________________
सनातनजैनग्रंथमालायांकर्ता आत्मा भणितः न च कर्ता केन स उपायेन ।
धर्मादीन् परिणामान् यः जानाति स भवति ज्ञानी ॥८॥ तात्पर्यवृत्तिः-कत्ता आदा भणिदो कर्त्तात्मा भणितःण य कत्ता सो न च कर्ता भवति स आत्मा केण उवायेण केनाप्युपायेन नयविभागेन । केन नयविभागेनेति चेत् निश्चयेन अकर्ता व्यवहारेण कर्तेति । कान् धम्मादी परिणामे पुण्यपापादिकर्मजनितोपाधिपरिणामान् जो जाणदि सो हवादि णाणी ख्यातिपूजालाभादिसमस्तरागादिविकल्पोपाधिरहितसमाधौ स्थित्वा यो जानाति स ज्ञानी भवति । इति निश्चयनयव्यवहाराभ्यामकर्तृत्वकर्तृत्वकथनरूपेण गाथा गता । अथ पुद्गलकर्म जानतो जीवस्य पुद्गलेन सह तादात्म्यसंबंधो नास्तीति निरूपयति ।
णवि परिणमदि ण गिहृदि उपजदि ण परदव्वपजाये । णाणी जाणतो वि हु पुग्गलकम्मं अणेयविहं ॥८॥
नापि परिणमति न गृहात्युत्पद्यते न परद्रव्यपर्याये ।
ज्ञानी जाननपि खलु पुद्गलकर्मानेकविधं ॥८२।। तात्पर्यवृत्तिः-पुग्गलकम्मं अणेयविहं कर्मवर्गणायोग्यपुद्गलद्रव्येणोपादानकारणभूतेन क्रियमाणं पुद्गलकर्मानेकविधं मूलोत्तरप्रकृतिभेदभिन्नं जाणंतो वि हु विशिष्टभेदज्ञानेन जानन्नपि हु स्फुटं सः कः कर्ता णाणी सहजानंदैकस्वभावनिजशुद्धात्मरागाद्यास्रवयोर्भेदज्ञानी णवि परिणमदिण गिण्हदि उप्पजदिण परदन्वपज्जाये तत्पूर्वोक्तं परद्रव्यपर्यायरूपं कर्म निश्चयेन मृत्तिकाकलशरूपेणेव न परिणमति न तादात्म्यरूपतया गृह्णाति न च तदाकारेणोत्पद्यते । कस्मादिति चेत् मृत्तिकाकलशयोरिव तेन पुद्गलकर्मणा सह तादात्म्यसंबंधाभावात् । तत एतदायाति पुद्गलकर्म जानतो जीवस्य पुद्गलेन सह निश्चयेन कर्तृकर्मभावो नास्तीति । अथ स्वपरिणामं संकल्पविकल्परूपं जानतो जीवस्य तत्परिणामनिमित्तनोदयागतकर्मणा सह तादात्म्यसंबंधो नास्तीति दर्शयति ।
आत्मख्यातिः-यतो यं प्राप्यं विकार्य निर्वर्यं च व्याप्यलक्षणं पुद्गलपरिणामं कर्म पुद्गलद्रव्येण स्वयमंतापकत्वेन भूत्वादिमध्यांतेषु व्याप्य तं गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जाननपि हि ज्ञानी स्वयमंतापको भूत्वा बहिःस्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यांतेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च । ततः प्राप्यं विकार्य निर्वयं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य पुद्गलकर्म जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः । स्वपरिणामं जानतो जीवस्य सह पुद्गलेन कर्तृकर्मभावः किं भवति किं न भवति इति चेत् ।
णवि परिणमदि ण गिलदि उप्पजदि ण परदव्वपजाये । णाणी जाणतो वि हु सगपरिणामं अणेयविहं ॥३॥ नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये ।
ज्ञानी जानन्नपि खलु खकपरिणाममनेकविधं ॥८३॥ तात्पर्यवृत्तिः-सगपरिणामं अणेयविहं क्षायोपशमिकं संकल्पविकल्परूपं स्वेनात्मनोपादानकारणभूतेन क्रियमाणं स्वपरिणाममनेकविधं पाणी जाणतो वि हु निर्विकारस्वसंवेदनज्ञानीजीवः स्वपरमात्मनो विशिष्टभेदज्ञानेन जानन्नपि हु स्फुटं णवि परिणमदि ण गिण्हदि उप्पज्जदि ण परदव्वपज्जाये तस्य पूर्वोक्तस्वकीयपरिणामस्य निमित्तभूतसमुदायागतं पुद्गलकर्मपर्यायरूपं मृत्तिकाकलशरूपेणेव शुद्धनिश्चयनयेन न परिणमति न तन्मयत्वेन गृह्णाति न तत्पर्यायेणोत्पद्यते च । कस्मात् मृत्तिकाकलशयाोवि