________________
१७४
सनातनजनग्रंथमालायांदुण्णिवि भुति तस्स फलं तर्हि द्वौ जीवपुद्गलौ तस्य फलं भुंजाते ततश्चाचेतनायाः प्रकृतेरपि भोक्तृत्वं प्राप्तं स च प्रत्यक्षविरोध इति । अह ण पपडी ण जीवो पुग्गलदव्यं करेदि मिच्छत्तं अथ मतं न प्रकृतिः करोति नच जीव एकांतेन । किं ? पुद्गलद्रव्य कर्मतापन्नं । कथंभूतं । न करोति ? मिथ्यात्वं भावमिध्यावरूपं तमा पुग्गलदव्वं मिच्छत्तं तंतु णहु मिच्छा तर्हि यदुक्तं पूर्वसूत्रे अहवा एसो पुग्गल दध्वस्स कुणदि मिच्छत्तं तद्वचनं तु पुनः हु स्फुटं किं मिथ्या न भवति ? अपि तु भवत्यव । किं चयद्यपि शुद्धनिश्चयेन शुद्धोजीवस्तथापि पर्यायाथिकनयेन कथंचित्परिणामित्वे सत्यनादिकर्मोदयवशाद्रागा ग्रुपाधिपरिणामं गृह्णाति स्फटिकवत् । यदि पुनरेकांतेनापरिणामी भवति तदोपाधिपरिणामो न घटते । जपापुष्पोपाधिपरिणमनश तौ सत्यां स्फाटिके जपापुष्पमुपाधिं जनयति नच काष्ठादौ, कस्मादिति चेत् तदुपाधिपरिणमनशक्त्यभावात् इति । एवं यदि द्रव्यमिथ्यात्वप्रकृतिः कर्वी एकांतेन यदि भावमिथ्यात्वं करोति तदा जीवो भावमिथ्यात्वस्य कर्ता न भवति । भावमिध्यात्वाभावे कर्मबंधाभावः ततश्च संसाराभावः सच प्रत्यक्षविरोधः । इत्यादि व्याख्यानरूपेण तृतीयस्थले गाथापंचकं गतं ।।
भथ ज्ञानाज्ञानसुखदुःखादिकसैंकांतेन कर्मैव करोति नचात्मेति सांख्यमतानुसारिणो वदति तान्प्रति पुनरपि नयविभागेनात्मनः कथंचित्कर्तृत्वं व्यवस्थापयति
तत्र त्रयोदशगाथासु मध्ये कर्मैवैकांतेन कर्तृ भवति इति कथनमुख्यत्वेन कम्महिंदु अण्णाणी इत्यादि सूत्रचतुष्टयं । ततः परं साख्यमतेप्येवं भणितमास्ते--इति संवाददर्शनार्थं ब्रह्मचर्यस्थापनमुख्यत्वेनं पुरुसिच्छियाहिलासी इत्यादि गाथाद्वयं । अहिंसास्थापनमुख्यत्वेन जमा घादेदि परं इत्यादि गाथाद्वयं । प्रकृतेरेव कर्तृत्वं नचात्मन इत्येकांतनिराकरणार्थ-अस्यैव गाथाचतुष्टयस्यैव दूषणोपसंहाररूपेण एवं संखुवदेसं इत्यादि गाथैका इति सूत्रपंचकसमुदायेन द्वितीयमंतरस्थलं । तदनंतरं~-आत्मा कर्म न करोति कर्मजनितभावांश्च कित्वात्मानं करोतीत्येकगाथायां पूर्वपक्षो गाथात्रयेण परिहार इति समुदायेन अहवा मण्णसि मज्झं इत्यादि सूत्रचतुष्टयं । एवं चतुरांतराधिकारे स्थलत्रयेण समुदायपातनिका ।
आत्मख्यातिः - जीव एव मिथ्यात्वादिभावकर्मणः कर्ता तस्याचेतनप्रकृतिकार्यत्वे चेतनत्वानुषंगात् । स्वस्यैव जीवो मिथ्यात्वादिभावकर्मणः कर्ता जीवेन पुद्गलद्रव्यस्य मिथ्यात्वादिभावकर्मणि क्रियमाणे पुद्गलद्रव्यस्य चेतनानुषंगात् । नच जीवश्च प्रकृतिश्च मिथ्यात्वादिभावकर्मणो द्वौ कर्तारौ जीववदचेतनायाः प्रकृतेरपि तत्फलभोगानुषंगात् । नच जीवश्च प्रकृतिश्च मिथ्यात्वभावकर्मणो द्वौ कर्तारौ स्वभावत एव पुद्गलद्रव्यस्य मिथ्यात्वादि-भावानुषंगात् । ततो जीवः कर्ता स्वस्य कर्म कार्यमिति सिद्धं । कार्यत्वादकृतं न कर्म नच तज्जीवप्रकृत्योर्द्वयोरज्ञायाः प्रकृतेः स्वकार्यफलभगभावानुषगात्कृतिः । नैकस्याः प्रकृतेरचित्त्वलसन जीवोऽस्य कर्ता ततो जीवस्यैव च कर्म तच्चिदनुगं ज्ञाता नयत्पुद्गलः ॥१९३॥ कर्मैव प्रवितर्य कर्तृहतकैः क्षिप्वात्मनः कर्तृतां कात्मैव कथंचिदित्यचलिता कैश्चिच्छतिः कोपिता । तेषामुद्धतमोहमुद्रितधियां बोधस्य संशुद्धये स्याद्वादप्रतिबंधलब्धविजया वस्तुस्थितिः स्तूपते ॥ १९४ ॥
कम्महि दु अण्णाणी किनदि णाणी तहेव कम्मेहिं । कम्महिं सुवाविजदि जग्गाविजदि तहेव कम्मेहिं ॥३६६।। कम्मेहि सुहाविजदि दुक्खाविजदि तहेव कम्भेहिं । कम्मेहिय मिच्छत्तं णिजदिय अजयं च ॥३६७॥ कम्मेहिं भमाडिजदि उड्डमहं चाति तिरियलोचम्मि । कम्मेहि चेव किजदि सुहासुहं जत्तियं किंचि ॥३६८॥