________________
१७.
सनातनजैनग्रंथमालायांमूढो भूत्वा यदि परद्रव्यमात्मीयं भणति तदा मिथ्यात्व प्राप्तः सन् मिध्यादृष्टिर्भवति निस्संशयं निश्चित संदेहो न कर्तव्यः इति । तमा इत्यादि तह्मा तस्मात् परकीयग्रामादिदृष्टांतेन स्वानुभूतिभावनाच्युतः सन् : योऽसौ परद्रव्यं व्यवहारेणात्मीयं करोति स मिथ्यादृष्टिर्भवतीति भणितं पूर्व तस्मात्कारणाज्ञायते
दुई एदाण कत्तिववसाओ परद्रव्ये तयोः पूर्वोक्तलौकिकजैनयोः-आत्मा परद्रव्यं करोतीत्यनेन रूपेण योऽसौ परद्रव्यविषये कर्तृत्वव्यवसायः । किं कृत्वा ? पूर्व ण ममेति णच्चा निर्विकारस्वपरपरिच्छित्तिज्ञानेन परद्रव्यं मम संबंधि न भवति इति ज्ञात्वा जाणतो जाणिज्जो दिहिरहिदाणं इमं लौकिकजैनयोः परद्रव्ये कर्तृत्वव्यवसायं-अन्यः कोऽपि तृतीयतटस्थः पुरुषो जानन् सन् जानीयात् । स कथंभूतं जानीयात् ? वीतरागसम्यक्त्वसंज्ञायां तु निश्चयदृष्टिस्तद्राहितानां व्यवसायोऽयमिति । ज्ञानी भूत्वा व्यवहारेण परद्रव्यमात्मी यं वदन् सन् कथमज्ञानी भवतीति चेत् ? व्यवहारो हि म्लेछानां म्लेच्छभाषेव प्राथमिकजनसंबोधनार्थ काल एवानुसतव्यः । प्राथमिकजनप्रतिबोधनकालं विहाय कतकफलवदात्मशुद्धिकारकान् शुद्धनयाच्च्युतोभूत्वा यदि परद्रव्यमात्मीयं करोति तदा मिथ्यादृष्टिर्भवति । किं च विशेष:-लोकानां मते विष्णुः करोतीति यदुक्तं पूर्व तल्लोकव्यवहारापेक्षया भाणितं । नचानादिभूतस्य देवमनुष्यादिभूतलोकस्य विष्णुवो महेश्वरो वा कोऽपि कर्तास्ति । कथमिति चेत् सर्वोऽपि लोकस्तावदेकेंद्रियादिजीवैभृतस्तिष्ठति । तेषां च जीवानां निश्चयनयेन विष्णुपर्यायेण ब्रह्मपर्यायेण महेश्वरपर्यायेण जिनपर्यायेण च परिणमनशक्तिरस्ति तेन कारणेनात्मैव विष्णुः, आत्मैव ब्रह्मा, आत्मैव महेश्वरः, आत्मैव जिनः । तदपि कथमिति चेत् कोऽपि जीवः पूर्व मनुष्यभवे जिनरूपं गृहीत्वा भोगाकांक्षानिदानबंधेन पापानुबंधि पुण्यं कृत्वा स्वर्गे समुत्पद्य तस्मादागत्य मनुष्यभवे त्रिखंडाधिपतिरर्द्धचक्रवर्ती भवति तस्य विष्णुसंज्ञा नचापरः कोऽपि लोकस्य कर्ता विष्णुरस्ति इति । तथा चापरः कोऽपि जीवो जिनदीक्षां गृहीत्वा रत्नत्रयाराधनया पापानुबंधि पुण्यो पार्जनं कृत्वा विद्यानुवादसंज्ञं दशमपूर्व पठित्वा चारित्रमोहोदयेन तपश्चरणच्युतो भूत्वा हुण्डावसर्पिणीकालप्रभावेण विद्यावलेन लोकस्याहं कर्तेत्यादि चमत्कारमुत्पाद्य मूढजनानां विस्मयं कृत्वा महेश्वरो भवति न सर्वावसर्पिणीषु । सा च हुण्डावसर्पिणी संख्यातीता तत्सर्पिण्यवसर्पिणीषु गतासु समुपयाति तथा चोक्तं
सखातीदवसप्पिणि गयासु हुंडावसप्पिणी एय ।
परसमयह उप्पत्ती तहि जिणवर एव पभणेइ ॥ १॥ नचान्यः कोऽपि जगत्कर्ता महेश्वराभिधानः पुरुषविशेषोऽस्ति इति । तथा चापरः कोऽपि पुरुषो विशिष्टतपश्चरणं कृत्वा पश्चात्तपःप्रभावेण स्त्रीविषयनिमित्तं चतुर्मुखो भवति तस्य ब्रह्मा संज्ञा । नचान्यः कोऽपि जगतः कर्ता व्यापकैकरूपो ब्रह्माविधानोऽस्ति । तथैवापरः कोऽपि दर्शनविशुद्धिविनयसंपन्नतेत्यादि षोडशभावनां कृत्वा देवेंद्रादिविनिर्मितपंचमहाकल्याणपूजायोग्यं तीर्थकरपुण्यं समुपाय॑ जिनेश्वराभिधानो वीतरागसर्वज्ञो भवतीति वस्तुस्वरूपं ज्ञातव्यं । एवं यद्येकांतेन कर्ता भवति तदा मोक्षाभाव इति विष्णुदृष्टांतेन गाथात्रयेण पूर्वपक्षं कृत्वा गाथाचतुष्टयेन परिहारव्याख्यानमिति प्रथमस्थले सूत्रसप्तकं गतं ।
भय द्रव्यार्थिकनयेन य एव कर्म करोति स एव भुंक्ते । पर्यायार्थिकनयेन पुनरन्यः करोत्यन्यो भुक्ते इति च योऽसौ मन्यते स सम्यग्दृष्टिर्भवतीति प्रतिपादयति--
आत्मख्याति:-- अज्ञानिन एव व्यवहारविमूढा परद्रव्यं ममेदमिति पश्यति । ज्ञानिनस्तु निश्चयप्रतिबुद्धाः परद्रन्यकणिकामात्रमपि न ममेदमिति पश्यति । ततो यथात्र लोके कश्चिद्व्यवहारविमूढः परकीयग्रामवासी ममाय ग्राम इति पश्यन् मिथ्यादृष्टिः । तथा ज्ञान्यपि कथंचिद् व्यवहारविमूढो भूत्वा परद्रव्यं ममेदामिति पश्येत् तदा सोऽपि निस्संशयं परद्रव्यमात्मानं कुर्वाणो मिथ्यादृष्टिरेव स्यात् । अतस्तत्त्वं जानन् पुरुषः सर्वमेव परदन्यं न ममेति ज्ञात्वा लोकश्रमणानां द्वयेषामपि योऽयं परद्रव्ये कर्तृव्यवसायः, स तेषां सम्यग्दर्शनरहितत्वादेव भवति इति सुनिश्चितं जानीयात् ।
. नायं स. पुस्तके पाठः।
-