपशमिकान्यत्वेन यदाप्येकदेशव्यक्तिरूपा भवति तथापि ध्याता पुरुषः यदेव सकलनिरावणमखंडैकप्रत्यक्षप्रतिभासमयमविनश्वरं शुद्धपारिणामिकपरमभावलक्षणं निजपरमात्मद्रव्यं तदेवाहमिति भावयति नच खंडज्ञानरूपमिति भावार्थः । इदं तु व्याख्यानं परस्परसापेक्षागमाध्यात्मनयद्वयाभिप्रायस्यानिरोधेनैव कथितं सिद्ध्यतीति ज्ञातव्यं विवेकिभिः ।
अतः परं जीवादिनवाधिकारेषु जीवस्य कर्तृत्वभोक्तृत्वादिस्वरूपं यथास्थानं निश्चयव्यवहारविभागेन सामान्येन यत्पूर्वं श्रावितं, तस्यैव विशेषविवरणार्थं लोकस्स कुणादि विहू इत्यादि गाथामादिं कृत्वा पाठक्रमेण षडधिकनवतिगाथापर्यंतं चूलिकाव्याख्यानं करोति
चूलिकाशब्दस्यार्थः कथ्यते तथाहि - विशेषव्याख्यानं, उक्तानुक्तव्याख्यानं, उक्तानुक्तसंकीर्णव्या ख्यानं चेति त्रिधा चूलिकाशब्दस्यार्थो ज्ञातव्यः । तत्र षण्णवतिगाथासु मध्ये विष्णोर्देवादिपर्यायकर्तृत्वनिराकरणमुख्यत्वेन लोगस्स कुणदि विह्न इत्यादि गाथासप्तकं च भवति । तदनंतरं, अन्यः कर्ता, भुंक्ते चाम्यः— इत्येकांतनिषेधरूपेण बौद्धमतानुसारिशिष्यसंबोधनार्थं केहिंदु पज्जयेहिं इत्यादिसूत्रचतुष्टयं । अतः परं सांख्यमतानुसारिशिष्यं प्रति, एकांतेन जीवस्य भावमिध्यात्वकर्तृत्वनिराकरणार्थं मिच्छत्ता जदि पयडी इत्यादि सूत्र चिकं । ततः परं ज्ञानाज्ञानसुखदुःखादिभावान् कर्मैवैकांतेन करोति नचात्मेति पुनरपि सांख्यमतनिराकरणार्थं - कम्मेहिं अण्णाणी इत्यादि त्रयोदशसूत्राणि । अथानंतरं कोऽपि प्राथमिकशिष्यः शब्दादिपंचेन्द्रियविषयाणां विनाशं कर्तुं वांछति किंतु मनसि स्थितस्य विषयानुरागस्य घातं करोमीति विशेषविवेकं न जानाति तस्य संबोधनार्थे दंसणणाणचरितं इत्यादि सूत्रसप्तकं । तदनंतरं यथा सुवर्णकारादिशिल्पी कुंडलादिकर्म हस्त कुदृकाद्युपकरणैः करोति । तत्फलं मूल्यादिकं भुंक्ते च तथापि तन्मयो न भवति । तथा जीवोऽपि द्रव्यकर्म करोति भुंक्ते च तथापि तन्मयो न भवतीत्यादिप्रतिपादनरूपेण जह सिप्पियो दु इत्यादि गाथा सप्तकं । ततः परं यद्यपि श्वेतमृत्तिका कुड्यादिकं श्वेतं करोति तथापि निश्चयन तन्मयो न भवति । तथा जीवोऽपि व्यवहारेण ज्ञेयभूतं च द्रव्यमेव जानाति पश्यति परिहरति श्रद्दधाति च तथापि निश्चयेन तन्मयो न भवति इति ब्रह्माद्वैतमतानु सारिशिष्यसंबोधनार्थ जहसेडिया इत्यादि सूत्रदशकं । ततः परं शुद्धात्मभावनारूपनिश्चयप्रतिक्रमण— निश्चयप्रत्याख्यान-निश्चयालोचना - निश्चयचारित्रव्याख्यानमुख्यत्वेन कम्मं जं पुव्वकयं इत्यादिसूत्र