________________
समयप्राभृतं ।
४७ तेन पुद्गलकर्मणा सह परस्परोपादानकारणाभावादिति । एतावता किमुक्तं भवति स्वकीयक्षायोपशमिकपरिणामनिमित्तमुदयागतं कर्म जानतोपि जीवस्य तेन सह निश्चयेन कर्तृकर्मभावो नास्तीति । अथ पुद्गलकर्मफलं जानतो जीवस्य पुद्गलकर्मफलनिमित्तेन द्रव्यकर्मणा सह निश्चयेन कर्तृकर्मभावो नास्तीति कथयति ।
आत्मख्यातिः–यतो यं प्राप्यं विकार्य निर्वयं च व्याप्यलक्षणमात्मपरिणाम कर्म आत्मना स्वयमंतापकेन भूत्वादिमध्यांतेषु व्याप्य तं गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानन्नपि हि ज्ञानी स्वयमंतापको भूत्वा बहिःस्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यांतेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च । ततः प्राप्यं विकार्य निर्वत्यै च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य स्वपरिणामं जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः । पुद्गलकर्मफलं जानतो जीवस्य सह पुद्गलेन कर्तृकर्मभावः किं भवति किं न भवतीति चेत् ।
णवि परिणमदि ण गिढदि उप्पजदि ण परदव्वपजाए । णाणी जाणतो वि हु पुग्गलकम्मफलमणंतं ॥४॥
नापि परिणपति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । - ज्ञानी जाननपि खलु पुद्गलकर्मफलमनंतं ।।८४॥ तात्पर्यवृत्तिः-पूग्गलकम्मफलमणंतं उदयागतद्रव्यकर्मणोपादानकारणभूतेन क्रियमाणं सुखदुःखरूपशक्त्यपेक्षयानंतकर्मफलं गाणी जाणंतो वि हु वीतरागशुद्धात्मसंवित्तिसमुत्पन्नसुखामृतरसतृप्तो भेदज्ञानी निर्मलविवेकभेदज्ञानेन जानन्नपि हि स्फुटं ण परिणमदि ण गिङ्गदि उप्पज्जदि ण परदव्वपज्जाये वर्तमानसुखदुःखरूपं शक्तयपेक्षानिमित्तमुदयागतं परपर्यायरूपं पुद्गलकर्म मृत्तिकाकलशरूपेणेव शुद्धनयेन न परिणमति न तन्मयत्वेन गृह्णाति न तत्पर्यायेणोत्पद्यते च । कस्मादिति चेत् मृत्तिकाकलशयोरिव तेन द्रव्यकर्मणा सह तादात्म्यलक्षणसंबंधाभावादिति । किं च विशेषः यदि पुद्गलकर्मरूपेण न परिणमति न गृह्णाति न तदाकारेणोत्पद्यते । तर्हि किं करोति ज्ञानी जीवः मिथ्यात्वविषयकषायख्यातिपूजालाभभोगाकांक्षारूपनिदानबंधशल्यादिविभावपरिणामकर्तृत्वभोक्तृत्वविकल्पशून्यं पूर्णकलशवच्चिदानंदैकस्वभावेन भरितावस्थं शुद्धात्मानं निर्विकल्पसमाधौ ध्यायतीति भावार्थः । एवमात्मा निश्चयेन द्रव्यकर्मादिकं परद्रव्यं न परिणमतीत्यादिव्याख्यानमुख्यत्वेन गाथा त्रयं गतं । अथ जीवपरिणामं स्वपरिणाम स्वपरिणामफलं च जडस्वभावत्वादजानतः पुद्गलस्य निश्चयेन जीवेन सह कर्तृकर्मभावो नास्तीति प्रतिपादयति ।
___ आत्मख्यातिः—यतो यं प्राप्यं विकार्य निर्वर्यं च व्याप्यलक्षणं सुखदुःखादिरूपं पुद्गलकर्मफलं कर्म पदलद्रव्येण स्वयमंतापकेन भूत्वादिमध्यांतेषु व्याप्य तद्गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानन्नपि हि ज्ञानी स्वयमंतापको भूत्वा बहिःस्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यां तेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च । ततः प्राप्यं विकार्य निर्वत्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य सुखदुःखादिरूपं पुद्गलकर्मफलं जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः । जीवपरिणाम स्वपरिणामं स्वपारणामफलं चाजानतः पुद्गलद्रव्यस्य सह जीवन कतृकर्मभावः किं भवति किं न भवतीति चेत् ।
णवि परिणमदि ण गिढदि उप्पजदि ण परदव्वपज्जाए । पुग्गलदव्वं पि तहा परिणमइ सएहिं भावेहिं ॥८५॥ नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । पुद्गलद्रव्यमपि तथा परिणमति खकैर्भावैः ॥८॥