________________
सनातनजैनग्रंथमालायांजह फलियमणि विसुद्धो ण सयं परिणमदि रागमादीहि । राइजदि अण्णेहिं दु सो रत्तादियेहिं दव्वेहिं ॥३.६॥ एवं णाणी सुद्धो ण सयं परिणमदि रागमादीहिं । राइजदि अण्णेहिं दु सो रागादीहिं दोसेहिं ॥३०७॥
यथा स्फटिकमणिः शुद्धो न स्वयं परिणमते रागायैः । रज्यतेऽन्यैस्तु स रक्तादिभिर्द्रव्यैः ॥३०६॥ एवं ज्ञानी शुद्धो न खयं परिणमते रागाद्यैः।
रज्यतेऽन्यैस्तु स रागादिभिर्दोषैः ॥३०७॥ तात्पर्यवृत्तिः--यथा स्फदिकमणिविशुद्धो बहिरुपाधिं विना स्वयं रागादिभावेन न परिणमति प. श्चात् स एव रज्यते, कैः ? जपापुष्पादिबहिर्भूतान्यद्रव्यैरिति दृष्टांतो गतः । एवमनेन दृष्टांतेन ज्ञानी शुद्धोभवन् स्वयं निरुपाधिचिच्चमत्कारस्वभावेन कृत्वा जपापुष्पस्थानीयकर्मोदयरूपपरोपाधिं विना रागादिविभाचैन परिणमति पश्चात्सहजस्वच्छभावच्युतः सन् स एव रज्यते, कैः ? कर्मोदयनिमित्तैरागादिदोषैः परिणामैरिति तेन ज्ञायते कर्मोदयजनिता रागादयो न तु ज्ञानिजीवजनिता इति दाटतो गतः । ___एवं चिदानंदैकलक्षणं स्वस्थभावं जानन् ज्ञानी रागादीन्न करोति ततो नवतररागाद्युत्पत्तिकारणभूतकर्मणां कर्ता न भवतीति कथयति
आत्मख्याति:-यथा खलु केवलः स्फटिकोपलः परिणामस्वभावत्वे सत्यपि स्वस्थ शुद्धस्वभावस्वेन रागादिनिमित्तत्वाभावात् रागादिभिः स्वयं न परिणमते, परद्रव्येणैव स्वयं रागादिभावापन्नतया स्वस्य रागादिनिमित्तभूतेन शुद्धस्वभावात्प्रच्यवमान एव रागादिभिः परिणम्यते । तथा केवलः किलात्मा परिणामस्वभावत्वे सत्यपि स्वस्य शुद्धस्वभावत्वेन रागादिनिमित्तत्वाभावात् रागादिभिः स्वयं न परिणमते परद्रव्येणैव स्वयं रागादिभावापन्नतया स्वस्य रागादिनिमित्तभूतेन शुद्धस्वभावात्प्रच्यवमान एव रागादिभिः परिणम्येत, इति तावद्वस्तुस्वभावः।
न जातु रागादिनिमित्तभावमात्मात्मनो याति यथार्ककांतः तस्मिन्निमित्तं परसंग एव वस्तुस्वभावोयमुदेति तावत् । १६९ । इति वस्तुस्वभावं स्वं ज्ञानी जानाति तेन सः
रागादीन्नात्मनः कुर्वन्नालो भवति कारकः ॥ १७० ॥ णवि रागदोसमोहं कुव्वदि णाणी कसायभावं वा । सयमप्पणो ण सो तेण कारगो तेसि भावाणं ॥३०॥
नापि रागद्वेषमोहं करोति ज्ञानी कषायभावं वा।
खयमेवात्मनो न स तेन कारकस्तेषां भावानां ॥३०८॥ तात्पर्यवृत्तिः–णवि रागदोसमोहं कुब्वदि गाणी कसायभावं वा ज्ञांनी न करोति । कान् ! रागादिदोषरहितशुद्धात्मस्वभावात्प्रथग्भूतान् रागद्वेषमोहान् क्रोधादिकषायभावं वा । कथं न करोति ! सयं स्वयं शुद्धात्मभावेन कर्मोदयसहकारिकारणं विना । कस्य संबंधित्वेन ? अप्पणो आत्मनः ण सो तेण कारगो तेसिं भावाणं तेन कारणेन स तत्त्वज्ञानी तेषां रागादिभावानां कर्ता न भवतीति ... अज्ञानी जीवः शुद्धस्वभावमात्मानमजानन् रागादीन् करोति ततः स भावरागादिजनकनवतरकर्मणां कर्ता भवतीत्युपदिशति