________________
समयप्राभृतं ।
१६९
णिचं कुव्वंताणं सदेव मणुत्रासुरे लोगे नित्यं सर्वकालं कर्म कुर्वतोः । क ? लोके । कथंभूते ? देवमनुष्यासुरसहिते । किंच - रागद्वेषमोहरूपेण परिणमनमेव कर्तृत्वमुच्यते । तत्र रागद्वेषमोहपरिणमने सति शुद्धस्वभाव'त्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयात्मकमोक्षमार्गाच्यवनं भवति ततश्च मोक्षो न भवतीति भावार्थः । एवं पूर्वपक्षरूपेण गाथात्रयं गतं ।
अथोत्तरं निश्चयेनात्मनः पुद्गलद्रव्येण सह कर्तृकर्मसंबंधो नास्ति कथं कर्ता भविष्यतीति कथयति - आत्मख्यातिः - ये त्वात्मानं कर्तारमेव पश्यंति ते लोकोत्तरिका अपि न लौकिकतामतिवर्तते । लौकिकानां परमात्मा विष्णुः सुरनारकादिकार्याणि करोति तेषां तु स्वात्मा तानि करोति इत्यपसिद्धांतस्य समत्वात् । ततस्तेषामात्मनो नित्यकर्तृत्वाभ्युपगमात् - लौकिकानामिव लोकोत्तरिकाणामपि नास्ति मोक्षः । नास्ति सर्वोऽपि संबंधः परद्रव्यात्मतत्त्वयोः । कर्तृत्वसंबंधाभावे तत्कर्तृता कुतः ॥ १९० ॥
ववहार भासिदेण दु परदव्वं मम भणति विदित्था । जाणंति णिच्छयेण दु णय इह परमाणुमि मम किंचि ॥ ३५३ ॥ जह कोवि णरो जंपदि अह्माणं गामविसयपुररखं । य होंति ताणि तस्सदु भणदिय मोहेण सो अप्पा ॥ ३५४ ॥ एमेव मिच्छदिट्ठी णाणी णिस्संसयं हवदि एसो । जो परदव्वं मम इदि जाणतो अप्पयं कुणदि || ३५५॥ तह्माण मेति णच्चा दो एदा कत्ति ववसाओ । परदव्वे जाणतो जाणे जो दिट्ठिरहिदाणं ॥ ३५६ ॥
व्यवहार भाषितेन तु परद्रव्यं मम भर्णत्यविदितार्थाः । जानंति निश्चयेन तु नचेह परमाणुमात्रमपि किंचित् ॥ ३५३ ॥ यथा कोsपि नरो जल्पति अस्माकं ग्रामविषयपुरराष्ट्रं । नच भवंति तस्य तानि तु भणति च मोहेन स आत्मा || ३५४ ॥ एवमेव मिध्यादृष्टिर्ज्ञानी निस्संशयं भवत्येषः ।
यः परद्रव्यं ममेति जानन्नात्मानं करोति ।। ३५५ ॥ तस्मान्न मे इति ज्ञात्वा द्वयेषामप्येतेषां कर्तृव्यवसायं । परद्रव्ये जानन् जानीयाद्दष्टिरहितानां ।। ३५६ ।।
तात्पर्यवृत्तिः — ववहार भासिदेण दु परदव्वं मम भांति विदिदच्छा पर द्रव्यं मम भणति । के ते ? विदितार्थाः-ज्ञातार्थाः तत्त्ववेदिनः । केन कृत्वा भांति ? व्यवहारभाषितेन व्यवहारनयेन । जाणंति णिच्छयेण दु णय इह परमाणुमित्त मम किंचि निश्चयेन पुनर्जानंति । किं ? नचेह परद्रव्यं परमाणुमात्रमपि ममेति । जह कोवि णरो जंपदि अह्माणं गाम विसयपुर र द्वं यथा नाम स्फुटमहो वा कश्चित्पुरुषो जल्पति । किं जल्पति ? वृत्त्यावृतो ग्रामः, देशाभिधानो विषयः, नगराभिधानं पुरं, देशैकदेशसंज्ञं राष्ट्रमस्माकमिति ।
यहुं ति ताणि तस्सदु भणदिय मोहेण सो अप्पा नच तानि तस्य भवंति राजकीय नगरादीनि तथाप्यसौ मोहेन ब्रूते मदीयं प्रामादिकमिति दृष्टांतः । अथ दातः — एवं पूर्वोक्तदृष्टांतेन ज्ञानी व्यवहार